संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
द्वाविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - द्वाविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
ब्रह्मादयस्तदा देवि त्रियम्बकमुमासाखम् । मां तुष्टुवुस्तदा भक्त्या नदी गोदावरीं तथा ॥१॥
ब्रह्माद्याः -
भगाक्षिमथनान्तक प्रमथनाथ नः सर्वदा सुरासुरमुनिव्रजप्रणतपादपङ्केरुह ।
प्रपन्नजनकरक्षक प्रमथनाथ विश्वाधिक प्रसीद दुरितापह प्रवरनाम देवोत्तम ॥२॥
प्रकृष्टजनिनाशद प्रवरमाय मायाहर उमाधव रमाधव प्रणतपादकञ्ज प्रभो ।
शचीधवमुखामर द्विरदवक्त्र नन्दिस्तुत गदादर निशाकराद्यमर चारबाणाव नः ॥३॥
ईश्वरः -
एवं ब्रह्मादयस्तत्र त्र्यम्बकं मां महेश्वरि ययुः स्वस्थानममलं ब्रह्मलोकं सनातनम् ॥४॥
वर्णयन्तो विमानेषु गोदावर्यास्तदुद्भवम् । त्रियंबकोरुशिखरात् गोदावर्यास्तदाम्बिके ॥५॥
तत्र सप्तमुखी भूत्वा कुशावर्ते महेश्वरि । तत्रत्यान् पावयन्ती सा शैवान् मम पदाश्रयान् ॥६॥
तत्रत्या मुनयः सर्वे प्रवरातीरवासिनः । गोदावरीं तदा देवीं युक्तां प्रवरया सह ॥७॥
तत्र स्थानवरं देवि मम सान्निध्यकृत्तमम् । भीमशङ्करसंज्ञं तल्लिङ्गं मम मनोहरम् ॥८॥
तत्र पूर्वं महादेवि ब्रह्मणः पञ्चमं शिरः । मया विवदता तस्य सम्यग्वादेन शङ्करि ॥९॥
तत्पञ्चमं तस्य शिरो वृक्णं मम नखाग्रतः । तत्र स्तुवन्ति मां विप्रा भीमशङ्करसंज्ञितम् ॥१०॥
मुनयः -
त्वत्साम्यवादपरिचिह्वितपञ्चसंस्थं पञ्चाननस्य करकोणनखाग्रकृत्तम् ।
तत्कन्धरेण विलसत्करपल्लवं ते शूलामलेन विलसत् तव घोररूपम् ॥११॥
त्वं भीमशङ्करं इति श्रुतिषु प्रसिद्धः स्थानं तवैतदमलं मुनयो वदन्ति ।
गोदा सहा वहति या प्रवरासमेता तत्तीरगोऽसि विधिहन् पुरकामशत्रो ॥१२॥
एवं स्तुवन्ति मुनयो भृगाद्या मां महेश्वरि । सापि गोदावरी पुण्या तटलिङ्गैर्विभूषिता ॥१३॥
समुद्रं सङ्गता गौरि तरङ्गावलिभासुरम् । गोदावर्यां सकृत् स्नात्वा सदा पर्वणि सत्तमे ॥१४॥
अग्निष्टोमातिरात्राणां फलं प्राप्नोति मानवः । स्नात्वा योऽब्धौ महादेवि गोदावर्याश्च सङ्गमे ॥१५॥
सर्वमेधफलं प्राप्य मल्लोके निवसेच्चिरम् । गोदावर्यां शिवे स्नात्वा सिंहसंस्थे बृहस्पतौ ॥१६॥
सप्तजन्मकृतैः पापैस्तरक्षणादेव मुच्यते । भूम्यामेतन्नासिकाख्यं क्षेत्रमासीन्मनोरमे ॥१७॥
तस्मान्नासात्र्यंबकाख्यं वर्णयन्ति पुराविदः । अविमुक्तं च भूस्थानं हालास्यं द्वादशान्तकम् ॥१८॥
श्रीशैलोज्जयिनी देवि नेत्रे मम मनोरमे । ओङ्कारः कण्ठममलं श्रवणे कुण्डलीश्वरम् ॥१९॥
केदारं चैव कल्याणि अन्यान्यङ्गानि सत्तमे । भूमण्डलगतानीह शिवक्षेत्राणि शङ्करि ॥२०॥
द्विसप्ततिसहस्राणि नाडीजातं ममाङ्गमे । श्रीमच्चिदंबरं देवि हुद्यं यन्मम सद्म तत् ॥२१॥
तत्राहं सर्वदा देवि निवसामि स्वरूपतः । त्वया च गणपैः सार्धं स्कन्दविघ्नेश्वरेण च ॥२२॥
चिदम्बरमिति प्रोक्तं वेदवेदान्तसंस्तुतम् । मां सर्वे तत्र नृत्यन्तं वर्णयन्ति मुनीश्वराः ॥२३॥
देवी -
तत्र त्वां देवदेवेशं नृत्यन्तं ते मुनीश्वराः । कथं स्तुवन्ति हे शम्भो श्रोतुमिच्छामि तत्स्तुतिम् ॥२४॥
सूतः -
महादेवो गिरिजया तदा संप्रार्थितो द्विजाः । स्वनृत्तचित्रं तद्देव्यै कथयामास विस्तरात् ॥२५॥
ईश्वरः -
व्याघ्रपादादयो देवि शेषाद्याः प्रमथाधिपाः । जैमिनिप्रमुखाः सर्वे मन्नृत्यं वर्णयन्ति च ।
तत्तेऽहं वर्णयिष्यामि सावधानमनाः श्रृणु ॥२६॥
व्याघ्रपादजैमिनिशेषादयः -
विनिहितविधिजातमुण्डमालाकलितोरःस्थल शूलमूलबाहो ।
मणीगणखचितांघ्रिनूपुरोद्यत्प्रभवविदीपितदिक्तट प्रसीद ॥२७॥
डमरुकविनदोत्थितप्रकर्षप्रतिशब्दैर्बधिरीकृता ( खिला ) मरेन्द्र ।
करचालनखेलनोर्ध्वपादप्रतिहतभूतलनम्रमस्तनाग ॥२८॥
पतत्ताराजालस्फुटितगगनाभोगविलसद्विमानस्थैर्देवैः कलितसुमनोवर्षनिकरैः ।
अदभ्रादभ्राभ्रस्थलकृतनिवासैर्मुनिगणैर्भवज्जातं दृष्टं नटनमखिलैः सायमुमया ॥२९॥
वारंवारमघापहारिचरणं लीलाकृताण्डस्फुट -
त्त्रुट्यत्तारपतङ्गदीप्तिविशिखैर्विध्वस्तध्वान्तं स्फुटम् ।
पातालान्तरगाम्बिकेशनखरैर्दृष्ट्वाऽभिजिह्वोल्लस -
द्रक्तान्तोत्थितलोचनोरुयुगलं नक्तंचरस्यान्तकृत् ॥३०॥
श्रीमच्चारुशशाङ्कसङ्कुलमिलद्गङ्गातरङ्गोल्लसल्लीलालोलजटासटाविघटनत्रुट्यन्महोडुच्छट ।
ढक्काडंबरधांधुमध्वनिकृताहङ्कारदिक्चक्रकं तालोद्भेदमृदङ्गकालहलकरापारप्रभेदैः सुराः ।
त्वां सेवन्ति शिवं मुकुन्दविधयः सेन्द्राः प्रदोषे मुदा ॥३१॥
वीणापाणिनखप्रघट्टनभवैः शब्दैः सुरागैः क्कण -
द्वाणी तालकरा महेश परमानन्दोल्लसत्ताण्डव ।
शर्वाण्या सहित प्रसीद सततं सङ्गीतधारारसैः
संप्रीणाति शिवं प्रदोषसमये मां शङ्करं चाम्बिके ॥३२॥
जटाहीन्दुगङ्गातरङ्गोत्तमाङ्गं लसत्पाणिपादोज्वलच्चारुनागम् ।
कृपास्रव्यपाङ्गैर्निरीक्षन्तमीशं नटड्डामरारावनाट्यत्सुरङ्गम् (?) ॥३३॥
नन्दिभृङ्गिकृतमर्दलघोषैर्गल्लझल्लरकरैर्गणबृन्दैः ।
तण्डूचण्डकरताललयोत्थैर्नर्तनैर्मणिझणत्कृतशब्दैः ॥३४॥
शिञ्जितैर्मधुरनूपुरघोषैर्मण्डितं च नटनं श्रुतिघोषम् ।
श्रेष्ठः सुराणां पतिरङ्घ्रिपानां रौद्रं तवार्द्रा प्रथितं च ऋक्षम् ॥३५॥
तस्मिन् प्रभाते तप पादसूर्यं दृष्ट्वाऽभिनन्दत्यथ भक्तपद्मम् ॥३६॥
अंबरचर डम्बरवर घोषणशशिभूषण फणिकङ्कण गरशोषण स्मरमारण भगवन् ।
अरुणारुण चरणावित जनवीक्षण भगहारण पुरहन् ।
करुणाकर भवतारण वरुणालय कृतपारणं मुनिकारण परिपालय शिव माम् ॥३७॥
ईश्वरः -
तत्रैवं देवदेवेशि मां स्तुवन्ति मुनीश्वराः । तत्क्षेत्रमहिमानं ते कथयाम्यग्रतः शिवे ॥३८॥
गोदावर्या तदा देवि तपस्तप्तं ममाग्रतः । भस्माभ्यक्ता सदा देवि रुद्राक्षावलिभासुरा ॥३९॥
पञ्चाक्षरपरा नित्यं मां ध्यायन्ती हृदम्बुजे । संवत्सरगणांश्चक्रे तपः परमदुष्करम् ॥४०॥
प्रसन्नोऽहं मुदा तस्यै गोदावर्यै तदांबिके । त्रियम्बकं नीलकण्ठं व्याघ्रचर्मोत्तरीयकम् ॥४१॥
नन्दिकेशादिगणपैः समन्तात् परिवारितम् । वृषारूढं तदा मां सा प्रणताथास्तुवत् तदा ॥४२॥
गोदावरी -
अनलानिलभस्करेन्दुवृत्रो द्धतदर्पघ्नमुरघ्नपद्मजान् ।
मथनोत्पतितान् गरावधूतान् समरक्षत् तमुपस्महे महेशम् ॥४३॥
पद्मोत्पलानिलसखै कृतचारुनेत्रं कुबेरमित्रं हृतदक्षसत्रम् ।
गोत्रात्मजामित्रकपालपात्रं भजामि शम्भुं सुकुमारपुत्रम् ॥४४॥
मा चुक्रधस्त्वं भगवन् महेश सुरैर्न चाह्वानमहं करोमि ।
इमं पशुं ते अमुपाकरोमि पतिः पशूनामसि शङ्करोऽसि ॥४५॥
नाद्यस्तथाऽऽद्योसि सुरासुराणां वैद्योसि संसाररुजां निहन्ता ।
अच्छेद्यभेद्योऽसि निरिन्द्रियोऽसि गद्यैस्तथा पद्मगणैः सुतोसि ॥४६॥
ईश्वरः -
एवं स्तुत्वा तदा देवि वरं गोदावरी नदी । अर्चयन्ती तदा पादौ मदीयौ प्रणनाम सा ॥४७॥
गोदावरी -
त्वज्जटामूलतो देव गौतमार्थं विनिर्गता । देयो वरो मे भगवन् त्वत्कृपागौरवाच्छिव ॥४८॥
गङ्गा त्वदङ्गसङ्गेन त्वन्मौलिकृतकेतना । तस्यां तव रतिर्देव अविमुक्ते स्थितं त्वया ॥४९॥
विश्वेश्वर महालिङ्गरूपेण त्वं सदा स्थितः । नर्मदायामपि विभो लिङ्गरूपोऽसि शङ्कर ॥५०॥
गङ्गा मत्तोऽधिका वापि पावनी वा महेश्वर । वृद्धगङ्गाहमेवाद्य भवेयं त्वत्प्रसादतः ॥५१॥
मदंबुकणसंस्यर्शात् साऽपि पूततमा भवेत् । त्वल्लिङ्गसेचने योग्या भवेयं वै महेश्वर ॥५२॥
इति देयो वरो मेऽद्य त्रियम्बक दयानिधे । गोदावर्या तदा देवि मत्तः संप्रार्थितो वरः ॥५३॥
तस्यै मयोक्तं देवेशि तच्छृणुष्व त्वमादरात् ॥५४॥
ईश्वरः -
त्वदम्बुलवसेकेन गङ्गा पूततमा भवेत् । सर्वदा मम पूज्या त्वं त्वत्तीरेऽहं सदा स्थितः ॥५५॥
वृद्धगङ्गासि नाम्ना त्वं भगिनी ते कनीयसी । गङ्गा पापौघशमनी त्वं च कैवल्यदा सदा ॥५६॥
त्वत्पाथोलवसेकेन गङ्गा हृष्टतरा भवेत् । गङ्गागोदावरीमिश्रं जलं मल्लिङ्गमस्तके ॥५७॥
यो ददाति नरो भक्त्या तस्मै मुक्तिं ददाम्यहम् । त्रियम्बकजटाजूटतटिनी पापघट्टिनी ॥५८॥
त्वयि स्नात्वा पूततमो भविष्यति न संशयः । त्वज्जलैर्यः पितॄन् देवि सन्तर्पयति पर्वणि ॥५९॥
तस्य षोडश वर्षाणि पितरस्तृप्तिमासते । किं पुनः श्राद्धकरणात् त्वत्तीरे पावने शुभे ॥६०॥
गोदावर्यां सकृत् स्नात्वा दृष्ट्वा श्रीत्र्यम्बकेश्वरम् । सर्वपापैर्विमुच्येत नात्र कार्या विचारणा ॥६१॥
ब्रह्मविष्ण्वादयो देवा मुनयश्चपै तापसाः । सिंहसंस्थे देवगुरौ तस्यां स्नान्ति च भक्तितः ॥६२॥
ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः । विमुच्येत नरः सद्यो गोदावर्यवगाहनात् ॥६३॥
श्रीमत् त्रियम्बकं दृष्ट्वा शतकृच्छ्रफलं लभेत् । अशीतिकृच्छ्रं स्नानं तद्गे दावर्यां वxनने ॥६४॥
सिंहसंस्थे देवगुरौ महादानफलादिकम् । संप्राप्नोति नरो गौरि गोदावर्यघमर्षणात् ॥६५॥
रुद्रसूक्तैर्महादेवमभिषिच्य त्रियम्बकम् । शतगोदानजं पुण्यं लभते नात्र संशयः ॥६६॥
गोदावरीजलं शुद्धं समं क्षीराभिषेचनैः । यस्तु बिल्वदलैः पूज्यं त्र्यम्बकेशं हि पूजयेत् ॥६७॥
तेन सर्वे कृता यज्ञास्तेन सर्वमनुष्ठितम् । नैवेद्यं यः शिवे दद्यात् तदनन्तफलं स्मृतम् ॥६८॥
इत्थं मत्तो वरं लब्ध्वा गङ्गा सा सागरङ्गमा । यः श्रृणोति सकृद्भक्त्या त्र्यम्बकाख्यानमुत्तमम् ॥६९॥
तस्य पापानि नश्यन्ति बहुजन्मार्जितान्युमे ।
सूतः -
रे चित्तभ्रमराशु शङ्कर महेशानेन पादाम्बुजे
तद्भक्त्याख्यमरन्दसारमसकृत् पेपीयतां केवलम् ।
विश्रान्तः क्षणकं षडिन्द्रियपदैर्धैर्योरुशाखां दध -
न्मा गच्छ त्वमगन्धगन्धफलकं कामैकदुष्केतकम् ॥७०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे त्र्यम्बकेश्गोदावरीमहिमवर्णनं नाम द्वाविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP