श्रीसूक्तविधानम् - प्रारंभ

श्रीसूक्तविधानम्


श्रीलक्ष्मीकेशवं नौमि दत्तात्रेयजनार्दनौ ।
येषां कृपाप्रसादेन साफल्यं जन्मनो मम ॥१॥
अजरालयग्रामवासी रत्नागिर्याख्यमण्डले ।
जोशी नारायणाख्योऽहं वामनिश्चित्तपावनः ॥२॥
ब्रह्मणस्पतिसूक्तस्य विधानं प्राक् कृतं मया ।
श्रीसूक्तस्याधुना कुर्वे विधानं श्रीशतुष्टये ॥३॥
अनुष्ठानं कथं कार्यं फलं किं हवनं कथम् ।
प्रमाणपूर्वकं सम्यक् यथामति विचार्यते ॥४॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा ।
यद्भवेत्पूरणीयं च तद्विशोध्यं दयालुभिः ॥५॥
अथ विष्णुधर्मोत्तरे पुष्कर उवाच -
हिरण्यवर्णां हरिणीमृचः पंचदश द्विज ।
श्रीसूक्तं कथितं पुण्यं ऋग्वेदे पुष्टिवर्धनम् ॥१॥
रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋचः ।
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ॥२॥
श्रायंतीयं तथा साम सामवेदे प्रकीर्तितम् ।
श्रियं धतुर्मयि धेहि प्रोक्तमाथर्वणे तथा ॥३॥
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ।
जुहुयादथ धर्मज्ञो हविष्येण विधानतः ॥४॥
इति शांतिरत्ने ।
अथ हिरण्यवर्णामिति पंचदशर्चं श्रीसूक्तं ऋग्वेदे । रथे अक्षेषु वृषभस्य वाजेति चतुरृचं यजुर्वेदे । श्रायंतीयं सामवेदे । श्रियं धातुर्मयि धेहीति अथर्ववेदे इति । एवं प्रतिवेदं श्रीसूक्तं भिन्नं भिन्नामुक्तम् । तत्र ऋग्वेदांतर्गतश्रीसूक्तस्य परिशिष्टरूपस्य विधिर्लिख्यते ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP