संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
द्वात्रिंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - द्वात्रिंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
श्रृणु त्वं मुनिशार्दूल पूर्वमाराधयन् हरम् । भगीरथोऽपि राजर्षिस्तपसा चामितद्युतिः ॥१॥
कोसलेषु नृपश्रेष्ठो राजराजसमद्युतिः । दक्षिणो यजमानश्च सर्वविद्राघवो मुने ॥२॥
स्व राज्यमखिलं शासत् निहतारिः सुरारिहृत् । कापिलाग्निविनिर्धूतान् सागरान् नृपसत्तमः ॥३॥
उद्दिधीर्षुरमात्येषु निधाय स भुवं नृपः । हिमवच्छिखरं गत्वा तपत्ययुतमोजसा ॥४॥
केदारेशं समाराध्य हिमवच्छिखराश्रयः । भस्मरुद्राक्षसंपन्नो रुद्राध्यायपरायणः ॥५॥
पञ्चाक्षरजपासक्तः सक्तो लिङ्गार्चने तदा । ऊर्ध्वबाहुः सदा पश्यन् दिवाकरमतन्द्रितः ॥६॥
वर्षाणामयुतं मौनी फलपर्णाम्बुभोजनः । वाय्वाहारस्ततो राजा शोषयंस्तपसा तनुम् ॥७॥
भस्मसङ्गैकसुभगो निर्जिताखिलहृत्तमः । केदारेशं समभ्यर्च्य विकालं बिल्वपल्लवैः ॥८॥
धूर्पैर्दीपैश्च नैवेद्यैः षोडशैरुपचारकैः । संस्तुवन् सांबमीशानं भूरथं स भगीरथः ॥९॥
तुष्टाव देवं देवेशं चन्द्रार्धकृतशेखरम् ॥१०॥
राजा -
इन्दुखण्डकलितामलमौलिं कुण्डलीशमणिकुण्डलगण्डम् ।
चण्दपापहरणं विधिमुण्डोल्लासिपाणि कमलं शिवमीडे ॥११॥
भस्मत्रिपुण्ट्रनिटिलाम्बरकृष्णराङ्काजिनं करटिचर्मधरं त्वाम् ।
शूलामलोद्यतकरं शशिधामचूडमीडे शिवं गरुडवाहसुपूजिताङ्घ्रिम् ॥१२॥
तत्स्तुत्या तुष्टहृदयो महादेव उवाच तम् । सांबश्चन्द्रकलामौलिर्वृषारूढः सहोमया ॥१३॥
ईश्वरः -
वृणु कामं नृपश्रेष्ठ तद्ददाम्यविचारितम् । तपसा तव सुप्रीतः केदाराराधनेन च ॥!४॥
तदा शिववचः श्रुत्वा प्राञ्जलिर्नृपसत्तमः । प्रणम्य देवं वरदमुवाचोत्फुल्ललोचनः ॥१५॥
राजा -
त्वत्पदाम्बुरुहे भक्तिं कामये कामनाशन । त्वद्भक्त्या किमसाध्यं मे किञ्चैकं कांक्षते मनः ॥१६॥
शाम्भवेनैव मुनिना कपिलेन महेश्वर । निर्दग्धाः सागराः पूर्वं पतङ्गा इव मन्युना ॥१७॥
उद्दिधीर्षुरहं तान् वै सलिलं पावनं हर । दातुमर्हसि लोकानां पावनायाद्य शङ्कर ॥१८॥
इति राज्ञो वचः श्रुत्वा तमाह परमेश्वरः ।
ईश्वरः -
गङ्गा त्रिपथगा चैषा तव दत्ता नृपोत्तम । वियत्तटाच्च तटिनी पतन्ती भुवि मण्डले ॥१९॥
तदाज्ञया महाभाग गच्छ त्वं विगतज्वरः । इत्युक्तः शम्भुना राजा गङ्गापतनमैक्षत ॥२०॥
हिमवच्छिखरे तत्र पतन्तीं तां शिवाज्ञया । तां धर्मुमीश्वरं तत्र पुनस्तुष्टाव हृष्टधीः ॥२१॥
राजा -
शशिशिखिहरिबाणमीशितारं त्रिपुरयमान्धकसूदनं महेशम् ।
नरहरिगजकृत्तिधारिणं महेशं शरणमुपगतोऽस्मि देवदेवम् ॥२२॥
अरुणतरणिशम्बराङ्गवह्निद्युतिनयनं सुरशेखरं महेशम् ।
विधिहरिविमृशोत्तमाङ्गमूलं शरणमुपगतोऽस्मि देवदेवम् ॥२३॥
पुनस्तमाह देवेशः किमन्यत् कथयाधुना । वरं ददामि ते राजन् भक्त्या प्रीतोऽहमीश्वरः ॥२४॥
तदा शार्वं वचः श्रुत्वा राजा प्रांञ्जलिरब्रवीत् ॥२५॥
राजा -
को वाऽन्यः परमेशान धर्तुं गङ्गापयोऽधुना । गङ्गाधरस्त्वमेवाद्य महादेव दयस्व मे ॥२६॥
तथेति च कपर्दे तामबिभ्रच्छङ्करस्तदा । गङ्गारयावलेपं तन्निर्वीर्यमकरोत् तदा ॥२७॥
गिरीन्द्रशिखराकारे तज्जटामण्डले मुहुः । भ्रमन्ती सरितां श्रेष्ठा सा वर्षाणां शतं तदा ॥२८॥
अनिर्गतां तदा गङ्गां दृष्ट्वा नृतस्पदा । तुष्टाव वाग्भिर्हृष्टाभिः पुनः शङ्करमेव हि ॥२९॥
राजा -
भजे भवानीरमणं शिवं भवं भयापहं भीमनभोर्ध्वकेशम् ।
भयानकं भर्गमुमासहायं भस्माङ्गरागं भुजगाङ्गहारम् ॥३०॥
वामदेवमगजामनोहरं व्योमकेशमसमेषु दाहकम् ।
सोमधामजकलोत्तममौलिं हेमदेहमुमया भजाम्यहम् ॥३१॥
यममददमनं जितैककामं यमिहृत्पद्मगतं जनाधिवासम् ।
फणिगणकलिताङ्ग्र्हिपाणिभूषं सितभस्मावलितत्रिपुण्ट्रजुष्टम् ॥३२॥
तत्स्तुत्या तुष्टहृदयो विससर्ज तदा हरः । गङ्गां हिमवती मौलौ पतन्तीं रथतस्तदा ॥३३॥
गङ्गाः -
अनङ्गरिपुमीश्वरं विधिसुमौलिपाणिं हरं भुजङ्गवरहारकं मणिजरङ्गनृत्तादरम् ।
महागजत्वगम्बरममरवैरिगर्वापहं कुरङ्गराशिधारिणं शरणमाशु वीक्षे शिवम् ॥३४॥
गङ्गाधरान्धकरिपो प्रमथाधिनाथ श्रीविश्वनाथ करुणाकर शूलपाणे ।
मां मोचयाद्य कुटिलां (?) निटिलाननाक्ष पाहि प्रसीद परमेश्वर पञ्चवक्त्र ॥३५॥
तमाह विनयानम्रां गङ्गां देवस्त्रिशूलधृक् ।
ईश्वरः -
गच्छाधुना नृपवरं भगीरथरथानुगा । कपिलाग्निविनिर्धूतान् सागरान् प्लावयाशु वै ॥३६॥
पूर्वमेवाविमुक्ते च चक्रतीर्थं कृतं भया । आनन्दवनमासाद्य याहि त्वं सरितां पतिम् ॥३७॥
इत्युक्ता सा महेशेन प्राञ्जलिः प्रणनाम सा । महादेवं महानन्दं सा गङ्गाऽऽह सदाशिवम् ॥३८॥
गङ्गा -
वसामि त्वय्यहं शम्भो मामनुज्ञातुमर्हसि । तदा तामाह देवेशो राज्ञा गच्छ सरिद्वरे ॥२९॥
सागराणां गतिं दत्वा त्वज्जलाप्लावनेन हि । अविमुक्तं समासाद्य विश्वेश्वरसमीपगा ॥४०॥
आचन्द्रार्कं वहन्ती त्वं लोकं प्लवय मा शुचः । एकांशेन वसात्रैव मन्मूर्घ्नि कृतकेतना ॥४१॥
तेन गङगाधरो नाम्ना भविष्यामि सरिद्वरे । स्नातानां त्वयि सारूप्यं मम दास्याम्यसंशयम् ॥४२॥
इत्युक्ता शशिशेखरेण जगतां संपावने सा सरित्
शम्भोर्मूर्घ्नि सदैव वासमकरोत् राजा तदा तत्र वै ।
तद्भस्मारुणमण्डलं सगरजं संप्लावयन्ती ययौ
पुण्यानन्दवनं तदा नृपतिना देवाज्ञया हर्षिता ॥४३॥
राजापि त्रिदिवं गतान् नृपासुतान् दृष्ट्वाऽथ हृष्टोऽभवत्
स्तुत्वा तां मणिकर्णिकामगसुतां दृष्ट्वान्नपूर्णामपि ।
विश्वेशं शरणार्थिनां च सुखदं नत्वा च दत्वा धनं
शैवेभ्यः स ययौ मुदा पुरवरं अन्ते ययौ शङ्करम् ॥४४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भगीरथपोगङ्गानयन - सागरमुक्ति - राजमुक्तिवर्णनं नाम द्वात्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP