संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
एकत्रिंशोऽ‍ध्यायः

शिवाख्यः चतुर्थाम्शः - एकत्रिंशोऽ‍ध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
वर्षाणां पञ्चकं विष्णुः फलाशी रुद्रपूजकः । पञ्चवर्षाणि नीराशी वाराशिरिव तस्थिवान् ॥१॥
पवनाशी ततो वर्षं मरुत्पारणतत्परः । तच्चित्तदार्ढ्यं विज्ञातुं सहस्रांबुजबृन्दके ॥२॥
एकं वै न्यूनमकरोद्धरो भक्तिं विलोकितुम् । न्यूनेऽम्बुजेंबुजाभावान्नाम्नोऽन्ते प्रसभं हरिः ॥३॥
भीमपादार्चनव्यग्रो निर्भयेनान्तरात्मना । नखाग्रतो‍ऽग्रहृदयेणोत्कृत्य नयनाम्बुजम् ॥४॥
उत्फुल्लारक्तपद्माभं स्रवद्रक्तोऽर्चयत् परम् । नाम्नाअऽन्तिमेन लक्ष्म्या च पश्यन्त्या गरुडेन च ॥५॥
सुविस्मयेन स्वहृदा पश्यद्भिर्मुनिपुङ्गवैः । तस्मिन् लिङ्गे महादेवः प्रादुर्भूतः सहोमया ॥६॥
गङ्गाचन्द्रकलामौलिरेणशूलादिबाहुमान् । फणीफणासहारत्नकल्पिताकल्पसुन्दरः ॥७॥
गणवृन्दैः परिवृतः स्कन्दनन्दिगजाननैः । स्तुवद्भिर्वेदजालैश्च ब्रह्मेन्द्रादिमरुद्गणैः ॥८॥
दृष्ट्वा लिङ्गे महादेवं प्रणनाम तदा हरिः । पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तितः ॥९॥
भवं भवनियन्तारं भावभूतेन चेतसा ॥१०॥
हरिः -
भव भीम पुरस्मरान्धकारे भजतां सर्वफलप्रदोऽसि शम्भो ।
तव शङ्कर किङ्करोऽस्म्यहं भव भावानुभवप्रभावमूर्ते ॥११॥
सुरवर्गनिखर्ववेदवादैः विधिगीतैश्चतुराननैरपीड्यम् ।
पुरगर्वादिहरान्धकान्तकारे शरणं मे भव तारणाय शम्भो ॥१२॥
श्रुतिशेखरवाक्यजातपूज्ये भगवंस्त्वच्चरणाम्बुजद्वये ।
नयनामलपद्मसङ्गमे पदपद्मे भजतां न जन्ममृत्यू ॥१३॥
अकुण्ठदयया विभो तव सुनीलकण्ठाधुना अकुण्ठिसुचक्रधृक् प्रसभमाजिमध्यं गतः ।
सुरेन्द्रदितिजोद्भवं रणकठोर जेतास्म्यहं पिठारजगतीभवं भव भवामि वैकुण्ठपः ॥१४॥
तव वामभवाङ्गसंभवोऽ‍स्म्यहमीशान तवाद्य दक्षभागः ।
तव फालतलाद्बभूव रुद्रो जगतां भवनाशनस्थितौ स्वः ॥१५॥
मम नाभिपयाजसंभवो विधिफालोद्भव एष एव रुद्रः ।
वयमुद्भवने स्थितौ च नाशे विनियुक्ताः पुरहन् त्वयाऽत्र कल्पे ॥१६॥
त्वामीशं श्रुतिभिर्विमृग्यमानं मोहान्धाः शिवमेकमेधमाद्यम् ।
मम मायामयपाशबद्धबुद्धया जगतां मां करणं तथाहुरन्ये ॥१७॥
भव भर्ग महेश देव शम्भो शशिधामद्युतिशोभितोत्तमाङ्ग ।
करुणारससागराव शम्भो भुवनेशान नतोऽस्मि ते पदाब्जे ॥१८॥
करकलितकपालशूल बालाविधृतार्धाकृतिकालकाल फाला -
नल नीलामलगलगरलोत्थिताधिकीला ।
दलितान्तक लोकदेह लोलालकतूलायित गाङ्गवारि मौला
मलव्यालोरु महाङ्गजातलीला (?) ॥१९॥
शशितरणिहुताशोत्फुल्लफालाब्जनेत्रं दिनमणिकिरणोद्यच्चक्रधामप्रदं मे ।
रणरणितसुरादिवृन्दबन्ध द्विषदितिजासुहरं हरं प्रपद्ये ॥२०॥
अलमलमनुवेलं कालकालं सलीलं जगति कलितकालं व्यालमालं सशूलम् ।
बलिबलिबलिनन्दनार्च्यपादं मुनिबालावनतं शिवं भजे त्वाम् ॥२१॥
अङ्गज भङ्ग तुरङ्ग रथाङ्ग भुजङ्ग महाम्बरसङ्ग शशाङ्ग विहङ्ग पतङ्ग निषङ्ग कुरङ्गधरोक्षक सङ्ग ।
परिपाहि विभो सुदृशाऽङ्ग दृशाङ्गमहोरु महाङ्गस्फुलिङ्ग ॥२२॥
स्कन्दः -
एवं विष्णुस्तुतिविवशतो हर्षवर्षोरुतर्षो वीक्ष्याब्जारुणलोचनं पुरहरस्त्र्यक्षो हरिं तं नतम् ।
उद्यद्भास्करकूटकोटिनिभमत्युद्धाटिदैत्यासुदृच्चक्रं शक्रविभूतिदं हरिकरे दत्वाऽऽह विश्वेश्वरः ॥२३॥
ईश्वरः -
भोगितल्प सुरकल्पकपुष्पैः कोटिकल्पकमलार्चनशिल्पम् ।
जातमद्य तव नेत्र सुपद्मानन्यतोषदमिदं त्वयि चाल्पम् ॥२४॥
दत्तमेतदनलारमपारावारदैत्यनिवहान्तकमेतत् ।
दत्तमब्धितनयापतये ते पोतभूतमिदमाजिषु रक्ष ॥२५॥
नाशस्त्रेषु विनीतवेषवपुषा शान्तेषु मत्प्रेमजापारावारमहाघसन्ततिहरं हारेषु नैतन्मम ।
योज्यं ते रणशूर दैत्यनिवहे शौरेऽद्य शूरोऽधुना मारस्यापि गुरुर्यतोऽद्य सुमहापद्माक्ष इत्याह तम् ॥२६॥
सूतः -
पुण्या( ष्पा )न्ते जिततेजिनीविपिनके आरक्तफुल्लाम्बुजैः
पत्रैः केसरकर्णिकादिसहितै साहस्रसंख्यायुतैः ।
संपूज्य प्रमथाधिनाथा सुमहालिङ्गस्थितं मापति -
र्लेभे चक्रमनन्तदैत्यशमनं नेत्रं तदोमापतेः ॥२७॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे विष्णुनेत्रार्पण - चक्रप्राप्तिवर्णनं नाम एकत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP