वृत्तिकारग्रन्थः

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


त्र्प्रथ वृत्तिकारग्रन्थः ।
आदिशब्दो मकारान्तो लुकि क्लेशेन संगतिः ।
नञध्याह्रियते सूत्रे ‘ संकरात् परिचोदना ॥१७॥
प्रमाणल्षणाsज्ञानादू व्यभिचारात्परीक्षणम् ’ ।
न तत्प्रत्यक्ष( १ )मित्येवमपरीक्षोपसंहृता ( २ ) ॥१८॥
तत्राsन्यस्याsयथार्थत्वं प्रत्यक्षे तु यथार्थता ।
यदाभासं हि विज्ञानं तत्संयोगे ततिष्यते ॥१९॥
सम्पूर्णं लक्षणं ह्येतत् तत्सतोर्व्यत्ययः कृतः ।
शोभनार्थस्तु सच्छब्दो यब्दाsध्याहारकल्पना ॥२०॥
अर्थापत्त्येतरेषां च प्रत्यक्षाssभासलक्षणम् ।
बाधकज्ञानलाभो हि पूर्वाsबाधे न सम्भवेत् ॥२१॥
स चाsस्तीत्येव बोधत्वे सति नाsन्योन्यसंश्रयम् ।
न चाsनागतबाधे च पूर्वेणात्मा हि लभ्यते ॥२२॥
निमित्तदोषभेदेन पश्चाद्यत्राप्यबाधनम् ।
भवत्येव हि तत्रापि नरान्तरविपर्ययः ॥२३॥
सर्वेषां सर्वदा यत्र धीः स्यात्तत्र न बाधनम् ।
न हि कारणदुष्टत्वबुद्धिस्तत्र बलीयसी ॥२४॥
जात्यादिषु यदा जाता बुद्धिः पश्चादसंभवात् ।
नाश्यते युक्तिभिस्तत्र व्यक्तमन्योन्यसंश्रयम् ॥२५॥
स्वतःप्रामाण्यतश्चात्र निर्णयोsस्तित्वबोधनात् ।
तद्रूपप्रत्ययोत्पत्तेस्तदसद्वादिनामपि ॥२६॥
वृत्तिकारग्रन्थः समाप्तः ॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP