सिद्धसिद्धान्तपद्धतिः - प्रथमोपदेशः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


॥ श्रीगणेशाय नमः ॥

आदिनाथं नमस्कृत्य शक्तियुक्त जगद्गुरुम् ।
वक्ष्ये गोरक्षनाथोsहं सिद्धसिद्धान्तपद्धतिम् ॥१॥
नास्ति सत्यविचारेsस्मिन्नुत्पत्तिश्चाण्डपिण्डयोः ।
तथापि लोकवृत्त्यर्थं वक्षे सत्सम्प्रदायतः ॥२॥
सा पिण्डोत्पत्त्यादिः सिद्धमते सम्यक् प्रसिद्धा ।
पिण्डोत्पत्तिः पिण्डविचारः पिण्डसंवित्तिः
पिण्डाधारः पिण्डपदसमरसभावः श्रीनित्यपिण्डावधूतः ॥३॥
यदा नास्ति स्वयंकर्ता कारणं न कुलाकुलम् ।
अव्यक्तं च परं ब्रह्म अनामा विद्यते तदा ॥४॥
अनामेति स्वयंमनादि सिद्धमेकमेवानादिनिधनं
सिद्धसिद्धान्तप्रसिद्धं तस्येच्छामात्रधर्माधर्मिणी
जिजा शक्तिः प्रसिद्धा ॥५॥
तस्या उन्मुखमात्रेण परा शक्तिरुत्थिता ।
तस्यास्स्पन्दनमात्रेण अपरा शक्तिरुत्थिता ॥६॥
ततोsहन्तार्धमात्रेण सूक्ष्मशक्तिरुत्पन्ना ।
ततो वेदनशीला कुण्डलिनी शक्तिरुद्गता ॥७॥
नित्यता निरञ्जनता निस्पन्दता निराभासता ।
निरुत्थानता इति पञ्चगुणा निजा शक्तिः ॥८॥
अस्तिता अप्रमेयता अभिन्नता अनन्तरता ।
अव्यक्तता इति पञ्जगुणा परा शक्तिः ॥९॥
स्फुरत्ता स्फुटता स्फारता स्फोटता स्फूर्तिता ।
इति पञ्चगुणा अपरा शक्तिः ॥१०॥
निरंशता निरन्तरता निश्चलता निश्चयता ।
निर्विकल्पता इति पञ्चगुणा सूक्ष्मा शक्तिः ॥११॥
पूर्णता प्रतिबिम्बता प्रबलता प्रोच्चलता ।
प्रत्यड्मुखता इति पञ्चगुणा कुण्डलिनी शक्तिः ॥१२॥
एवं शक्तितत्वे पञ्च - पञ्च - गुण - योगात्परपिण्डोत्पत्तिः ॥१३॥
उक्तञ्च :-
निजा पराsपरा सूक्ष्मा कुण्डली तासु पञ्चधा ।
शक्तिचक्रक्रमेणोत्था जातः पिण्डः परः शिवः ॥१४॥
अपरम्परं परमं पदं शून्यं निरञ्जनं परमात्मेति ।
अपरम्परात्स्फुरत्ता - मात्रमुत्पन्नं परमपदत्भावना -
मात्रमुत्पन्नम् शून्यात्स्वसत्तामात्रमुत्पन्नं निरञ्जनास्त्व -
साक्षात्कारमुत्पन्नं परमात्मनः परमात्मोत्पन्नः ॥१५॥
अकलङ्कत्वमनुपमत्वमपारत्वममूर्तत्वमनुदयत्वमिति
पञ्चगुणमपरम्परम् ॥१६॥
निष्कलत्वमणुतरत्वमचलत्वमसंख्यत्वमपारत्वमिति
पञ्चगुणं परमं पदम् ॥१७॥
लीलता पूर्णता उन्मनी लोलता मूर्च्छता इति पञ्चगुणं
शून्यम् ॥१८॥
सत्यत्वं सहजत्वं समरसत्वं सावधानत्वं सर्वगत्वमिति
पञ्चगुणं निरञ्जनम् ॥१९॥
अक्षय्यत्वमभेद्यत्वमछेद्यत्वमदाह्यत्वमविनाशित्वमितिपञ्चगुणो
परमात्मेति अनाद्यपिण्डस्य पञ्चतत्वपञ्चविंशतिगुणाः ॥२०॥
उत्कञ्च :-
अपरम्परं परमपदं शून्यं निरञ्जनं परमात्मनः
पञ्चभिरेतैः सगुनैरनाद्यपिण्डः समुत्पन्नः ॥२१॥
अनाद्यात्परमानन्दः परमानन्दात्प्रबोधः प्रबोधाच्चिदुदयः
चिदुदयात्प्रकांशः प्रकाशात्सोsहम्भावः ॥२२॥
स्पन्दः हर्षः उत्साहः निःस्पन्द नित्यसुखत्वमिति
पञ्चगुणः परमानन्दः ॥२३॥
उदयः उल्लासः अवभासः विकासः प्रभा इति पञ्चगुणः
प्रबोधः ॥२४॥
सद्भावः विचारः कर्तृत्वं ज्ञातृत्वं स्वतन्त्रत्वमिति पञ्चगुणः
चिदुदयः ॥२५॥
निर्विकारत्वं निष्कलत्वं निर्विकल्पत्वं समता विश्रान्तिः
इति पञ्चगुणः प्रकाशः ॥२६॥
अहन्ता सखण्डैश्वर्यं स्वात्मता विश्वानुभवसामर्थ्यं
सर्वज्ञत्वमिति पञ्चगुणः सोsहम्भाव्ह ॥२७॥
इति आद्यपिण्डस्य पञ्चतत्वं पञ्चविंशतिगुणाः ॥२८॥
उक्तञ्च :-
परमानन्दः प्रबोधः चिदुदयः चित्प्रकाशः ।
सोहम्भाव इत्यन्तः आद्यपिण्डो महातत्त्वगुणयुक्तः समुत्थितः ॥२९॥
आद्यान्महाकाशः महाकाशान्महावायुः महावायोर्महातेजः ।
महातेजसो महासलिलं महासलिलान्महापृथ्वी ॥३०॥
अवकाशः अच्छिद्रमस्पृशत्वं नीलवर्णत्वं
शब्दवत्त्वमिति पञ्चगुणॊ महाकाशः ॥३१॥
सञ्चारः सञ्चालनं स्पर्शनं शोषणं ध्रूम्रवर्णत्वमिति
पञ्चगुणो महावायुः ॥३२॥
दाहकत्वं पाचकत्वमुष्णत्वं प्रकाशत्वं रक्तवर्णत्वमिति
पञ्चगुणं महातेजः ॥३३॥
प्रवाहः आप्यायनं द्रवः रसः श्वेतवर्णत्वमिति
पञ्चगुणं महासलिलं ॥३४॥
स्थूलता नानाकारता काठिन्यं गंधः पीतवर्णत्वमिति पञ्चगुणा
महापृथ्वी इति महासाकारपिण्डस्य पञ्चतत्त्वं
पञ्चविंशतिगुणाः ॥३५॥
स एव शिवः शिवाद्भैरवो भैरवात् श्रीकण्ठः श्रीकण्ठा -
त्सदाशिवः सदाशिवादीश्वरः ईश्वराद्रुद्रो रुद्राद्विष्णु -
र्विष्णोर्ब्रह्मा इति महासाकारपिण्डस्य मूर्त्यष्टकम् ॥३६॥
तत्तद्ब्रह्मणः सकाशादवलोकनेन नरनारीरूपः प्रकृतिपिण्डः
समुत्पन्नस्तच्च पञ्चपञ्चात्मकं शरीरमिति ॥३७॥
अस्थि - मांस - त्वक् - नाडी - रोमाणि इति पञ्चगुणा भूमिः ॥३८॥
लाला मूत्रं शुक्रं शोणितं स्वेद इति पञ्चगुणा आपः ॥३९॥
क्षुधा तृषा निद्रा क्लान्तिरालस्यमिति पञ्चगुणं तेजः ॥४०॥
धावनं प्लवनं प्रसारणमाकुञ्चनं निरोधनमिति पञ्चगुणो वायुः ॥४१॥
रागो द्वेषो भयं लज्जा मोह इति पञ्चगुण आकाशः
इति पञ्चविंशतिगुणानां भूतानां प्रकृतिपिण्डः ॥४२॥
मनोबुद्धिरहङ्कारश्चित्तं चैतन्यमित्यन्तःकरणपञ्चकम् ॥४३॥
संकल्पः विकल्पः मूर्च्छा जडता मननमिति पञ्चगुणं मनः ॥४४॥
विवेको वैराग्यं शान्तिः सन्तोषः क्षमा इति पञ्चगुणा बुद्धिः ॥४५॥
अभिमानं मदीयं मम सुखं मम दुःखं ममेदमितिपञ्चगुणोsहंकारः ॥४६॥
मतिर्धृतिः स्मृतिस्त्यागः स्वीकारः इति पञ्चगुणं चित्तम् ॥४७॥
विमर्शः तच्छीलनं धैर्यं चिन्तनं निःस्पृहत्वमिति पञ्चगुणं
चैतन्यम् - एवं अन्तःकरणगुणाः ॥४८॥
सत्वं रजस्तमः कालो जीव इति कुलपञ्चकम् ॥४९॥
दया धर्मः कृपा भक्तिः श्रद्धेति पञ्चगुणं सत्त्वम् ॥५०॥
दान भोगः श्रृङ्गारः वस्तुग्रहणं स्वार्थमिति पञ्चगुणं रजः ॥५१॥
विवादः शोकः कलहः बंधः पञ्चनमिति पञ्चगुणं तमः ॥५२॥
कलना कल्पना भ्रान्तिः प्रमादोsनर्थ इति पञ्चगुणः कालः ॥५३॥
जाग्रत् स्वप्नः सुषुप्तिस्तुर्यं तूर्यातीतमिति पञ्चावस्थागुणोजीवः ॥५४॥
इच्छा क्रिया माया प्रकृति र्वाक् इति व्यक्तिशक्तिपञ्चकम् ॥५५॥
उन्मादो वासना वाञ्छा चिन्ता चेष्टेति पञ्चगुणा इच्छा ॥५६॥
स्मरणमुद्योगः कार्यं निश्चयः स्वकुलाचार इति पञ्चगुणा क्रिया ॥५७॥
मदो मात्सर्यं दम्भः कृत्रिमत्वं असत्यमिति पञ्चगुणा माया ॥५८॥
आशा तृष्णा स्पृहाकांक्षा मिथ्या इति पञ्चगुणा प्रकृतिः ॥५९॥
परा पश्यन्ती मध्यमा वैखरी मातृक इति पञ्चगुणा वाक्
इति पञ्चगुणा व्यक्तिशक्तिः पञ्चविंशतिगुणा ॥६०॥
कर्म कामश्चन्द्रः सूर्यः अग्निरिति प्रत्यक्षकरणपञ्चकम् ॥६१॥
शुभमशुभं यशः अपकीर्तिः अदृष्टफलसाधन -
मिति पञ्चगुणं कर्म ॥६२॥
रतिः प्रीतिः क्रीडा कामना आतुरता इति पञ्चगुणः कामः ॥६३॥
उल्लोलिनी कल्लोलिनी उच्चलन्ती उन्मादिनी तरंगिणी
शोषिणी अलम्पटा प्रवृत्तिः लहरी लोला लेलिहाना
प्रसरन्ती प्रवाहा सौम्या प्रसन्ना प्लवन्ती एवं चन्द्रस्य
षोडश कलाः सप्तदशी कला निवृत्तिः साsमृतकला ॥६४॥
तापिणी ग्रासिका उग्रा आकुंचिनी शोषिणी प्रबोधिनी स्मरा
आकर्षिणी तुष्टिवर्द्धिनी उर्मीरेखा किरणावती प्रभावतीति
द्वादश कलाः सूर्यस्य त्रयोदशी स्वप्रकाशता निजकला ॥६५॥
दीपिका राजिका ज्वलिनी विस्फुलिंगिनी प्रचण्डा पाचिका
रौद्री दाहिका रागिणी शिखावतीति अग्नेर्दश कलाः
एकादशी कला ज्योतिरिति प्रत्यक्षगुणकलासमूहः ॥६६॥
अथ नाडीनां दश द्वाराणि ॥
इडा पिङ्गला च नासाद्वारयोर्वहतः
सुषुम्ना तालुमार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति
सरस्वति मुखाद्वारेण वहति पूषाsलम्बुषा च चक्षुद्वार -
योर्वहतः गान्धारी हस्तिजिह्विका च कर्णद्वारयोर्वहतः
कुहूः गुदद्वारे वहति शंखिनी लिङ्गद्वारे वहति ( सा
दण्डमर्गेण ब्रह्मरन्ध्रपर्यन्तं वहति ) एव दशद्वारेषु
वहन्ति ( अन्या सर्वा नाड्यो रोमकूपेषु वहन्ति ॥६७॥
अथ दशा वायवः ॥
हृदये प्राणवायुः उच्छ्वास - निश्वास - कारको
हकार - सकारात्मकश्च । गुदे त्वपानवायुः रेचकः
कुम्भकश्च । नाभौ समानवायुः दीपकः पाचकश्च । कण्ठे
व्यानवायुः शोषणाप्यायनकारकश्च । तालौ उदानवायुः
ग्रसन - वमन - जल्पकारकश्च । नागवायुः सर्वाङ्गव्यापकः
मोचकश्चालकश्च । कूर्मवायुः चक्षुषोरुन्मेष - कारकश्च । कृशलः
उद्गारकश्च क्षुत्कारकश्च । देवदतो मुखे विजृम्भकः । धनञ्जयो नादो ।
घोषकः । इति दशवाय्वलोकनेन पिण्डोत्पत्तिः नरनारीरूपम् ॥६८॥
अथ गर्भोलिपिंडोत्पत्तिः ॥
नरनारीसंयोगे ऋतुकाले ॥६९॥
रजोबिन्दुसंयोगे सः जीवः
प्रथमदिने कललं भवति सप्तरात्रे बुद्बुदाकारं भवति ।
अर्धमासे गोलाकारं भवति मासमात्रे कठिनं भवति ।
मासद्वयेन शिरो भवति तृतीये मासि हस्तपादादिकं भवति ।
चतुर्थे मासि चक्षुकर्णादि - नासिका - मुखं मेढ्र भवन्ति ।
पञ्चमे मासि पृष्ठोदरौ भवतः षष्ठे मासि नखकेशादिकं भवति ।
सप्तमे मासि सर्वचेतनयुक्तो भवति अष्टमे मासि सर्वलक्षण -
संयुक्तो भवति नवमे मासि सत्यज्ञानगर्भसंयुक्तो भवति ।
दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति ॥७०॥
शुक्राधिक्ये पुरुषः रक्ताधिक्ये कन्या समशुक्ररक्ताभ्यां
नपुंसकः परस्पर - स्त्री - पुरुष - चिन्ता - व्याकुलत्वादन्धः कुब्जः
वामनः पङ्गुरङ्गहीनश्च भवति ॥७१॥
परस्परतिकाले अङ्गनिपीडनकरणगुणैः शुक्रं द्विस्त्रिवारं
पतति तेन द्वितीयो बालको भवति ॥७२॥
सार्द्धपलत्रयं शुक्रं विंशतिपलं रक्तं द्वादशपलं मेदः
दशपलं मज्जा शतपलं मांसं विशंतिपलं श्लेष्मा
तद्वत् वातं स्यात् षष्ट्यधिक - श्त - त्रयमस्थीनि अस्थिमात्रं
सन्धयः सार्द्धत्रय - कोटिरोमकूपाणि पितृमातृवीर्यं
भवति । वात - पित्त - श्लेष्मधातुत्रयसहितं दशघातुमयं शरीरंमिति
गर्भोलि पिण्डोत्पत्तिः ॥७३॥
इति गोरक्षनाथ-कृतौ सिद्धसिद्धान्तपद्धतौ पिण्डोत्पत्तिर्नाम प्रथमोपदेशः ॥१॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP