श्रीसूक्तविधानम् - मानसपूजा

श्रीसूक्तविधानम्


अथ प्रसंगात् सर्वत्र तत्तन्मंत्रजपाद्यनुष्ठानादिकर्मसु विहिताया मानसपूजायाः विधिः मुद्रास्च प्रदर्श्यंते । तावदादौ इदमत्रावधेयं यत् - मानसपूजा नाम तत्तदिष्टदेवतां हृदि विभाव्य मानसैर्मनःकल्पितैरुपचारैस्तद्देवतापूजनम् इति । तदुक्तं श्रीमत्सद्गुरुसमर्थरामदासस्वामिभिः - ऐसी पूजा न घडे बरवी । तरी मानसपूजा करावी । मानस अगस्त्य व्हावी । परमेश्वरासी ॥ मनें भगवंतासी पूजावें । कल्पूनि सर्वही समर्पावें । मानसपूजेचें जाणावें । लक्षण ऐसें ॥ जें जें आपणास पाहिजे । तें तें कल्पूनि वाहिजे । येणें प्रकारें कीजे । मानसपूजा ॥ ( ओवी ३१ ते ३४ द. ४ स. ५ दासबो. ) भगवत्पदैकनिष्ठानां भक्तिमार्गनिरतानां भक्तिमार्गे विहिता इयमेव मानसपूजा । कर्ममार्गे तु तंत्रांतरे उदिता मानसपूजा त्वन्या, सा यथा - ‘ आराध्यदेवतां हृदि विभाव्य तत्तद्देवतानाम नमोऽन्तं चतुर्थ्यतमुच्चार्य तत्तद्बीजपूर्वकं गंधादिपंचोपचारान् समर्पयेत् । तदेवं ॐ श्रीदेव्यै नमः । अथवा ॐ श्रीभगवतीमहालक्ष्म्यै नमः । ॐ लं पह्तिव्यात्मकान् गंधान् कल्पयामि । इत्युक्त्वा उभयकरांगुष्ठाग्रेण उभयकनिष्ठिकयोर्मध्यमपर्वणोः स्पृशन् गन्धं कल्पयेत् । ॐ श्रीदेव्यै नम इत्यादि पूर्ववत् देवतानाम उक्त्वा ॐ हं आकाशात्मकं पुष्पं कल्पयामि इत्युच्चार्य उभयतर्जन्यग्रद्वयेन अंगुष्ठमध्यदेशयोः स्पृशन् पुष्पाणि कल्पयेत् । ॐ श्रीदेव्यै० ॐ यं वाय्वात्मकं धूपं कल्पयामि इति उभयांगुष्ठाग्रेण तर्जन्या मध्यदेशे स्पृशन् धूपं कल्पयेत् ॥ ॐ श्रीदेव्यै० ॐ रं अग्न्यात्मकं दीपं कल्पयामि इति उभयांगुष्ठाग्रेण मध्यमामध्यपर्वणॊः स्पृशन् दीपं कल्पयेत् । ॐ श्रीदेव्यै० ॐ वं अमृतात्मकं नैवेद्यं कल्पयामि इति पूर्ववत् उभयांगुष्ठाग्रेण अनामिकयोर्मध्यदेशे स्पृशन् नैवेद्यं कल्पयेत् । यद्वा केवलनैवेद्यमुद्राप्रदर्शनेन मानसपूजा कार्येति आचारेन्दौ ॥ मूलपर्वस्पर्शः गंधधूपदीपनैवेद्यानां क्रमान्मुद्राः स्युः । पुष्पमुद्रा तु तर्जन्यग्राभ्यां अंगुष्ठमूलयोः स्पर्शः पुष्पमुद्रा इत्युक्तम् ॥
इति प्रायः सर्वकर्मण्युपयुक्तन्यास - मानसपूजामुद्राविचारः ॥

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP