TransLiteral Foundation

श्रीजाबालदर्शनोपनिषत् - चतुर्थः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


चतुर्थः खण्डः
शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् । देहमध्ये शिखिस्थानं तप्तजाम्बूदप्रभम् ॥१॥
त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते । गुदात्तु व्द्यङ्गलादूर्ध्वं मेढ्रात्तु व्द्यङ्गुलादधः ॥२॥
देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते । कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥३॥
चतुरङ्गुलमाया - मविस्तारं मुनिपुङ्गव । कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥४॥
तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव । कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ॥५॥
तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥६॥
सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती । पूषा च वरुणा चैव हस्तिजिव्हा यशस्विनी ॥७॥
अलम्बुसा कुहूश्चैव विश्वोदरि तपस्विनी । शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥८॥
आसां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा । ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥९॥
पृष्ठमध्यस्थितेनास्थ्ना वीणादण्डेन सुव्रत । सह मस्तक पर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥१०॥
नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥११॥
यथावद्वायचेष्टां च जलान्नादीनि नित्यशः परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ॥१२॥
स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने । सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ॥१३॥
सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते । गान्धाराहस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥१४॥
पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥१५॥
यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता । पूषायाश्च सर्स्वत्या मध्ये प्रोक्ता यशस्विनी ॥१६॥
गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी । अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥१७॥
पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः । अधश्चोर्घ्व स्थिता नाडी याम्यनासान्तमिष्यते ॥१८॥
इडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव । यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ॥१९॥
पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः । पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥२०॥
सरस्वती तया चोर्ध्वगता जिव्हा तथा मुने । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥२१॥
शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते । गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ॥२२॥
विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता । प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२३॥
नागः कूर्मश्च कृकरी देवदत्ता धनंजयः । एते नाडीषु सर्वासु चरन्ति दश वायवः ॥२४॥
तेषु प्राणादयः पञ्च मुख्यः पञ्चसु सुव्रत । प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ॥२५॥
आस्यनासिकयोर्मध्ये नाभिम्नध्ये तथा हृदि । प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥२६॥
अपानो वर्तते नित्यं गुदमध्योरुजानुषु । उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥२७॥
व्यानः श्रोत्राक्षिमध्ये च ककुद्भ्यां गुल्फयोरपि । प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव ॥२८॥
उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि । समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ॥२९॥
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥३०॥
अपानाख्यस्य वायोस्तु विष्मूत्रादिविसर्जनम् । समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥३१॥
उदान ऊर्ध्वगमनं करोत्येव न संशयः । व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः ॥३२॥
उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने । धनंजयस्य शोभादि कम प्रोक्तं हि सांकृते ॥३३॥
निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥३४॥
सुषुम्नायाः शिवो देव इडाया देवता हरिः । पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने ॥३५॥
पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥३६॥
यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा । अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ॥३७॥
कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता । शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः ॥३८॥
विश्वोदराभिधायास्तु भगवान्पावकः पतिः । इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥३९॥
पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर । पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥४०॥
तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंकरमणं मुने ॥४१॥
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः । इडाफिङ्गलयोः संधिं यदा प्राण समागतः ॥४२॥
अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधार यदा प्राणः प्रविष्टः पण्डितोत्तम ॥४३॥
तदाद्यं विषुवं प्रोक्तं तापसैस्तापसोत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥४४॥
तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः । निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥४५॥
इडायाः कुण्डलीस्थानं यदा प्राणः समागतः । सोमग्रहणमित्युक्तं तदा तत्त्वविदां वद ॥४६॥
यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः । तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव ॥४७॥
श्रीपर्वतं शिरः स्थाने केदारं तु ललाटके । वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥४८॥
कुरुक्षेत्रं कुचस्थानें प्रयागं हृत्सरोरुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥४९॥
आत्मतीर्थ समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् । करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ॥५०॥
भावतीर्थ परं तीर्थं प्रमाणं सर्वकर्मसु । अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥५१॥
तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥५२॥
बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने । आत्मतीर्थ महातीर्थमन्यतीर्थ निरर्थकम् ॥५३॥
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति । शतशोऽपि जलेर्धौतं सुराभाण्डमिवाशुचि ॥५४॥
विषुवायनकालेषु ग्रहणे चान्तरे सदा । वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥५५॥
ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् । भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥५६॥
तीर्थे दाने जपे यज्ञे काष्ठे पाषानके सदा । शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ॥५७॥
अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते । हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्पर - मात्मनः ॥५८॥
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥५९॥
अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् । प्रज्ञान -  घनमानन्दं यः पश्यति स पश्यति ॥६०॥
नाडीपुञ्ज सदा सारं नरभावं महामुने । समुत्सृजात्मनात्मानमहमित्येव धारय ॥६१॥
अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आनंदमक्षरं साक्षान्मत्वा धीरो न शोचति ॥६२॥
विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने । आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥६३॥
इति चतुर्थः खण्डः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-20T23:16:19.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झाड जावो पण हाड न जावो

  • नुकसान सोसावे पण धर्मत्‍याग करूं नये. वंशातील एखादा मनुष्‍य मरण पावला तरी हरकत नाही. पण बाटल्‍यामुळे सर्व वंशच बिघडणार तसे होणें अनिष्‍ट आहे. याकरितां मरण पतकरावे पण परधर्मात जाऊं नये. स्‍वधर्मे निधनं श्रेयः। 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.