संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
सप्तमोऽध्यायः

शिवाख्यः चतुर्थाम्शः - सप्तमोऽध्यायः

श्रीशिवरहस्यम्


जैगीषव्यः -
श्रुतं ते तारकाराते नन्दिनश्चरितं शुभम् । नन्दिकेशस्य भक्तस्य चरितं संश्रुतं मया ॥१॥
त्वतः षड्वक्त्र शुभदं देवदेवप्रसादजम् । न तृप्तिरस्ति भक्तानां शम्भोः संशृण्वतो मुहुः ॥२॥
चरितं परमं पुण्यं त्रिनेत्रप्रियकृत्तमम् । चण्डीशः परमो योगी चण्डं पापं महत् पुरा ॥३॥
कृतवान् पितरं हत्या स कथं गणपो भवेत् । देवदेवप्रसादेन चरितं वक्तुमर्हसि ॥४॥
सूतः -
इति तस्य मुनेर्वाचं श्रुत्वा पञ्चास्यसंभवः । षड्वक्त्रस्तमथोवाच जैगीषव्यं शिवार्चकम् ॥५॥
स्कन्दः -
पुरा गर्गकुलोत्पन्नः कर्मभद्रोऽभवद्द्विजः । माल्यवच्छिखरे साधुः वर्णाश्रमरतो युवा ॥६॥
सुनीतिर्नाम तद्भार्या छायेवादित्यमन्वगात् । शीलेन भर्तुर्निरता शुश्रूषन्ती पतिं सदा ॥७॥
देवाग्निमुनिविप्रेषु अतिथौ भर्तृतत्परा । काले पुष्पं फलं चान्नं निवेदितवती सती ॥८॥
स्वाध्यायशीलिनं विप्रं सेवन्ती भक्तितत्परा । माल्यवच्छिखरे रम्ये चननिर्झरकन्दरे ॥९॥
नानापक्षिमुखापारनदीनिर्झरशोभिते । मृगसारससंघुष्टसरोजातोत्पलावृते ॥१०॥
नवशाद्वलसंयुक्तगोप्रचारवनस्थले । निनाय दिवसान् विप्रो भार्यया  तपसि स्थितः ॥११॥
कदाचित्तपसा स्वैरं वर्तमाने महामुनौ । आजगामाथ तन्मित्रं वैदर्भो नृपसत्तमः ॥१२॥
रथेन तं मुनिं याज्यो याजकं मुनिसत्तमम् । माल्यवच्छिखरे तत्र दृष्ट्वा राजानमत्रिज ॥१३॥
स्वागतेनामिनन्द्याथ विष्टरेणोपमन्त्र्य तम् । सोऽनमित्रोऽथ वैदर्भो गार्ग्यं तं प्रणिपत्य हि ॥१४॥
उवाच कुशलं विप्रं तपोऽग्निषि वने तथा । मृगपक्षिगणे पुत्रे तपस्विषु नृपस्तदा ॥१५॥
राजा -
भगवंस्तव पादाब्जं द्रष्टुमभ्यागतः पुरात् । सनाथं कुरु मे गार्ग्य त्वन्समागमतो मुने ॥१६॥
यियक्षुरस्मि भगवन् हयमेधेन शङ्करम् । तत्र होता भवान् मेऽद्य समायातु रथेन मे ॥१७॥
इति वैदर्भवचसा हृष्टो विप्रोऽभ्युवाच तम् । प्रसन्नमानसो विप्रः प्रीतिस्निग्धं हितं वचः ॥१८॥
विप्रः -
याज्यो भवांश्च नृपतिर्दक्षिण्यो दक्षिणो नृपा । त्वमपूजो महाभर्गं भद्रं ते नृपसत्तम ॥१९॥
राज्याङ्गेषु समस्तेषु भवतः कुशलं नृप । शङ्करस्य प्रसादेन आरोग्यं विद्यते न वा ॥२०॥
तदा मुनिवचः श्रुत्वा प्राञ्जलिः प्राह तं नृपा ॥२१॥
राजा -
अनुष्यातस्त्वया स्नेहैः किं ममावद्यतां व्रजेत् । इत्युक्त्वा तौ तदा तत्र नृपगार्ग्यौ महामती ॥२२॥
तं भोजयन्नृपं विप्रः स्वाद्वनैः परमैस्तदा । कथामिरनुरूपाभिर्दैवपित्र्यैर्नृपोत्तमम् ॥२३॥
एवं विप्रेण नृपतिः प्रत्यागात्पुग्मोजसा । रथेन जवनाश्वेन यज्ञवाटं महर्द्धिमत् ॥२४॥
दीक्षितः स नृपस्तत्र ऋषिभिर्वेदपारगैः । विससर्जाश्वमतुलं पुनः प्राप्ते तुरङ्गमे ।२५॥
अयजद्धयमेधेन शास्त्रदृष्टेन कर्मणा । दक्षिणाश्च तथा गावो भूमिस्वर्णधनादिकम् ॥२६॥
नियुतं प्रयुतं चैव प्रादात् स नृपसत्तमः । ऋत्विग्भ्यश्चाथ विप्रेभ्यः संपूज्यान्नैस्तथा नृपः ॥२७॥
विसर्जयामास मुनीन् गार्ग्यश्चामन्त्र्य तं नृपः । गोभिर्हिरण्यभारैश्च माल्यवच्छिखरं ययौ ॥२८॥
तत्र गाश्चारयामास वनभूमिषु सर्वतः । पुत्रैः शिष्यैर्महाभागो धर्माय दुदुहेऽथ गाः ॥२९॥
तस्य पुत्रोऽभवत तत्र चण्डीशाख्योऽथ वर्णिकः । स पितुर्वाक्यतस्तत्र स सहाध्यायिभिस्तदा ॥३०॥
चारयामास ता गावो दण्डहस्तः श्रुतीः पठन् । मेखली च तथा दण्डी आषाढी भस्मभूषणः ॥३१॥
रुद्राक्षभूषणो नित्यं वनलिङ्गेष्वपूजयत् । प्रदुग्धगावस्तत्रैव चण्डीशाख्यो वटुस्तदा ॥३२॥
अलाबुदारुपात्रे च अभिषिच्य महेश्वरम् । वनलिङ्गे च स तदा स गवां पयसा तदा ॥३३॥
रुद्रसूक्तैस्तथा कैश्चिद् द्रोणपुष्पर्वनोद्भवैः । वन्यैः फलैर्निवेद्येशं तुष्टाव परमेश्वरम् ॥३४॥
चण्डीशः -
त्वं धर्मभृद्धर्मवहोऽसि शम्भुः सारङ्गधृक् तद्भवचर्मवस्त्रः ।
त्वं शम्बरारिहुतभुक् धृतशम्बराङ्कः त्रैयम्बकाब्जाम्बरपूज्य पाहि ॥३५॥
स्कन्दः -
स सहाध्यायिभिः सर्वैः सायमायाति वै गृहम् । स पितुश्च तथा गोभिः पितुः पादावुपस्पृशन् ॥३६॥
प्रदुग्ष्वाऽथ पुनर्गावो निवेद्य पयसो घटीः । अग्निहोत्रार्थमुद्युक्तः स समिद्भिः पितुर्मुदे ॥३७॥
एवं निवपतस्तस्य काश्चिद्दोहविवर्जिताः । गावो दृष्ट्वा तथा गार्ग्यश्चुक्रुधे पुत्रमोजसा ॥३८॥
न दुहन्ति तथा गावः काश्चित्पुत्र किमद्य ते । चरित्रं च विचित्रं ते सदा चारयतो वने ॥३९॥
स पितुर्वचनं श्रुत्वा चण्डीशः पितरं तदा । प्राह तं विनयोपेतः प्राञ्जलिर्मीतभीतवत् ॥४०॥
चण्डीशः -
न जानेऽहं पितः किञ्चित् प्रौढवत्सा दुहन्ति न । तस्य तद्वचनं श्रुत्वा किञ्चित् काले गते मुनिः ॥४१॥
स सहाध्यायिभिस्तस्य ज्ञापितो वनमध्यगः । निलीय वृक्षषण्डस्थस्तच्चेष्टां ददृशे तदा ॥४२॥
स दुदोह तदा गावः तत्पयोभिर्महेश्वरम् । अभिषिच्य महादेवं पुष्पैर्वन्यफलैस्तदा ॥४३॥
संपूज्य परया भक्त्या भस्मरुद्राक्षभूषणः । निमील्य स्तौति देवेशं प्रणामप्रक्रमादिभिः ॥४४॥
तत्तादृशं विलोक्यैव क्रोधान्धीकृतलोचनः । पूजां मन्त्रकृतां लिङ्गे नाशयामास पादतः ॥४५॥
विलोक्य पितरं तत्र वरिवस्याविनाशकम् । समिदाहरणार्थाय कुठारं स्वपुरः स्थितम् ॥४६॥
गृहीत्वा छेदयामास पितुः पादौ शिवद्रुहौ । विलुठन्तं तदा भूमौ पितरं साश्रुलोचनम् ॥४७॥
भग्नसक्थिं च रक्ताङ्गं वाचा संसज्जमानया । तुष्टाव देवदेवेशं तल्लिङ्गाग्रे महेश्वरम् ॥४८॥
स कठोरकुठारधारया निजघानाशु तद्रुमूलभागे ।
शिवलिङ्गे निहितौ तवैव पादौ कथमित्येव चुकोप चण्डिकेशः ॥४९॥
सालं यथा भुविगतं परिकृत्तशाखं काष्ठाशया वरकुठारकरेण दीनम् ।
भूमौ तदा विलुलितं पितरं स दृष्ट्वा सञ्जातवेपथुरसुक्षतलोलनेत्रम् ॥५०॥
सन्तुष्टुवे च जगतां पितरं महेशं गङ्गाधरं श्रुतिवचोमनसोरगम्यम् ।
व्याघ्राजिनाम्बरमुमाकरगाढगूढं वाचाऽतिसन्नहृदयो भयभावयुक्तः ॥५१॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे चण्डिकृतस्वपितृपादच्छेदनं नाम सप्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP