संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
तृतीयोऽध्यायः

शिवाख्यः चतुर्थाम्शः - तृतीयोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
शिलादन तपश्चर्यां प्रसादं परमेष्ठिनः । श्रृणु त्वं मुनिशार्दूल कथ्यमानं गणैः सह ॥१॥
यच्छ्रुत्वा लभते मुक्तिं शिवपादाम्बुजे मुने । अगजानायके यस्य भक्तिः किं तस्य कर्मभिः ॥२॥
सर्वसंपत्प्रदा भक्तिः सवापद्धिनिवारिणी । सर्वभाग्यप्रदा नॄणां भक्तिः स्वर्गापवर्गदा ॥३॥
माहेश्वरे पुराकल्पे मालवाख्ये महीधरे । नानावृक्षसमाकीर्णे नानापक्षिगणावृते ॥४॥
पुष्पवल्लीगणभरैः मन्दमारुतसंयुते । नदत्सु देवतूर्येषु गन्धर्वेषु तपस्विषु ॥५॥
सरोवरयुते रम्ये फुल्लाम्बुजसमन्विते । देवोद्यानोपमे तत्र गिरिकन्दरसुन्दरे ॥६॥
पर्णांबुमोजी फलभुक् नित्यं वातसुxरणः । उवाच चोटजे विप्रः पत्न्या स तपसा मुनिः ॥७॥
निनाय नियमेनायुः महर्षिः संशितव्रतः । जुह्वदग्निं सदा काले कुर्वन्नतिथिसत्क्रियाम् ॥८॥
शिवार्पितेन जीवन् स रुद्रलिङ्गार्चनप्रियः । पत्रैः पुष्पैर्वन्यफलैः भस्मरुद्राक्षभूषणः ॥९॥
वीतहव्यात्मजो योगी शिवयोगिजनार्चकः । तस्यैवं वर्तमानस्य वयः परिणतं बहु ॥१०॥
तमाह भार्या विनयात् वीतहव्यं महामुनिम् । नाम्ना चित्रवती हृद्या विचित्रार्थविशारदा ॥११॥
प्रणम्य रहसि स्वैरं प्रस्विन्नाननपङ्कजा ॥१२॥
चित्रवती -
कि~चिद्विज्ञप्तुमिच्छामि तदिहैकमना । श्रृणु x नावमान्यास्मि विप्रर्षे सारं मे वचनं हितम् ॥१३॥
कुरु कर्णे मुनिश्रेष्ठु तपसैवाशु साधय । तपसा प्राप्यते भोगो भक्तिर्मुक्तिश्च शाश्वती ॥१४॥
तप्सा मुनयः पूर्वं लेभिरे वांछितानि हि । तपसा परमेशानं शरणं व्रज शङ्करम् ॥१५॥
भक्त्याऽऽराध्य महादेवं को न काममवाप्नुयात् । यस्य लिङ्गं समभ्यर्च्य मुनयस्तत्करे स्थिताह ॥१६॥
ब्रह्मा ब्रह्मत्वमापन्नो महेशस्य प्रसादतः । विष्णुर्विष्णुत्वमापन्नो रुद्रो रुद्रत्वमाप्नुयात् ॥१७॥
इन्द्रादयो देवसङ्घा विद्याधरवराप्सराः । किन्नराः ऋषयः सर्वा यक्षगन्धर्वकाः खगाः ॥१८॥
मुनयो मनवो ये च भूतभव्यग्रहा गणाः । असुरा यक्षरक्षांसि दैत्यनाथाः सहस्रशः ॥१९॥
प्रजानां पतयः सर्वे राजानो भूरिदक्षिणाः । समाराघ्यैव तपसा महेशं सर्वकामदम् ॥२०॥
लेभिरे वांछीतान्येव तं समाराधयेश्वरम् । अनपत्यत्वमुभयोर्लोकयोर्गर्हितं खलुय ॥२१॥
नापुत्रस्य हि लोकोऽस्ति इति संश्रूयते श्रुतिः । पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते ॥२२॥
जराशिथिलदेहौ च तपसा कर्शिताङ्गकौ । न दृश्यतेऽद्य सन्तानं कुलहेतुकरं तव ॥२३॥
इत्थं स भार्यावचसा मुनिर्दुःखादुवाच ह । किं मे तपस्यभिरतिः नापुत्रः सुखमेधते ॥२४॥
पुत्रहीनस्य हि गृहं धनधान्यसमृद्धिमत् । भवनं तद्वनं प्राहुः वनं पुत्र्यं गृहायते ॥२५॥
पश्यैणबालकानन्ते मातृभिः सह शेरते । पश्य वानरनार्योऽपि कटिबद्धस्तनन्धयाः ॥२६॥
पुत्रप्रेमान्विताः सर्वे पक्षिणो नीडमास्थिताः ।
दिग्भ्यः कणान् समादाय पोषयन्ति सुतान् स्वकान् ॥२७॥
किमप्राप्यं महेशार्चानियतानां शिवात्मनाम् । भुक्तिमुक्तिप्रदो देवो भक्तवश्यो महेश्वरः ॥२८॥
सम्यगाराधितो भक्त्या कुलहेतुकरं मम । ददाति पुत्रमीशानं सर्वसौभाग्यवारिधिः ॥२९॥
मा नो महान्तमुतमा इति रुद्रेषु गीयते ॥ स्तूयते परया भक्त्या स मे कामं विधास्यति ॥३०॥
तदा पुनश्चित्रवत्या वीतहव्यो महामुनिः । गिरिमौलौ गिरीशस्य लिङ्गमाराधयंस्तदा ॥३१॥
गृहीतनियमस्तत्र दश वर्षाणि सोऽचिरात् । भस्मस्थण्डिमध्यस्थः भस्मरुद्राक्षभूषणः ॥३२॥
रुद्रमावर्तयन् मौनी पञ्चाक्षरजपादरः । वर्षं शिलाशनो विप्रो फलमूलाम्बुभोजनः ॥३३॥
निराहारस्ततो वर्षं वर्षं पवनभोजनः । तस्यैवं तपसा तुष्टो देवः कष्टनिवारकः ॥३४॥
अष्टमूर्तिः पुरस्तस्थौ वृषारूढः सहोमया । गणगन्धर्वदेवैश्च सेवितोवाच तं प्रति ॥३५॥
स्तुवन्ति परितो देवं रुद्रविष्णुपितामहाः ॥३६॥
जयेतीशेति शर्वेति तदा प्राञ्जलयो मुदा । दृष्ट्वा देवं विरूपाक्षं अस्तौषीद्भक्तिभावतः ॥३७॥
मुनिः -
तमेकरुद्रमीश्वरं विजानतां तमेकधा न चैव भेदसन्ततिर्भयं न चैव तस्य हि ।
तमेकमेव सन्तमप्यनेकधाऽवदच्छ्रुतिः सुरेन्द्रनायकादिनामभिस्तमेव तं भजे ॥३८॥
न हि द्वितीयसंभवं महेश्वराज्जगद्गतं द्वितीयकल्पनावशाद्भयं भवेत तस्य हि ।
द्विधैव देहभेदतो भजेऽद्य कृष्णपिङ्गलं सुमङ्गलं शिवायुतं दिवाकरान्तरं सदा ॥३९॥
गुणत्रयातिदूरगं त्रिलोचनं त्रिमूर्तिगं त्रिधामभूमसामभिस्त्रिलोकवासमीश्वरम् ।
भजे त्रिमात्रसङ्गतं तथोमिति श्रुतीरितं अहा वुहा वु इत्यथो सुसामवेदबोधदम् ॥४०॥
चतुर्भुजाङ्गदेऽङ्गजप्रदग्धभस्मधारकं चतुःश्रुतीभिरीड्यमानपादुकं परं शिवम् ।
चतुर्विधार्थभोगदायकं चतुर्दिशाम्बरं चतुर्मुखस्तुतं भजे चतुर्थमद्वयं सदा ॥४१॥
भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं प्रपञ्च पञ्चभूतहृत्सुपञ्चबाणहृत्तमोनिवारकम् ।
सुपञ्चवर्णमन्त्ररूपिणं महाघपंचवारणं नमःशिवायमन्त्रतः प्रसन्नमीश्वरं सदा ॥४२॥
स्कन्दः -
तत्स्तुत्या परमप्रीतो वरेणाच्छन्दयत् द्विजम् ॥४३॥
शिवः -
श्रृणु कामान् वीतहव्य तत्ते संपूरयाम्यहम् । महेशं तपसा प्राह विप्रो विप्रकुलेश्वरम् ॥४४॥
मुनिः -
त्वद्भक्तिमेव याचेऽहं सर्वकामप्रदायिनीम् । पुत्रं वंशकरं मेऽद्य दिश शम्भो चिरायुषम् ॥४५॥
सूतः -  
देवो विप्रवचः श्रुत्वा तमाह प्रहसन्निव ॥४६॥
ईश्वरः -
वृद्धोऽसि सांप्रतं ब्रह्मन् यज्ञ यज्ञेन मां शिवम् यज्ञेश्वरं विरूपाक्षं सर्वदेवशरीरगम् ॥४७॥
हलतः कर्षतो भूमिं सुपुत्रस्ते ह्ययोनिजः । भवेच्च मत्समो विप्र नम्ना त्वं च शिलादनः ॥४८॥
गणेन्द्रश्च महायोगी इत्युक्त्वाऽदर्शनं गतः । अन्तर्हिते महादेवे दम्पती हर्षितो तदा ॥४९॥
प्रणम्य स्वगृहं यातौ स्मरन्तौ शिवशासनम् । संभृत्य सर्वसंभारं यज्ञायैव मनो दधे ॥५०॥
इत्थं शङ्करवाक्यतः प्रमुदितः पत्न्या मुनिः स्वं गृहं
यातः पातकवर्जितोन्नतमतिः यज्ञाय दध्रे मनः ।
पुण्यैर्विप्रवरैर्गिरीशतटिनीतीरे पवित्रे तदा
शालां शीलयदग्निषु द्विजयुतो जुह्वन्ननैषीन्निशाः ॥५१॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्यांशे शिलाशनतपश्चर्या शिवानुग्रहवर्णनं नाम तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP