संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकविंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् । यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥१॥
सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् । तदेव ब्रह्म संपश्यत् ब्रह्मैव भवति स्वयम् ॥२॥
अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः । सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥३॥
गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् । नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥४॥
वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः । आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥५॥
सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् । अहं ब्रह्मा त्वं नास्ति अहंकारपरं नहि ॥६॥
अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा । वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥७॥
भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः । चिन्मयोऽहं जडं तुच्छ्रं चिन्मात्रं देहनाशनम् ॥८॥
चित्तं किञ्चित् क्कचिच्चापि चित्तं ह(दू)रोऽहमात्मकः । सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥९॥
आत्मा सत्यमनान्तात्मा देहमेव न संशयः । वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥१०॥
एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् । सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥११॥
सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहम् । सर्वं दृश्यं न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ॥१२॥
आग्रहं च न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् । इदमित्यपि निर्देशो न क्कचित् चिन्मयत्वाद्वदाम्यहम् ॥१३॥
निर्गुणब्रह्म एवाह सुगुरोरुपदेशतः । विज्ञानं सगुणो(णं) ब्रह्म अहं विज्ञानविग्रहः ॥१४॥
निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।
देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥१५॥
रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः । कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥१६॥
आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् । इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥१७॥
पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः । परमानन्दतत्वात्मा परिच्छिन्नं न हि क्कचित् ॥१८॥
एकात्मा निर्मलाकार अहमेवेति भावय । अहंभावनया युक्त अहंभावेन संयुतः ॥१९॥
शान्तं भावय सर्वात्मा शाम्यतत्वं मनोमलः । देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥२०॥
ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन । इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥२१॥
अहं सोहमहं सोहमहं ब्रह्मेति भावय । चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥२२॥
नेदं नेदं सदा नेदं न त्वं नाहं च भावय । सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥२३॥
सर्वं शब्दार्थभवनं सर्वलोकभयं न च । सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥२४॥
[ सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा नहि । सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥२५॥
ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि । ] प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥२६॥
ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव । स्थिररूपं परित्यज्य आत्ममात्रं भवत्यासौ ॥२७॥
त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज । स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥२८॥
इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् । इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥२९॥
सर्वभावं न सन्देहः सर्वं नास्ति न संशयः । सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥३०॥
त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः । सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥३१॥
ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा । न देहं पंचभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥३२॥
न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् । निमिषं च न शङ्कापि न सङ्कल्पं तसस्ति चेत् ॥३३॥
अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् । न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥३४॥
प्राणो....दीयते शास्ति घ्राणो यदिह गन्धकम् । चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥३५॥
त्यगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः । जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥३६॥
हस्तौ यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसंभवः । रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिव ॥३७॥
सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् । पूज्यं चेत् पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥३८॥
सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि । अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥३९॥
नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् । अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥४०॥
अत्यन्तं जन्ममात्रं च अत्यन्तं रणसंभवम् । अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥४१॥
अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् । अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥४२॥
अत्यन्तं सर्वदा शुभमत्यन्तं सर्वदा मलम् । अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥४३॥
अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् । एतावदुक्तमभयमहं में न किञ्चन ॥४४॥
सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् । नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥४५॥
कारणं कार्यरूपं वा सर्वं नास्ति न संशयः । कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥४६॥
सर्वं ब्रह्म न सन्देहः सर्वशब्दो न वास्तवम् । भूतं भविष्यं वार्तं तु कर्यं वा नास्ति सर्वदा ॥४७॥
सदसद्भेद्यभेदं वा न गुणा गुणभागिनः । निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥४८॥
भाष्यं वा भाषणं वाऽपि नास्ति नास्ति च किञ्चन । प्रबलं दुर्बलं वापि अहं च त्वं च वा क्कचित् ॥४९॥
ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्कचित् । तीर्थं वा स्नानरूपं वा देवो वा देवपूजनम् ॥५०॥
जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन । सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥५१॥
मातरः पितरो वापि देहो वा नास्ति किञ्चन । दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥५२॥
मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।
ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥५३॥
सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते । यः श्रृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥५४॥
स्कन्दः -
माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः
पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।
विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे
यस्यानल्पतपोभिरुग्रकरुणादृक् तस्य मुक्तिः स्थिरा ॥५५॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP