संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
षष्ठोऽध्यायः

शिवाख्यः चतुर्थाम्शः - षष्ठोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
तत्स्तुत्या संप्रसन्नोऽसौ महादेव उवाच तम् ॥१॥
ईश्वरः -
वत्सालं परिखिन्नोऽसि तपसा वृणु यद्धृदि । तत्ते संपूरयाम्यद्य अलं खेदेन सत्तम ॥२॥
पुनर्नन्दी प्रणम्येशमुवाच च कृताञ्जलिः ॥३॥
नन्दी -
देव देव महादेव शरणागतवत्सल । त्वत्पादाम्बुरुहद्वन्द्वे निश्चला भक्तिरस्तु मे ॥४॥
रुद्रलिङ्गार्चने रुद्रजपे भस्मावधारणे । निश्चलैव भवेद्भक्तिः तेन किं दुर्लभं मम ॥५॥
तथेति तं विश्वनेता अनुमान्य तिरोदधे । देवदेवो विरूपाक्षो देवैः सार्धं जगत्पतिः ॥६॥
पुनस्तताप शरदां शतं वाय्वम्बुभोजनः । रुद्रं जपन् हृष्टमनाः शिवलिङ्गं समर्चयन् ॥७॥
ततोऽन्तिमे पुनर्वर्षे देवदेव उमापतिः । प्रादुर्भूय महादेवः कृपया तमुवाच ह ॥८॥
श्रीशिवः -
वत्सालं तपसा तेऽद्य दत्ता तव गणेन्द्रता । प्रशाधि गणxन् मेऽद्य यथ हं सर्वशासकः ॥९॥
नत्वा स्तुत्वा महादेवं नान्यत् किञ्चिदयाचत । लिङ्गार्चनाद्रुद्रजप द्भस्मरुद्राक्षधारणात् ॥१०॥
तथेत्युक्त्वा ययौ साम्बो नन्दिनः पश्यतः सुरैः । पुनस्तताप शरदां शतमाहारवर्जितः ॥११॥
रुद्रमाराधयंस्तीव्रं रुद्राध्यायजपादरः । तस्मै प्रादुर्बभौ सांबो वृषारूढः सुरैर्वृतः ॥१२॥
संम्तुतो वेदसङ्घैश्च मरुद्भिर्यक्षकिन्नरैx । दृष्टोत्थाय तदा नन्दी प्राञ्जलिः स्तौति शङ्करम् ॥१३॥
नन्दी -
रमानाथनेत्राब्जपूज्यांघ्रिपद्मं महाकालकूटॊज्ज्वलन्नीलकण्ठम् ।
सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥१४॥
महाजह्नुकन्याजटाजूटके टिं तडित्कूटकर्पूरखण्डाभदेहम् ।
सदाऽहीश्वरौघावलीविस्फुर तं नटन्तं भजेऽहं भवान्या समेतम् ॥१५॥
सुहेरम्बतातं षडासयिकदृष्टि भवाम्भोधिपोतं कुरङ्गास्यहस्तम् ।
सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥१६॥
स्तम्बेरमाधीशचर्मैकवस्त्रं भजें देवदेवं महेशं चिदाद्यम् ।
असङ्गं चिदङ्गं भुजङ्गं भवान्याः महादेवहृद्यं प्रसङ्गं जनानाम् ॥१७॥
विनिर्धूतकामं सदा स्वात्मरामं महाxमदेवादिसामैकसीमम् ।
घनानन्दभस्मैकधामानमीशं भजे विस्मृतापारसर्वेन्द्रियार्थम् ॥१८॥
तत्स्तुत्या तोषितः शम्भुः चारुचन्द्रकलाधरः । उमादेहार्धललितः तमुवाच कृपानिधिः ॥१९॥
ईश्वरः -
नित्योऽसि सर्वदा सर्वैः सेव्यः स्तुत्योसि सांप्रतम् । गणेन्द्रोऽस्यमराधीशः समाहूय महेश्वरः ॥ ( ? ) ॥२०॥
सारूप्यं च ददौ तस्मै देवदेवो महेश्वरः । कपर्दचन्द्रार्धधरं नीलकण्ठं त्रिलोचनम् ॥२१॥
चतुर्भुजं चैणपाशखट्वाङ्गपरिशोमितम् । द्वीपिचर्मपरीधानं सर्वाभरणभूषितम् ॥२२॥
भस्मरुद्राक्षसंपन्नं तं तदा काञ्चनैर्घटैः । भद्रासने चोपवेश्य गणेद्रमभिषेचयत् ॥२३॥
गाणपत्ये गणेंन्द्राणां नन्दिनं बिश्वनन्दिनम् । विष्णुब्रह्ममहेशांश्च वीक्ष्य़ प्राह महेश्वरः ॥२४॥
ईश्वरः -
एष सर्वगणेन्द्राणामधिकः कल्पितो मया । गणेशस्कन्दतुल्योऽयं पूज्यः सर्वदिवौकसाम् ॥२५॥
शैवाचार्योऽयमतुलः शिवज्ञानैकभाजनम् । अपर्णातनयो नित्यो मम सारूप्यभागयम् ॥२६॥
ममापरा तनुर्नन्दी विश्वस्याज्ञाप्रवर्तकः । इत्युक्त्वा च महादेवो गणेन्द्रं तत्र भूधरे ॥२७॥
मण्डपे रत्नसंकीर्णे देवपुष्पविराजिते । नदत्सु देवतुर्येषु नृत्यन्तीष्वप्सरस्सु च ॥२८॥
पितॄणां मानसीं कन्यां सुयज्ञां नाम सुन्दरीम् । सर्वाभरणसंपन्नां तत्पाणिं ग्राहयच्छिवः ॥२९॥
देवी स्नुषां समालिङ्गय चक्रे वैवाहिकं विधिम् । देवैः सह तदा देवो देव्या विघ्नेशनन्दिना ।
स्कन्देन गणसङ्घेश्च ययु कैलासपर्वतम् ॥३०॥
एवं शिलादतनयं शशिशेखरोऽसौ दत्वा गणेन्द्रपदवीं च विवाह्य देवैः ।
रुद्रादिजाप्यपरितोषणतो मुनीन्द्र गौर्या विराजितवषुः प्रययौ गिरीन्द्रम् ॥३१॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे नन्दिकेशगाणपत्याभिषेको नाम षष्ठोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP