TransLiteral Foundation
मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
दत्तनामस्मरणम्

दत्तनामस्मरणम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


दत्तनामस्मरणम्
शास्त्रं शस्त्रं मल्लविद्यादि सर्वं स्नानं ध्यानं योगयोगादिकं च । पूर्तेष्टादि प्राणवित्तापहारि श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१॥
न त्वायासो वित्तहनिर्न चैवं प्रत्यादेशो नो कवित्वाद्यपेक्षा । सर्वश्रेष्ठं साधनानां वरिष्ठं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२॥
कामं क्रोधं जेतुकामो यदि स्याः शोकं मोहं त्यक्तुकामोऽथवा चेत् । रागद्वैषौ हातुकामोऽथ बन्धो श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३॥
बाल्यं खेलौ कामिनीषु प्रकामं तारुण्यं ते मूड्य्ह व्यर्थं गतं भोः । वृद्धत्वं हा मृत्युमार्गानुसारि श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४॥
जायापुत्रक्षेत्रवित्तादि सर्वम् अश्वस्थं तद् धायते मूढ कस्मात् । आदावन्ते दुःखमूलं च मध्ये श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५॥
जातं कस्माद् गम्यते कुत्र बन्धो स्थानं कस्माच्चिन्तयाहर्निशं तत् । सर्वं ह्यार्तं त्रीशनामैव सत्यं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६॥
नाना धर्मा भ्रान्तिमूलाश्च सर्वे ह्येकं सत्यं नाशवत्सर्वमन्यत् । नाना मार्गाः कष्टमूलाश्च सर्वे श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७॥
प्राप्तः पूर्वाण्ह पराण्हे च सायं रात्रीवेवं पूर्वरात्रे निशीथे । प्रत्यूषेऽपि त्रीशमेकं वदार्भ श्वासे स्व्हासे दत्तनाम स्मरात्मन् ॥८॥
स्नाने पाने भोजने यानकाले कार्येऽकार्ये ह्युत्थितं चोपविष्टम् । सुप्तौ स्वप्ने चिन्तय त्रीशमेकं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥९॥
त्यक्त्वालस्यं तामसं पापमूलं जन्माभ्यासं राजसं कर्म सर्वम् । भक्तिप्राप्यं त्रीशमेकं प्रयहि श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१०॥
वित्तं भूमावश्वयानादि गोष्ठे मैत्र मार्गे बान्धवादी श्मशाने । देहो वन्हौ देहलिस्यं कलत्रं श्वासे याते कोऽपि सार्धं न याति ॥११॥
वेदं वादं वादशूरेषु हित्त्वा काव्यं भाणं भण्डवीरे विहाय । नृत्यं गीतं नादलुब्धे समर्प्यं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१२॥
स्वाद्वस्वादू सत्कदन्नादि मुक्त्वा हीने हर्म्येऽहीरघोषे शयित्त्वा । चीरं चेलं क्षौमवल्कादि धृत्वा श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१३॥
मन्त्रं तन्त्रं यन्त्रविद्यादि सर्वं त्यक्त्वा दूरे तीर्थयात्रादिकं च । पाठं पूजां पुण्ड्रमेवापि कष्टं श्वासे श्वासे दत्तनाम स्मारात्मन् ॥१४॥
आयुः स्वल्पं स्वल्पमत्यन्तमेव कालव्याघ्रो मर्त्यमेष निहन्ति । तारुण्य ते वारिपूरप्रकल्पं श्वासे श्वासे दत्तनाम स्मरात्मन ॥१५॥
इष्टद्रव्यं दृष्टानन्ष्टस्वरूपं कीर्तिः का सा पद्मपत्राम्बुकल्पा । त्यक्त्वा व्यर्थ लोकनृत्यानुनृत्यं श्वासे श्वासे दत्तनाम स्मरात्मन ॥१६॥
सार्थ सर्वे मानयन्ति प्रकामं निःखं कोऽपि मेक्षते नैव लोके । स्वार्थः प्रेष्ठो दुर्लभो यः परार्थीं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१७॥
यावत्स्वस्थं रोगहीनं वपुः स्याद् यावत्कालो नेक्षते सेर्ष्यमत्र । तावत्कालो जागृहि त्वं प्रमादिञ्च श्वासे श्वासे दत्तनाम स्मरत्मन् ॥१८॥
निद्रासि त्वं निर्भरं देहगेहे चोराश्चान्तः सर्वतो हा विशन्ति । मुष्णन्त्येते ह्यात्मवित्तं प्रवृष्य ह्युतिष्ठात्मन् स्वापमेतं जहीहि ॥१९॥
केचिद्याता ह्यर्धयातश्च केचित् केचिन्मार्गे नीयमाना पुरस्ते । निद्रासि त्वं केन सौख्येन मूढ श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२०॥
कामी भोगें ब्रह्मचर्येऽतिक्लिबो मूर्खो दाने दानशून्ये कदर्यः । भक्ताबन्धो नास्तिको भक्त्यभावे सर्वं त्वेवं दुर्जनैर्दूषितं स्यात् ॥२१॥
क्षन्तव्योऽस्माल्लौकजल्पोऽनिवार्यो नो हातव्यो धर्ममार्गः कदाचित् । ग्राह्यं नित्यं दत्तनामामृतं सत् त्याज्यः सङ्गो दुःसहो दुर्जनानाम् ॥२२॥
माता दत्तस्त्वत्पिता दत्त एव । स्वामी दत्तस्ते सखा दत्त एव । त्यक्त्वा ह्येनं वीक्षसे कुत्र चान्यं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२३॥
गन्तव्यं ते दूरमत्यन्तमेव मार्गे मा गाः सौख्यमल्पेन तुष्टः । सर्वे ह्येते धृर्तपाटच्चरास्ते हृत्त्वा सर्वं त्वां बहिष्कासयन्ति ॥२४॥
लब्ध्वा साङ्गं मानुषं जन्म मूढ विक्रीणीषे धिग्वराटार्थमेतत् । प्राप्यं नैतत्पुण्यकोटिं विनान्ध श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२५॥
यावद्वित्तं ह्यार्जते पुष्कलं ते सौख्यं तावत्पृछ्यते मूढ सर्वेः । नष्टे सारे लोक्यते सर्वतोऽज्ञं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२६॥
हास्यं दृष्ट्वा हस्यते दर्वलोकैर्दुःखाश्रूणी हा न कोऽपि प्रमार्ष्टि । कुर्वंन्मे मे किं मूर्तिं यासि मेष श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२७॥
क्षुद्ध्याध्यर्थं ह्यौषधं भैक्ष्यमुक्तं शीताद्यार्तिध्वंसहेतोस्तु वासः । अन्यस्वेच्छा तन्यते मूढ कस्माच्छ्वासे श्वासे दत्तनाम स्मरात्मन् ॥२८॥
काष्ठांश्वग्नीन् यो मृतस्यापि दत्ते किं वृत्तिं नो जीवयुक्तस्य तेऽसौ । श्रद्धायुक्तं तस्य पादौ गृहाण श्वासे श्वासे दत्तनाम स्मरात्मन् ॥२९॥
मिथ्याऽयं ते र्तो मोहमूलोऽभिमानो यानश्वानस्येव कर्तृत्वमूलः । त्रीशादान्यः कः प्रभुः स्यात्त्रिलोक्यां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३०॥
भीवास्यैवार्कोऽपि प्रातर्ह्युदेति नक्तं चेन्दुर्निमलं खे विभाति । ऊर्ध्वं क्षिप्तं वस्तु निम्नं प्रयाति श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३१॥
इन्द्रः काले वर्षति त्यक्तगर्वं भूमिः शुष्का सस्यपूर्णा विभाति । जग्धं ह्यन्नं पच्चते जाठरेण श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३२॥
सत्यं शौचं ब्रह्मचर्यादिकं च श्रद्धा क्षान्तिस्तोष एतच्चिनुष्व । दूरीकृत्यान्यत्प्रतीपं यदस्य श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३३॥
त्याज्यः सङ्गः सर्वंथा दुःखमूलं नो चेच्छक्यः सद्भिरेव प्रकार्यः त्यक्त्वा निन्दां योषितोऽ‍न्यस्य चर्चां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३४॥
त्याज्यः कामः सर्वथा जन्ममूलं नो चेच्छक्यस्त्रीशप्राप्त्यै विधेयः । त्रीशो दत्तो ह्यौशधं दुःखव्याधैः श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३५॥
क्रोधस्त्याज्यः सर्वथा पापमूलं नो चेत्कार्यस्तीब्रपापप्रकोपे । त्यक्त्वा व्यर्थं ह्यन्यदोषेक्षण्म च श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३६॥
प्राणायामं पीडणं नासिकायाः पत्तान्याद्युत्तापनं देहवल्लेः । वृक्षस्कन्धोद्बन्धनादि प्रहाय श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३७॥
मार्गे मार्गे पर्वतप्रायविघ्ना विघ्ने विघ्ने धैंर्यसारच्युतिः स्यात् । तो चेद्दत्तालम्बनं वज्रसारं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३८॥
यामिन्येषा बद्धभीमान्धकारा भूता ह्येतद्भीपयन्तो भ्रमति । भीमारालैस्तर्जयन्तः समस्ताछ्वासे श्वासे श्वासे दत्तनाम स्मरात्मन् ॥३९॥
पश्याकाशं ह्यम्बुदैर्व्याप्तमेतन्मेघा ह्येते गर्जयन्तश्चरन्ति । विद्युद्गर्भाः कम्मयन्तोऽ - द्रिसानूञ श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४०॥
श्वाना ह्येते भीषणं हा भषन्ति पादौ श्लिष्ट्वा गूढमन्तर्दशन्ति । त्यक्त्वा ह्येतान्दूरतो याहि बन्धो श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४१॥
कूजत्युद्याने कलं कोकिलोऽसौ रेवा सापि त्रीशागनं करोति । शेषे लम्बं हा कथं कुम्भकर्ण श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४२॥
कृत्त्वा केकां नीलकण्ठोऽपि नौति बर्हाण्युत्सार्य प्रभुं बीजयत्यु । कामं तल्पे सुप्यते ते कथं धिक् श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४३॥
वाणिज्येच्छा वर्तते चेत्करुष्व वाणिज्यं भो नामसङ्कीर्तनस्य । हानिः कष्टं नो कदाष्यल्पमत्र श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४४॥
चिंत्तं बन्धो वर्तते कर्षणे चेत् कामं कुर्याः सद्गुणानां कृषिं भोः । नो भीतिः स्याद्वर्षणावर्षणस्य श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४५॥
सेवा बन्धो मन्यते चेद्गरिष्ठा त्यक्त्वा मानं साधुसेवां विधेहि । भीतिर्नो स्यादर्धचन्द्रस्य चात्र श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४६॥
योगेच्छा चेत्त्रीशयोगं प्रयुङ्क्ष्व भोगेच्छा चेदात्मसौख्यं च भुङ्क्ष्व । स्वायत्तं यच्छाश्वतं तृप्तिपूर्ण श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४७॥
कायो माया मोहहेतुश्च मूढ नो स्वायत्ता विञ्चिका ह्यन्तकाले । एवं चेत्तत्स्वेच्छया नार्प्यते किं त्रीशस्याङ्घ्र्योर्दासभावेन मूढ ॥४८॥
आयास्यन्ति त्वत्र दूता यमस्य बद्धवा पाशैर्नेतुकाम भवन्तम् । को वा प्राणिन्मोचयिष्यत्यमीभ्यः श्वासे श्वासे दत्तनाम स्मरात्मन् ॥४९॥
योऽदाद्वाचं त्वीक्षणादिप्रशक्तिं देवः कोऽसौ मृग्यतें किं कदाचित् । त्रीशो दत्तो जीवनं जीवसृष्टेः श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५०॥
राजाज्ञायाः पालनात्कृष्यतेऽसो तद्वत्स्वाज्ञापाननादेव देवः । नूनं दासस्य त्वनन्यस्य चिन्ता भर्तुः काले नैव दासं जहाति ॥५१॥
त्रीशो धीशास्तारकास्तिष्ये एकः सर्वांस्त्यक्त्वा तं शरण्यं प्रयाहि । स्रग्वाद्यार्यंब्जत्रिशूलादि धृत्वा भक्तान्पाति प्रेमबन्धेन बद्धः ॥५२॥
मार्गोऽयं तेऽत्यन्त वैषम्यपूर्णो हिंस्रव्याप्तः शूलकीर्णोऽतिभिमः । धीरं धृत्वात्रेयदीपं प्रयाहि श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५३॥
को जानीते श्वः कथं वर्तते ते कामाग्रस्ते जीवलोके समन्तात् । कर्तव्यं यच्छीध्रमेबावधेहि श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५४॥
मार्गे मार्गे नूतनास्वर्णवीथिवींथौ वीथौ काञ्चनं नेत्रकर्षि । धृत्वा बालान्स्वर्णकारारतुदन्ति श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५५॥
मार्गे मार्गे मिष्टलड्दूकगेहं गेहे गेहे लड्डुकाः स्वादपूर्णाः । रिञ्चन्त्यज्ञान्मोहयित्वा रसाद्यैः श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५६॥
मग्नप्रायो वासनावारिपूरे हन्तात्मॅंस्ते द्रुस्तरे कायकोलः । देवं दत्तं कर्णधारं वृणीष्व नान्यः कश्वित्पारयेत्वा तदोधात् ॥५७॥
कः कावन्यो दुःखहर्तेति चक्ष्व कारुण्यब्धिं दत्तमेवेहि दीन । श्रद्धत्स्वैतद्वच्मि ते सारभूतं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५८॥
माता कुप्येद्रक्षितात्रास्ति तातः क्रुद्धे ताते रक्षतीहास्य चाम्बा । क्रुद्धे रक्षत्को नु दत्ते त्रिलोक्यां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥५९॥
भूतौ सर्वे भोक्तुकामा मिलन्ति नष्टैश्वर्ये तत्क्षणे विस्मरन्ति । संबन्धास्ते स्वार्थमूला ह मूढ श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६०॥
सस्याकीर्णं शाद्वलं पश्य सर्वं धावन्त्येता धेनवोऽपि प्रहर्षम । शुष्कं नेयाद्रासभोऽपि प्रमादाच्छ्वासे श्वासे दत्तनाम स्मरात्मन् ॥६१॥
कामूस्याप्तिं दुःखदोषणाष्टिं निःस्वस्येष्टिं वृद्धपङ्गोस्तु यष्टिम् । पुण्याकृष्टिं पापप्रेतप्रकष्टिं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६२॥
शक्तौ दत्तं शक्तिनाशेऽपि दत्तं भूतौ दत्तं भूतिनाशेऽपि दत्तम् । बाल्ये दत्तं वृद्धभावेऽपि दत्तं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६३॥
याने दत्तं पादयोनऽपि दत्तं ग्रामे दत्तं दत्तमेव श्मशाने । गोष्ठे दत्तं मन्दिरे दत्तमेव श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६४॥
लग्ने दत्तं सूतके दत्तमेव क्षेत्रे दत्तं दत्तमेवापि पीठे । काले दत्तं दत्तमेवाप्यकाले श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६५॥
लोके दत्त दत्तमेव त्वरण्ये कार्यागारे भीमाकारागृहे च । काशीक्षेत्रे त्वन्त्यजाभीरघोषे श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६६॥
दत्तस्त्वेको जीवनं जीवनानां दत्तस्त्वेको मार्णं मारणानाम् । दत्तस्त्वेको भीषणं भीषणानां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥६७॥
दत्तस्त्वेको कारणं कारणानां दत्तस्त्वेको जारणं जारणानाम् । दत्तस्त्वेकस्तारणं तारणानां श्वासे दत्तनाम स्मरात्मन् ॥६८॥
दत्तस्त्वेको भेपनं भेपजानां दत्तस्त्वेको ह्यञ्जनं चाञ्जनानाम् । दत्तस्त्वेको ह्यमृतं चामृतानां श्वासे श्वासे दत्तनाम स्मरत्मन् ॥६९॥
दत्तस्त्वेको भूपतिर्भूपतीनां दत्तस्त्वेकोस्त्वीश्वराणाम् । दत्तस्त्वेकोदेशिको देशिकानां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७०॥
दत्तस्त्वेको ब्राह्मणो ब्राह्मणानां दत्तस्त्वेकः क्षत्रियः क्षत्रियाणाम् । दत्तस्त्वेको वैश्यजो वैश्यजानां दत्तस्त्वेको ह्यन्त्यजस्त्ववन्त्यजानाम् ॥७१॥
दत्तत्स्वेकः पालकः पालकानां दत्तस्त्वेकः पोषकः पोषकाणाम् । दत्तस्त्वेको मोक्षदाता नाराणां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७२॥
दत्तस्त्वेको ज्योतिषा ज्योतिरद्धा दत्तस्त्वेकश्छन्दसां छन्द आद्यम् । दत्तस्त्वेकालम्बनं कौ कवीनां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७३॥
दत्तस्त्वेको भासको भासकानां दत्तस्त्वेकश्चालकश्चलकानाम् । दत्तस्त्वेकः पावनः पावनानां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७४॥
सर्वे देवा दत्तमेवास्तुवन्ति वेदाः सर्वे दत्तमावर्णयन्ति सर्वे भेदो दत्तमेवानयन्ति श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७५॥
नाम्ना तीर्णो रामगाथाकृदादौ नाम्ना तीर्णोऽजमिलोऽप्यन्तकाले नाम्ना तीर्णा पिङ्गला पण्ययोषा श्वासे श्वासे दत्तनाम स्मरात्मन् ॥७६॥
कायः काशी ह्यात्मदेवोऽत्र दत्तो वामा गङ्गा दक्षनासाऽर्कजाऽत्र । मध्याऽजा सा सङ्गमो ब्रह्मरन्धे स्त्रात्वा ध्यात्वा मुच्यते मुक्त एव ॥७७॥
देहः सह्यो हृन्नु मातापुरं स्यादत्रिर्ज्ञानं भक्तिरेकाऽनसूया । विज्ञानं तन्निर्मलं दत्तनाम ध्यात्त्वा सन्तो जन्ममृत्यु तरन्ति ॥७८॥
गेयं तिव्ये तारकं दत्तनाम ध्येयं स्वान्ते निर्मलं दत्तधाम । नेयं ह्यायुर्दत्तभक्तान्तिके भोः पेयं कर्णैर्दंत्तलीलामृतं सत् ॥७९॥
भ्रष्टं ज्ञानं कर्ममार्गो विनष्टो भक्तिः षड्गुर्योगमार्गोऽपि गूढः । शिष्या लुब्धा देशिकाः स्वार्थसारास्तिव्ये त्वेकं तारकं दत्तनाम ॥८०॥
यज्ञानां भो नामयज्ञोऽस्मि पार्थ गीताप्येवं वक्ति नामप्रभावम् । त्यक्त्वा दूरे सर्वमन्यद्ध्यसारं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥८१॥
देयं दानंदीननारायणेषु धेयं शीर्षं भक्तपदाम्बुजेषु । ख्येयो दत्तः साधुवृन्दानुगेषु श्वासे श्वासे दत्तनाम स्मरात्मन् ॥८२॥
मार्गे मार्गे निर्मलं साधुवृन्दं वृन्दे वृन्दे दत्तनामानुघोषः । घोषे घोषे पातकानां प्रणशो नाह्से नाशे मुत्किजम्बुप्रसादः ॥८३॥
मार्गे मार्गे वित्तदारानुदासा दासे दासे काञ्चनस्त्रीविवादाः । वादे वादे वर्धते वैरवह्नि र्वाह्नै वह्नौ दह्यते स्नेहतन्तुः ॥८४॥
यो यो यद्यात्प्रार्थयेतान्धभक्तस्तस्यास्ते तत्संशयो । नैव चात्र भक्ता भक्तिं कामिनः काममेव लब्ध्वा सौख्यं दुःखमेवानुयन्ति ॥८५॥
मा गा बन्धो दत्तमेकं विहाय ह्यनुत्रात्मन् सौख्यलेशोऽपि नो ते । त्यक्त्वा स्रोतो ध्यायते किं मृगाम्बु श्वासे श्वासे दत्तनाम स्मरात्मन् ॥८६॥
हित्त्वा त्वच्छं मानस कं यथाऽसौ गच्छेत्काकः पल्वलं पापराशिः । मूर्खोऽप्येवं स्वात्मासौख्यं विहाय धावेद्दीनो वित्तदारादिगर्ते ॥८७॥
विद्यादर्पं वित्तगर्वं विहाय प्रह्नो सत्पदाब्जं प्रयाहि । पापान्युक्त्वाऽऽशीःप्रसादं ह्यवाप्य तप्तस्वान्तं दत्तनाम् स्मरात्मन् ॥८८॥
वेदा मूका नेति ब्रुवन्ति देवाः सर्वे दत्तमेवाविशन्ति । शेषो भग्नः का कथा त्वदृशानां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥८९॥
दत्तस्त्वेको मङ्गलं मङ्गलानां दत्तस्त्वेकः सुन्दरः सुन्दराणाम् । दत्तस्त्वेकः कामदः कामादानां श्वासे श्वासे दत्तनाम स्मरात्मन् ॥९०॥
आदौ दत्तो मध्यम एवापि दत्तो दत्ते ह्यन्ते सर्वदा दत्त एव । अन्यत्सर्वं नश्वरं विद्धि लोके श्वासे श्वासे दत्तनाम स्मरात्मन् ॥९१॥
विद्याघ्राद्या दत्तमेव स्तुवन्ति गन्धंर्वाद्या दत्तमेकं गृणन्ति । नागाद्यास्ते दत्त्मेकं नमन्ति श्वासे श्वासे दत्तनाम स्मरात्मन् ॥९२॥
श्रेष्ठो दत्तो दत्त एकः कनिष्ठो भिक्षुर्दत्तः कर्मकारोऽपि दत्तः । बालो दत्तः स्त्री पुमानेष दत्तः सर्वों दत्तं सर्वरूपस्त्वरूपः ॥९३॥
दण्डी दत्तो दत्त एवास्त्यदण्डो मुण्डि दत्तो बद्धमौलिस्तु दत्तः । ज्ञानी दत्तो मुर्खराजोऽपि दत्तः सर्वो दत्तः सर्वरूपस्त्वरूपः ॥९४॥
चण्डो दत्तः शान्तरूपोऽपि दत्तः पापी दत्तः पुण्यरूपोऽपि दत्तः । चोरो दत्तो दानशूरोऽपि दत्तः सर्वो दत्तः सर्वरूपस्त्वरूपः ॥९५॥
रोगी दत्ते रोगमुक्तोऽपि दत्तो भोगी दत्तो भोगमुक्तोऽपि दत्तः । त्यागी दत्तः संग्रही दत्त एव सर्वो दत्तः सर्वरूपस्त्वरूपः ॥९६॥
रागी दत्तो रागभुक्तोऽपि दत्तः सङ्गी दत्तः सङ्गमुक्तोऽपि दत्तः । वर्णी दत्तो वर्णमुक्तोऽपि दत्तः सर्वो दत्तः सर्वरूपस्त्वरूपः ॥९७॥
राजा दत्तो भिक्षमाणोऽपि दत्तः स्वामी दत्तो दीनदासोऽपि दत्तः । मौनी दत्तो वाग्वदान्योऽपि दत्तः सर्वो दत्तः सर्वरूपस्त्वरूपः ॥९८॥
उत्तिष्ठात्मन मोहनिद्रां जहीहि दत्तं देवं स्वात्मसूर्यं स्तुवीहि । त्यक्त्वा सर्वं तस्य सेवां विधेहि भित्त्वा मायां मायिनं शिघ्रमेहि ॥९९॥
देवो दत्तो मर्त्यजन्माऽपि दत्तस्तिर्यङ् दत्तः कीटकीटोऽपि दत्तः । स्थाणुर्दत्तो जङ्गमो दत्त एव सर्वो दत्तः सर्वरूपस्तवरूपः ॥१००॥
मायातीतो बद्धमायो विमायो जन्मातीतो जन्मदाता त्वजन्मा । कर्तांऽकर्तां जीवनं जीवहर्ता सर्वो दत्तः सर्वरूपस्त्वरूपः ॥१०१॥
नष्टा वेला प्राप्यते नो पुनः सा क्शीणं चायुः कालसामीप्यमेव । कण्ठे भूषा भ्रम्यते किं वृथाऽन्धं श्वासे श्वासे दत्तनाम स्मरात्मन् ॥१०२॥
ज्ञानं भक्तिः कर्मयोगश्च योगः सर्वेऽप्येते दत्तधाम्नि प्रलीनाः । दत्तस्कन्धे सर्वशाखा मिलन्ति मूलं तस्माद्दत्तनाम स्मरात्मन् ॥१०३॥
मूलं सिक्ते स्कन्धशाखाश्च तृप्ता धर्मे स्निग्धं स्वादुजम्बूं ददन्ते । शाखोत्पातं मा प्रसूनं प्रभङ्ग्धि मूलोत्सेकं त्वाफलं मा जहीहि ॥१०४॥
पायाद्देवो दीनबन्धुः समस्तान् देयान्मुक्तिं भुक्तिमेवापि मुक्त्यै । सर्वे सौख्यं प्राप्नुवन्तु प्रकृष्टं दुःखं नाल्पं निर्भयाः सन्तु सर्वे ॥१०५॥
धन्यास्ते ये दत्तमेवानुयन्ति धन्यास्ते ये दत्तमेकं भजन्ति । धन्यास्ते य दत्तमेकं स्तुवन्ति धन्यास्ते ये दत्तमेवाविशन्ति ॥१०६॥
नेत्रे दत्तं पश्यतं प्राणिमात्रे खे श्रूयन्तां दत्तशब्दाः समन्तात् । जिह्वे भद्रे दत्तकीर्तिं स्तुवीहि पादौ बन्धू दत्तपादं प्रयातम् ॥१०७॥
मूढो ‘ रर्ङ्गा ’ रङ्गामायाविबद्धो रङ्गातीतं दत्तमेव प्रपन्नः । रङ्गे रागद्वेषशोकप्रपूर्णे छित्त्वा रङ्गं दत्तरंङ्ग विलीनः ॥१०८॥
॥ इति श्रीदत्तपादारविन्दमिलिन्दब्रह्मचारिपाण्डुरङ्ग ( रङ्ग अवधूत ) महाराज विरचितं दत्तनामस्मरणस्तोत्रं सम्पूर्णम् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-03-16T20:00:20.1430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मेमाणें

  • अ.क्रि. मेंमें करीत ओरडणें . दोनी एडके चोर नेती । मध्यरातीं मेमात । - एभा २६ . ६८ . [ ध्व . ] 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.