श्रीजाबालदर्शनोपनिषत् - षष्ठः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


प्राणायामक्रमं वक्ष्ये सांकृते श्रृणु सादरम् । प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥१॥
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥२॥
इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥३॥
पूरितं धारयेत्पश्चाच्चतुःषष्ठ्या तु मात्रया । उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥४॥
यावद्वा शक्यते तावद्धारयेज्जपतत्परः । पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥५॥
शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामी भवेदेवं ततश्चैवं समभ्यसेत् ॥६॥
पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा । अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥७॥
धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी । उकारमूर्ति स ध्यायंश्चतुःषष्ठ्या तु मात्रया ॥८॥
मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् । एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥९॥
एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर । एवमभ्यासता नित्यं षण्मासाद्यत्रवान्भवेत् ॥१०॥
वत्सराद्ब्रह्माविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् । योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥११॥
प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ।  बाह्यादापूरणं वायोरुदरे पूरको हि सः ॥१२॥
संपूर्णकुम्भ - वद्वायोर्धारणं कुम्भको भवेत् । बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः ॥१३॥
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ॥१४॥
पूर्वपूर्व प्रकुर्वीत यावदुत्थानसंभवः । संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥१५॥
प्राणायामेन चित्तं तु शुद्धं विति सुव्रत । चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥१६॥
प्राणश्चितेन संयुक्तः परमात्मनि तिष्ठति । प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥१७॥
देहश्चोत्तिष्ठते तेन किंचि - ज्ज्ञानाद्विमुक्तता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥१८॥
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्नोति पलितादि च नश्यति ॥१९॥
प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् । तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥२०॥
विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत । संध्यायोब्रह्मिकालेऽपि मध्यान्हे वाथवा सदा ॥२१॥
बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥२२॥
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः । नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥२३॥
सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् । शरीरलघुता विप्र पादाङ् - गुष्ठनिरोधनात् ॥२४॥
जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥२५॥
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥२६॥
इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥२७॥
इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च । नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥२८॥
मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । अमृतं च पिबेन्नाभौ मन्दं मन्दं निरोधयेत् ॥२९॥
वातजाः पित्तजा दोषा नश्यत्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥३०॥
नेत्ररोगा विनश्येन्ति तया श्रोत्रनिरोधनात् । तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥३१॥
शिरोरोगा विनश्यन्ति सत्य मुक्तं हि सांकृते । स्वतिकासनमास्थाय समाहितमनास्तथा ॥३२॥
अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्करणादिकरणानि च ॥३३॥
अङ्गुष्ठाभ्यां मुने श्रोते तर्जनीभ्यां तु चक्षुषी । नासापुटावधानाभ्यां प्रच्छाद्य कारणानि वै ॥३४॥
आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् । प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥३५॥
ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ । शंखध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥३६॥
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् ॥३७॥
पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिन्ह्नुतिः । दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥३८॥
सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः । जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥३९॥
विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥४०॥
प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥४१॥
निरुध्य वायुना दीप्तो वन्हिनरूहति कुण्डलीम् । पुनः सुषुम्नया वायुर्वन्हिना सह गच्छति ॥४२॥
एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् । प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥४३॥
उत्थानं च शरीरस्य चिन्हमेतज्जितेऽनिले । एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥४४॥
भगन्दरं च नष्टे स्यात्सर्वरोगाश्च सांकृते । पातकानि विनश्यत्नि क्षुद्राणि च महान्ति च ॥४५॥
नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् । पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ॥४६॥
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥४७॥
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥४८॥
ज्ञानस्वरूपमे बाहुर्जगदेतद्विलक्षणम् । अर्थस्वरूपज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥४९॥
आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः । क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥५०॥
रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् । तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥५१॥
इति षष्ठः खण्डः ॥६॥

N/A

References : N/A
Last Updated : January 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP