सिद्धसिद्धान्तपद्धतिः - तृतीयोपदेशः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


अथ पिण्ड - संवित्तिः कथ्यते ।
पिण्डमध्ये चराचरौ यो जानाति
स योगी पिण्ड - संवित्तिर्भवति ॥१॥
कूर्मः पादतले वसति पातालं पादाङ्गुष्ठे तलातलमङ्गुष्ठाग्रे
महातलं पृष्ठे रसातलं गुल्फे सुतलं जङ्घायां वितलं जान्वोः
अतलमुर्वोरेवं सप्तपातालं रुद्रदेवताधिपत्ये तिष्ठति
पिण्डमध्ये क्रोधरूपी भावः स एव कालाग्निरुद्रः ॥२॥
भूर्लोकं गुह्यस्थाने भुवर्लोकं लिङ्गस्थाने स्वर्लोकं नाभिस्थाने
एवं लोकत्रये इन्द्रो देवता पिण्डमध्ये सर्वेन्द्रियनियामकः
स एवेन्द्रः ॥३॥
दण्डाङ्कुरे महर्लोकः दण्डकुहरे जनो लोकः दण्डनाले तपो
लोकः मूलकमले सत्यलोकः एवं लोकचतुष्ट्ये ब्रह्मादि -
देवता पिण्डमध्ये अनेकमानाभिमानस्वरूपी तिष्ठाति ॥४॥
विष्णुलोकः कुक्षौ तिष्ठति तत्र विष्णुर्देवता पिण्डमध्येsनेक -
व्यापारकरको भवति । हृदये रुद्रलोकः तत्र रुद्रो देवता
पिण्डमध्ये उग्रस्वरूपी तिष्ठति । वक्षःस्थले ईश्वरलोकः
तत्र ईश्वरो देवता पिण्डमध्ये तृप्तिस्वरूपी तिष्ठति । कण्ठमध्ये
नीलकण्ठो लोकस्तत्र नीलकण्ठो देवता पिण्डमध्ये नित्यं
तिष्ठति । तालुद्वारे शिवलोकस्तत्र शिवो देवता पिण्डमध्येs
नुपमस्वरूपी तिष्ठति । लम्बिकामूले भैरवलोकस्तत्र
भैरवो देवता पिण्डमध्ये सर्वोत्तमस्वरूपी तिष्ठति ॥ ललाट -
मध्येsनादिलोकस्तत्रानादि - देवता पिण्डमध्ये आनन्दपरा -
हन्तास्वरूपी तिष्ठति ॥ श्रृङ्गारे कुललोकस्तत्र कुलेश्वरो
देवता पिण्डमध्ये आनंदस्वरूपी तिष्टति । शंखमध्ये नलिनीस्थाने
अकुलेश्वरो देवता पिण्डमध्ये निरभिमानावस्था तिष्ठति । ब्रह्मरन्ध्रे
परब्रह्म - लोकस्तत्र परब्रह्म देवता पिण्डमध्ये परिपूर्णदशा
तिष्ठति । ऊर्ध्वकमले परापर - लोकस्तत्र परमेश्वरो देवता
पिण्डमध्ये परापरभावस्तिष्ठति । त्रिकूटस्थाने शक्तिलोक -
स्तत्र पराशक्तिर्देवता सर्वासां सर्व - कर्तृत्वावस्था तिष्ठति ।
एवं पिण्डमध्ये सप्तपातालसहितैकविंशतिब्रह्माण्ड -
स्थान - विचारः ॥५॥
सदाचारतत्त्वे ब्राह्मणाः वसन्ति शौर्ये क्षत्रियाःव्यवसाये
वैश्याः सेवाभावे शूद्राश्चतुषष्टिकलास्वपि चतुःषष्टिवर्णाः ॥६॥
अथसप्त समुद्राः सप्त द्वीपाः कथ्यन्ते ।
मज्जायां जम्बूद्वीपः अस्थिषु शक्तिद्वीपः
शिरासु सूक्षद्वीपः त्वक्षु क्रौञ्चद्वीपः
रोमसु गोमयद्वीपः नखेषु श्वेतद्वीपः मांसे ( अस्थिनि ) प्लक्ष -
द्वीपः एवं सप्तद्वीपाः ॥७॥
मूत्रे क्षार - समुद्रः लालायां क्षीर - समुद्रः कफे दधि -
समुद्रः मेदसि धृत - समुद्रः वसायां मधु - समुद्रः रक्ते
इक्षु - समुद्रः शुक्रेsमृत - समुद्रः एवं सप्तसमुद्राः ॥८॥
नवखण्डाः नव द्वारेषु वसन्ति । भारतखण्डः काश्मीरखण्डः
करैर्परखण्डः श्रीखण्डः शंखखण्डः एकपादखण्डः
गान्धारखण्डः कैवर्तकखण्डः महामेरुखण्डः एवं नवखण्डाः ॥९॥
मेरुपर्वतो मेरुखण्डे वसति कैलासो ब्रह्मकपाटे वसति
हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे
विन्ध्यो दक्षिणकर्णे मैनाकः वामकर्णे श्री-पर्वतो ललाटे
एवमष्ट कुलपर्वताः अन्ये उपपर्वताः सर्वाङ्गुलिषु वसन्ति ॥१०॥
पीनसा गंगा यमुना चन्द्रभागा सरस्वती । पिपासा शतरुद्रा
च श्रीरात्रिश्चैव नर्मदा एवं नव नद्यो नवनाडीसु वसन्ति ॥११॥
अन्या उपनद्यः कुल्योपकुल्याः द्विसप्तति - सहस्त्र - नाडीसु वसन्ति ॥१२॥
सप्तविंशति नक्षत्राणि द्वादश राशयः नव ग्रहाः पञ्च -
दश तिथयः एते अन्तर्वलये द्विसप्तति - सहस्र - स्वहस्त - कोष्ठेषु
वसन्ति । अनेकतारामण्डलं ऊर्मिषु वसन्ति । न्रयस्रिंशत् - कोटि -
देवता बाहुरोमकूपेषु वसन्ति । अनेकपीठोपपीठकाः रोम -
कूपेषु वसन्ति । देवदानव - यक्ष - राक्षस - पिशाच - भूतप्रेताः
अस्थिसन्धिषु वसन्ति । कुलनागा वक्षसि वसन्ति ।
अन्ये सनकादिमुनिसंधाः कक्षरोमकूपेषु वसन्ति ।
अन्ये पर्वता उदर - लोमसु वसन्ति । गन्धर्व - किन्नर -
किंपुरुषा अप्सरसो गणा उदरे वसन्ति । अन्याः खेचरी - लीला -
मातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति । अनेकमेघाः
अश्रुपाते वसन्ति । अनेकतीर्थानि मर्मस्थाने वसन्ति । अनन्तसिद्धाः
मतिप्रकाशे वसन्ति । चन्द्रसूर्यौ नेत्रद्वये वसतः । अनेक - वृक्षलता -
गुल्मतृणानि जंघारोमककूपस्थाने वसन्ति । अनेककृमिकीटपतङ्गाः
पुरीषे वसन्ति ॥१३॥
यत्सुखं तत्स्वर्गं यद्दुःखं तन्नरकं यत्कर्म तद्बंधनं यन्निर्वि -
कल्पं तन्मुक्तिः स्वस्वरूपदशायां निद्रादौ स्वात्मजागरः
शान्तिर्भवति । एवं सर्वदेहेषु विश्वस्वरूपः परमेश्वरः
परमात्मा अखण्डस्वभावेन घटे घटे चित्स्वरूपी तिष्ठति ।
एवं पिण्डसंवित्तिर्भवति ॥१४॥
॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डसंवित्ति र्नाम तृतीयोपदेशः ॥३॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP