श्रीजाबालदर्शनोपनिषत् - अष्टमः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत । देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥१॥
प्राणे बाह्मानिलं तद्वज्जलने चाग्निमौदरे । तोयं तोयांशके भूमिं भूमिमागे महामुने ॥२॥
हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् । धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥३॥
जान्वतं पृथिवी ह्यंशो ह्यपां पाथ्वन्तमुच्यते । हृदयांशस्थाताग्न्यंशो भ्रूमध्यान्तोऽ‍निलांशकः ॥४॥
आकाशांशस्तथा प्राज्ञ मोरोधाशं परिकीर्तितः । ब्रह्माणं पृथिवीभागे विष्णु तोयांशके तथा ॥५॥
अग्न्यंशे च महेशानमीश्वरं चालिलांशके । आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥६॥
अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव । पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥७॥
धारयेद् बुद्धिमान्नित्यं सर्वपापविशुद्धये । ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥८॥
सर्वकारणमव्यतमनिरूप्यमचेतनम् । साक्षादात्मनि संपूर्णे धारयेत्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥९॥
इत्यष्टमः खण्डः ॥८॥

N/A

References : N/A
Last Updated : January 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP