जपविधिः

श्रीसूक्तविधानम्


ततः जपार्थं विनियोजितस्थाने दर्भासनादिषूपविश्य आचम्य प्राणानायम्य अद्यपूर्वो० श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीमहालक्ष्मीदेवताप्रीत्यर्थं इष्टकामनासिद्ध्यर्थं संकल्पितश्रीसूक्तद्वादशसहस्रसंख्यात्मकपुरश्चरणकर्मणि स्संख्यापूरणार्थं अद्य अमुकसंख्याकं जपमहं करिष्ये । आदौ नि० गणपतिस्मरणं ऋष्यादिन्यासांश्च करिष्ये । गणपतिं स्मृत्वा अपक्रामंत्वित्यनेन भूतादीन्युत्सार्य भूमिं नत्वा ऋष्यादिन्यासं कुर्यात् । स्वशरीरे देवशरीरे च न्यासः ॥ ॐ ऋषिभ्यो नमः शिरसि । ॐ छंदोभ्यो नमो मुखे । ॐ देवतायै नमो हृदि । ॐ बीजेभ्यो नमो गुह्ये । ॐ शक्तिभ्यो नमः पादयोः । इति । ततः षडंगं कुर्यात् । ॐ हिरण्यवर्णायै नमः हृदयाय नमः । ॐ हरिणीं शिरसे स्वाहा । ॐ सुवर्णरजतस्रजां शिखायै वषट् । ॐ चंद्रां हिरण्मयीं कवचाय हुं । ॐ लक्ष्मीं नेत्रत्रयाय वौषट् । ॐ जातवेदो ममावह अस्त्राय फट् । इति हृदयादिषडंगं विधाय ध्यायेत् - अरुणकमलसंस्था तद्रजःपुंजवर्णा करकमलधृतेष्टाभीति-युग्मांबुजा च । मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता संततं श्रीः श्रियै नः ॥ इति । ततः हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आद्यायाः लक्ष्मीः तत आनंदकर्दमचिक्लीतेंदिरासुता ऋषयः । श्रीर्देवता ( श्र्यग्नीदेवते ) । आद्यास्तिस्रोनुष्टुभः । चतुर्थी बृहती । पंचमीषष्ठ्यौ त्रिष्टुभौ । ततोष्टावनुष्टुभः । अंत्या प्रस्तारपंक्तिः । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थं जपे विनियोघ । ॐ हिरण्यवर्णां इत्यतः तां म आवाह० गावो दास्योश्वान् विंदेयं पुरुषानहं, इत्यंताः पंचदश ऋगंता एकावृत्तिः एवं संकल्पितावृत्तीः जप्त्वा पुनः हृदयादिषडंगन्यासं कृत्वा ‘ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरी ’ ॥ इति देव्या वामहस्ते जपं निवेद्य उदकं दद्यात् संप्रार्थयेच्चमंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यज्जप्तं हि मया देवि परिपूर्णं तदस्तु मे ॥ यदक्षरपद भ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ विसर्गबिंदुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ सरसिजनिलये सरोजहस्ते धवलतरांशुकगंधमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ इत्यादिभिः संप्रार्थ्य देव्यै गंधपुष्पं समर्प्य प्रणम्य ॐ तत्सद्ब्रह्मार्पणमस्तु ॥ इति कृतं कर्म ब्रह्मार्पणं कृत्वा विष्णवे नम इति त्रिवारं विष्णुस्मरणं कृत्वा द्विराचम्य पवित्रग्रंथिं विस्रस्य आसनस्थानं भूम्यै नमः इति नमस्कृत्य उत्तिष्ठेत् । पूर्वोक्तयमनियमैर्दिवसं नयेत् । इति प्रथमदिनकृत्यम् ॥
अथ द्वितीयादिदिनविधिः । द्वितीयादिदिनेषु संध्यादि नित्यकर्म समाप्य पुरश्चरणार्थं विनियुक्ते स्थाने आसनस्थानं नमस्कृत्यासने उपविश्याचम्य प्राणानायम्य देशकालोच्चारं कृत्वा श्रीपरमेश्वरप्री० श्रीमहालक्ष्मीदेवताप्रीत्यर्थं पूर्वसंकल्पितश्रीसूक्तपुरश्चरणसंख्यापरिपूरणार्थं अद्यामुकसंख्याकावृत्तिजपाख्यं कर्म करिष्ये । तदंगं संक्षेपतः महालक्ष्मीपूजनं शरीरशुद्ध्यर्थं न्यासविधिं आदौ निर्विघ्नतार्थं महागणपतिस्मरणं च करिष्ये इति संकल्प्य गणेशस्मरणं कृत्वा हृदयादिषडंगन्यासं विधाय संक्षेपतः यथोपचारैर्लक्ष्मीं संपूज्य पूर्वोक्तान् ऋष्यादिनासांश्च कृत्वा हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्येत्यादिछंदर्ष्यादीन् पठित्वा जपारंभं कुर्यात् ॥ संकल्पितजपावृत्तिनंतरं षडंगं उत्तरन्यासं विधाय पूर्ववत् देव्यै जपनिवेदनं संप्रार्थनं गंधपुष्पसमर्पणं देवतां च हृदि विभाव्य कृतं ब्रह्मार्पणं कृत्वा न्यूनातिरिक्तदोषपरिहारार्थं त्रिवारं विष्णुस्मरणं कृत्वा द्विराचम्य आसनस्थानं प्रणम्य उत्तिष्ठेत् इति प्रतिदिनं अयमेव विधिः ॥

N/A

References : N/A
Last Updated : March 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP