संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
प्रथमो‍ऽध्यायः

शिवाख्यः चतुर्थाम्शः - प्रथमो‍ऽध्यायः

श्रीशिवरहस्यम्

शर्वाणीवदनाविन्दविकसत्सूर्यप्रभं सुन्दरं सिन्दूरारुणवक्त्रपद्मममलं विघ्नाद्रिवज्रप्रभम् ।
मुक्तागुच्छितकर्णतालममरेन्द्राद्यैश्च वन्द्यं भजे भक्तानामभवाय भूतिविलसद्गात्रैकमोदप्रियम् ॥१॥
माद्यन्मोदकदन्तपाशसृणिभिः संशोभिबाहुं विभुम् ।
जैगीषव्यः -
पञ्चास्यसितपाथोजविकासनदिवाकर । श्रुतं ते तारकाराते कथाख्यानमनुत्तमम् ॥२॥
शिवढुंढिचरित्रं च शैववर्यस्य चाद्भुतम् । गणानां च गणत्वे वै को हेतुर्वद सादरम् ॥३॥
नन्दिकेशादयः स्कन्दविष्णुब्रह्मादयः सुराः । मुनयश्च दधीचाद्याः मार्कण्डेयादिगौतमाः ॥४॥
घटोद्भवोपमन्युश्च भृगुदुर्वासकाः सदा । सम्यक् प्रसाद्य तं प्रापुः स्वाभीष्टं तत्कथं वद ॥५॥
महेश्वराद्देवदेवात् श~कराल्लोकशङ्करात् । त्वं वै कारुणिकश्रेष्ठो गुरुर्मम शिवात्मजः ॥६॥
अन्ये तु गुरवो लोके गुणत्रयपरायणाः । त्वं निर्गुणोऽसि भगवन् षङ्गुण्यपरिपूरितः ॥७॥
त्वत्तोऽद्य श्रोतुमिच्छामि गणानां चरितं शुभम् । शिवभक्तानुचरितं सुराणां भक्तिकारणम् ॥८॥
देवदेवे विरूपाक्षे शङ्करे सर्वकामदे । महानन्दे परानन्दे भक्तिकारणमुत्तमम् ॥९॥
यस्य ज्ञानेन भक्त्या च सर्वं विज्ञातमेव हि । यमात्मानं महादेवं ज्ञात्वा शिवमयो भवेत् ॥१०॥
यस्य ध्यानेन मुनयो निवृत्ता मुक्तिमास्थिताः । सगुणो निर्गुणोऽप्यात्मा शिव एव सनातनः ॥११॥
श्रोतव्योऽपि च मन्तव्यो नामरूपकथारसैः । शिवानन्दाब्धिकल्लोलमहानन्दैकचन्द्रमाः ॥१२॥
त्वमेव देवसेनानां सेनानीः श्रुतिचोदितः । वद मेऽद्य कृपासारतुषारवरशीकरैः ॥१३॥
प्लावयाशुकथाख्यानैः शंभोर्भक्तिविवर्धनः । भक्तिरेव विरूपाक्षे श्रेयस्करतरा नृणाम् ॥१४॥
मुक्तये भवतीत्येव न तथा वेदनं शिवे । अव्यक्तवेदनं नॄणां भौतिकानां सुदुर्लभम् ॥१५॥
शिवप्रसादहीनानां वासना विषयात्मिकाः । भवन्ति नियतं पुण्ये पापे वा पापिनां ध्रुवम् ॥१६॥
किञ्चित्सत्ववतां नॄणां पुण्येषु रमते मनः । इष्टापूर्तादिधर्मेषु राजसानां भवेन्मतिः ॥१७॥
सात्विकानां शिवार्चादौ भस्मरुद्राक्षधारणे । त्रिपुण्ड्रधारणे पुण्ये तथा शिवकथारतिः ॥१८॥
भवत्येव मतिः पुंसां शांभवानां महात्मनाम् । तामसानां च हिंसादौ पापे धर्मे मतिर्भवेत् ॥१९॥
गुणत्रयात्मकाः सर्वे सदेवासुरमानुषाः । पुण्यैर्देवत्वमाप्नोति पापैस्तिर्यक्त्वमश्नुते ॥२०॥
गुणत्रयाधिके भक्तिः विरूपाक्षे महेश्वरे । शमाद्यात्मगुणा ये वै अहिंसा ब्रह्मचर्यकम् ॥२१॥
मैत्री भूतेषु करुणा सर्वत्र शिवदर्शनम् । निर्गुणे वाऽपि सगुणे भक्तिर्ज्ञानसमुच्चयः ॥२२॥
ज्ञानेऽपि यादृशं साध्यं साधनं वा सनातनम् । भक्त्याऽनुसाधनं यादृक् तादृगेव हि वेदने ॥२३॥
सगुणो गुणरूपैश्च शिवो ज्ञेयः सुखेन हि । उमासहायो विश्वेशो ध्येयो ज्ञेयश्च नित्यशः ॥२४॥
दहरे पुण्डरीके तु हिरण्यश्मश्रुरीश्वरः । हिरण्यबाहुराशास्यो ज्ञेयः स्वात्मतयैव तु ॥२५॥
क्षणमेकं शिवध्यानात् सगुणे क्रतुलक्षणम् । फलमाप्नोति कामात्मा निर्गुणे ब्रह्म वै भवेत् ॥२६॥
ऋतं सत्यं परं ब्रह्म ध्यानाद्ब्रह्मैव सो ( ? ) भवेत् । कामान् यः काम यैतैव पुण्यपापेषु वै नरः ॥२७॥
स्वर्गं वा नरकं याति वासनावासितो नरः । पर्याप्तकामो भक्त्यैव ज्ञानेनैवाश्नुते परम् ॥२८॥
श्रोतव्यो भगवान् शंभुः कथाभिर्गुणकीर्तनैः । मन्तव्यो रूपमननैर्यथायोग्यः तु निर्गुणः ॥२९॥
स ब्रह्म स शिवः सेन्द्रः सोऽक्षरः परमेश्वरः । स एव विष्णुः स प्राणाः स कालोऽग्निः स चद्रमाः ॥३०॥
स एव सर्वं यद्भूतं यच्च भव्यं महेश्वरः । ज्ञात्वा तं मृत्युमत्येति भक्तिज्ञानेन वै मुनिः ॥३१॥
सूतः -
इत्युक्तं मुनिवचनं निशम्य हर्षात् भवभक्तं मुनिमाह शंभुसूनुः ।
आलोक्याखिलवक्त्रलोचनैर्गणेन्द्रान् ध्यात्वा हृत्कमले महेशमिष्टम् ॥३२॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे स्कन्दं प्रति जैगीषव्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP