श्रीजाबालदर्शनोपनिषत् - दशमः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः परजीवकैतां प्रति ॥१॥
नित्यः सर्वगतौ ह्यात्मा कूटस्थो दोषवर्जितः । एकः सन्मिद्यते भ्रान्त्या मायया न स्वरूपतः ॥२॥
तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥३॥
तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि ॥४॥
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥५॥
साहं ब्रह्म न संसारी न मत्तोन्यः कदाचन । यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥६॥
समुद्रे लीयते तद्वज्जगन्मय्यनुलीय्यते । तस्मान्मनः पृथङ्नास्ति जगन्माया च नास्ति हि ॥७॥
यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥८॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥९॥
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥१०॥
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाऽसौ तदा भवति केवलः ॥११॥
यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्त्रं जगत्कृत्स्नं तदा भवति निर्वृत्तिः ॥१२॥
एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः । सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥१३॥
इति दशमः खण्डः ॥१०॥
॥ ॐ आप्यायन्विति शान्तिः ॥हरिः ॐ तत्सत् ॥

॥ इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : January 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP