संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
त्रयोदशोऽध्यायः

भर्गाख्यः पञ्चमांशः - त्रयोदशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
हिमवच्छिखरे देवि लिङ्गान्यन्यानि सन्ति वै । केदारेश्वररूपाणि श्रृणु तान्यपि पार्वति ॥१॥
केदारेश्वरमासाद्य मुक्त एव न संशयः । केदारेति सदा जप्त्वा पापसङ्घक्षयो भवेत् ॥२॥
हिमवांस्त्वत्पिता गौरि मेनया सह भार्यया । केदारेशं समभ्यर्च्य बिल्वपत्रैरनेकशः ॥३॥
हृष्टो भवति मल्लिङ्गनिरीक्षणसमुत्सुकः । संस्तौति सततं भक्त्या हिमवानेष भूधरः ॥४॥
हिमवान् -
एकं ब्रह्म जगद्द्वितीयमपि वै लोकत्रयं दीप्तिमत् चत्वारः प्रदिशो महेश्वर महाभूतानि पञ्चैव हि ।
षट्कं क्रत्वधिदैवतं पवनकाः सप्तैव वस्वष्टकं दुर्गाणां नवकं दशेन्द्रियगणं त्वत्तो जगज्जायते ॥५॥
ब्रह्मविष्ण्वादयो देवाः केदारेश्वरमीश्वरम् । तत्र चोपगते भानौ देवाः पूज्यारुणोदये ॥६॥
बिल्वपत्रैः समभ्यर्च्य मुद्गान्नं विनिवेद्य च । वसन्ति तत्र नियता हिमवच्छिखरे शिवे ॥
स्तुवन्ति वाग्भिर्हृष्टाभिर्ब्रह्मविष्ण्वादिभिः सुराः ॥७॥
विष्णुः -
हंसः पुष्करमम्बुदं भुजगभुङ् मेध्यं पयश्चातको यद्वत्तद्वदुमासहाय भगवन् दृष्ट्वा पदाब्जं तव ।
आनन्दः समुपैति मां मुहुरहो त्वद्ध्यानतृप्तं मनः श्रुत्वा शङ्करनामबोधितकथां प्रीतो यथा शांभवः ॥८॥
विधिः -
ग्रस्तं पापैरनेकैरहिमिव विनतापुत्रवक्त्रान्तरेण
न्यस्तं भूम्यां जलेभ्यो झषमिव नितरां कण्ठसञ्चारि जीवम् ।
बस्तं यागीयहिंसानतमिव सततं मृत्युपाशावलीढं
त्रस्तं मां कालमृत्योरव शिव कृपया देव केदारनाथ ॥९॥
नन्दीश्वराभिधं लिङ्गं केदारोपरितः स्थितम् । नन्दिना पूजितं लिङ्गं दृष्ट्वाऽऽनन्दभवाप्नुयात् ॥१०॥
नन्दी तुष्टाव हृष्टात्मा लिङ्गं नन्दीश्वराभिधम् ॥११॥
नन्दी -
ध्यायं ध्यायमघौघहरिचरणं दुःखापनुत्त्यै सदा पायंपायमपायदानरहितं कर्णैस्त्वदीयां कथाम् ।
घ्रायं घ्रायमथो भवत्पदलसद्बिल्वीदलं कोमलं जातमुमेश जन्म सफलं प्राहुस्त्वदीया जनाः ॥१२॥
स्कन्देश्वरमिति ख्यातं स्कन्देनापि सुपूजितम् । संपूजयित्वा तल्लिङ्गं केदारे दैत्यनाशिनीम् ॥१३॥
मत्तः शक्तिं मुदा प्राप स्तुत्वा च परमेश्वरि ।
स्कन्दः -
कालकाल मुनिबालकपाल नीललोहित करे धृतशूल ।
व्यालमालगलशोभिमहेश फाललोचन हराव मां सदा ॥१४॥
गणेशेश्वरसंज्ञं च गजाननसुपूजितम् । लिङ्गमस्त्येकमीशानि केदारेश्वरपश्चिमे ॥१५॥
स्वपुश्करोद्धृतैर्नीरैः स्वशुण्डावलयाहृतैः । बिल्वपत्रैः पङ्कजैश्च पूजयत्येव विघ्नराट् ॥१६॥
मृदङ्गसदृशारावबृंहितैश्च स मां स्तुवन् ॥१७॥
गणेशः -
त्रियम्बकं त्वां सुभगं ( महेशं ) सुगन्धिं पुष्टिदायकम् ।
मां मृत्युतो मोचयाशु उर्वारुकमिव बन्धनात् ॥१८॥
त्वया संपूजितं लिङ्गं देवि गौरीश्वराभिधम् । तल्लिङ्गसङ्गिवातो‍ऽपि मुक्त्यै देवि भविष्यति ॥१९॥
कुण्डं चापि कृतं देवि गौरीकुण्डं च पप्रथे । केदारेशं च मां दृष्ट्वा पीत्वा तत्कुण्डजं पयः ॥२०॥
स पुनः स्तन्यपयसा स्वोदरं नाभिषिंचति । त्वयात्र सखिभिः सार्धं त्वत्पितुः शिखरे शिवे ॥२१॥
तपस्तप्तं महादेवि दुष्करं परमर्षिभिः । पत्प्राप्तयेऽत्र केदारे स्थाप्य गौरीश्वरं हरम् ॥२२॥
स्थानासनाभ्यां नियतं यमेन नियमेन च । भस्मरुद्राक्षयुक्ताङ्गी त्रिपुण्ट्रावलिभासुरा ॥२३॥
परित्यज्याङ्गभूषादि वल्कलाजिनधारिणी । पुष्पाण्याहृत्य पुण्यानि बिल्वपत्राणि शोभने ॥२४॥
सुरभीणि मनोज्ञानि संपूज्याहर्निशं हि माम् । केदारे पावने लिङ्गे गौरीलिङ्गे तथाम्बिके ॥२५॥
समर्चितस्त्वया देवि स्तुतोऽहं परमेश्वरि ॥२६॥
पार्वती -
शाङ्गं मङ्गलदं शुभाङ्गदलसद्भूभारसङ्गास्पदं
दग्धानङ्गकृताङ्गसङ्गतमहोत्तुङ्गोत्तमाङ्गं हरम् ।
अष्टाङ्गत्यक्तसङ्गं दहरभवनगं गन्धमाल्यार्चिताङ्गं
लिङ्गस्थं त्यक्तलिङ्गं विमलमुनिमनःस्वान्तरङ्गं भजेऽहम् ॥२७॥
गौरिलिङ्गमघराशिविभङ्गं दुःखलिङ्गगलितान्तरसङ्गम् ।
तुङ्गपुण्यफलदं गतसङ्गं दृष्टमद्य वृषभाङ्गशुभाङ्गम् ॥२८॥
विविधैरमितैश्च साधनैर्मघजालैर्गवाजिगोप्रदानैः ।
स न लभ्येत महेश पादभक्तिं यदि न स्याच्छिवभक्तसङ्गिसङ्गः ॥२९॥
ईश्वरः -
त्वत्स्तुत्याऽहं परं प्रीतः भक्त्या त्वत्कृतया शिवे । लिङसंपूजनेनापि तुष्टः कष्टनिवारकः ॥३०॥
तवेष्टदाननिपुणः कृपापूर्णेन चक्षुषा । समागतोऽहं कल्याणि शैवविप्रस्वरूपतः ॥३१॥
लिङ्गामलजटामौलिः त्रिपुण्ट्रावलिभासुरः । रुद्राक्षमालाभरणः कृशो धमनिसन्ततः ॥३२॥
दृष्ट्वा त्वं तापसं विप्रं समुत्थायार्घ्यपूजनैः । पूजयित्वा सुखप्रश्नैः फलकन्दनिवेदनैः ॥३३॥
अपर्णे पर्णसंक्लृप्ते तार्णछदवराश्रमे । स्वच्छे निःश्रमनिस्तन्द्रे तुष्टस्त्वत्कृतपूजया ॥३४॥
कुशबृस्यां सन्निविष्टः त्वन्मुखालोकसादरः कल्याणीं च सुखोदारां तां वाणीं मुक्तवत्यसि ॥३५॥
पार्वती -
कुतः समागतं विप्र देशः सुखियिता च कः । नानाद्रुमलताकीर्णे कण्टकावृतदुष्पथि ॥३६॥
कथं समागतं ब्रह्मन् नाम गोत्रं च ते‍ऽद्य किम् । तव सन्दर्शनाद्विप्र तपश्चीर्णं ममाधुना ॥३७॥
दयया मां निरीक्षस्व ब्रूहि किं करवाण्यहम् ॥३८॥
भस्माभ्यक्ततनुः सदाशिवकथापीयूषपानादरो
रुद्राक्षाभरणः शिवैकशरणः पञ्चाक्षरावर्तकः ।
पुण्ये यस्य गृहे फलादिभिरहो प्राज्याज्यसच्छर्करा -
क्षीरापूपादिसूपैर्मधुरफलरसैः पूजितः शैववर्यः ॥३९॥
तस्यास्य भागपरिकल्पितसाधुजिह्वास्वादास्पदीकृतसदन्नगणानि भुङ्क्ते ।
तस्याखिलेष्टमपि विष्टपभोगमिष्टं तुष्टः प्रदास्यति हरो हरतीह कष्टम् ॥४०॥
इत्थमूचुर्महाशैव फलं वै पूर्वसूरयः । तव संपूजनात् तुष्टः शिपिविष्टो न संशयः ॥४१॥
इत्थं त्वद्वचनं श्रुत्वा विप्ररूपोऽहमम्बिके । त्वामवोचं रोषयितुं स्तुतिनिन्दाकरं वचः ॥४२॥
विप्रः -
बाला त्वं पर्वस्यास्य त्वयाद्य कुलमुद्धृतम् । शिरीषमृदुला तेऽद्य तनुः क्क नु तपः शुभे ॥४३॥
भूषणादिप्रभाजालैः सुन्दराङ्गं तवामले । भस्मरुद्राक्षमालाभिः किं शोभां वहतेऽद्य हि ॥४४॥
महार्हवाससा वीता वल्कलाजिनसंवृता । त्वया लीलाविलासेन खेलनीयं सखीगणैः ॥४५॥
लिङ्गसंपूजनादस्माद्बाले त्वं विरमाधुना । विजने विपिने घोरे सिंहव्याघ्नगणाकुले ॥४६॥
कथमेकाकिनीं हित्वा निद्राति स हि भूधरः । त्वन्माता वा तथा मेना बालां कुलवरीं सुताम् ॥४७॥
त्यक्त्वाद्य क्क प्रयाता सा इत्यहो साहसं कृतम् ।
किं त्वं प्रार्थयसे भीरु किं वाऽभीष्टं तु पश्यसि ॥४८॥
तदेतत् साधयाम्यद्य पश्य मे तपसो बलम् । इति विप्रवचः श्रुत्वा सस्मिता विस्मिता ह्यसि ।
ईषदुन्नम्य वदनं मां विलोक्याभ्यभाषथाः ॥४९॥
पार्वती -
किं ते व्यवसितं ब्रह्मन् त्वत्तपोव्ययसाधना । नाहं तप्स्ये यथाकामं गच्छ वा तिष्ठ वा द्विज ॥५०॥
संपूज्य पशुभर्तारं तस्मादिष्टं वृणोम्यहम् । विप्रस्त्वामाह सुप्रीतस्तदा वै भीषयन् शिवे ॥५१॥
विप्रः -
मुदुक्तं तत् बाले पशुभर्ता महेश्वरः । तवेष्टदाननिपुणः स कथं पर्वतात्मजे ॥५२॥
उन्मत्तोपि कृतो मुण्डः कपाली भस्मभूषितः । इत्थं मन्निन्दनं श्रुत्वा सरोषा त्वं महेश्वरि ॥५३॥
गच्छ गच्छेति तं विप्रं निराकृत्योटजं गता ॥५४॥
पार्वती -
कोऽप्यं विप्रो दैत्यरूपः शिवनिन्दापरायणः । हा कष्टं सखि यन्मेऽद्य श्रोते निन्दाश्रवं गते ॥५५॥
किं पताम्यद्य शिखरादस्मान्मम पितुः सखि । शिवनिन्दाश्रुतौ प्रोक्ता निष्कृतिर्मरणं खलु ॥५६॥
एवं दक्षसुताहं तु श्रुत्वा निन्दां महेशितुः । दक्षाददक्षतः साक्षात् शिक्षिता सा तनूर्मम ॥५७॥
इति सा निश्चयं कृत्वा त्यक्तुमैच्छत् तनुं तदा । एतस्मिन्नन्तरे देवि त्यक्तं विप्रस्य तद्वपुः ॥५८॥
त्रिलोचनमुदाराङ्गं नीलग्रीवं त्रिलोचनम् ।गौरीलिङ्गात् समुद्भूतं मां दृष्ट्वा हर्षमागता ॥५९॥
प्रणम्य मां भक्तियुक्ता सखीभिः कमलानने । अस्तौषीस्त्वं तदा देवि भक्तियुक्तेन चेतसा ॥६०॥
गौरी -
देवस्त्वं सहमान एव भगवन् भक्तेषु पापेष्वपि
पापानां गणनापि नो मम विभो तस्मात्सहस्वाधुना ।
नाभ्यार्चं भगवत्पदाम्बुजमहो दृष्टं न लिङ्गं मया
सद्ज्ञानास्तव ये महेश्वर सदा तैः सङ्गतिर्नो कृता ॥६१॥
यस्त्वां जिव्हधिया महेशममराधीशं न चाभ्यर्चयेत्
तं त्वं वञ्चयसे महाभवशतैः पापैश्च तापैरपि ।
तस्मात् त्वं परिवञ्चकोऽसि भगवन् यो बिल्वपत्रैर्मुदा
त्वल्लिङ्गं सकृदर्चयेद्धि स भवेन्मुक्त्यङ्गनाकामुकः ॥६२॥
इति मां त्वं तदाऽस्तौषीर्भक्त्याच विनयेन च । तव पाणिग्रहं कृत्वा तुष्टोऽस्मि गिरिकन्यके ॥६३॥
त्वया संपूजिते लिङ्गे गौरीशे संवसाम्यहम् । गौरीलिङ्गे सकृद्दृष्टे तज्जन्म सफलं भवेत् ॥६४॥
केदारेशस्य दिग्भागे दक्षिणे सरसस्तटे । दृष्ट्वा गौरीश्वरं लिङ्गं गौरीलोके वसेच्चिरम् ॥६५॥
नन्दीश्वरस्तथा प्राच्यामास्तेऽभीष्टफलप्रदः । तत्र तप्त्वा तपो नन्दी गानपत्यमवाप्तवान् ॥६६॥
पश्चिमे गणनाथेशो गणबृन्दैश्च पूजितः । गौरीश्वरो दक्षिणतस्त्वया देवि समर्चितः ॥६७॥
स्कन्देश्वरस्तथोदीच्यां स्कन्देनैव सुपूजितः । मध्ये केदारनाथस्य लिङ्गं श्रेष्ठं तु मे सदा ॥६८॥
हिमवच्छिखरे देवि दृष्ट्वा नत्वा च भक्तितः । गौरीसरसि मज्जन्म सर्वतीर्थजलप्लुतः ॥६९॥
केदारेश्वरमाराध्य को न मुच्येत बन्धनात् । केदारलिङ्गसदृशं न भूतं न भविष्यति ॥७०॥
सकृत् संपूज्य लभते मुक्तिमन्ते गिरीन्द्रजे । हिमवच्छिखरे देवि पश्यन् केदारमीश्वरम् ॥७१॥
अश्वमेधशतेभ्योऽपि फलं लब्ध्वा विमुच्यते ॥७२॥
ईश्वरः -
यो मामनन्यगतया शिवभावभक्त्या केदारमीश्वरमहाघसमुद्रसेतुम् ।
संस्तभ्य चित्तमुमया समुपेतमीशमाशास्य मारजनकादिसुपूजिताङ्घ्रिम् ॥७३॥
धिल्वीदलैश्च कमलैश्च सदा हि भक्त्या नीलोत्पलैश्च कुमुद्दैर्गिरिजे स मुक्तः ।
संपूजयेदघयुतोऽपि महाघमुक्तो भुक्त्वा भवेन्मम कृपावशतोऽतिधत्यः ॥७४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे केदारेश्वरलिङ्गावलिमहिमवर्णनं नाम त्रयोदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP