शून्यवादः - श्लोक २६ ते ५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


किं हि तस्य भवेदूर्ध्वं; प्राक् च नासीत्, न येन तत् ।
पूंर्वं गृहीतं; पश्चाच्च गृहीतमिति भाष्यते ॥२६॥
ज्ञानान्तरस्य चोत्पत्तिं प्रकाशो न प्रतीक्षते ।
तस्य तस्यापि चाsन्येन संवित्तावस्थितिर्भवेत ॥२७॥
‘ ज्ञानपृष्टेन योsप्यूर्ध्वमर्थाsभावेsपि दृश्यते ।
परामर्शोsर्थरूपस्य स कथं वोपपद्यते ॥२८॥
तद्रूपमर्थमालिख्य ( १ ) यदि धीर्नोपजायते ।
भूतकाले च यद्यर्थस्तत्पूर्वं नोपलक्षितः ’ ॥२९॥
वक्तारश्चापि दृश्यन्ते वर्त्तमानाsर्थबुद्धिषु ।
नीलोsर्थोsयं यतो मेsत्र तद्रूपा जायते मतिः ॥३०॥
तस्मात् पूर्वगृहीतासु बुद्धिष्वर्थोपलम्भनम् ।
न चोपलब्धिरस्तीह निराकारासु बुद्धिषु ॥३१॥
विवेकबुद्ध्यभावाच्च साकारस्य च दर्शनात् ।
आकारवत्तया ( १ ) बोधो ज्ञानस्यैव प्रसज्यते ॥३२॥
न ह्येवं कल्पना शक्या निराकाराssदितो मतिः ।
गृह्यतेsर्थस्ततः पश्चात् साकारः सम्प्रतीयते ॥३३॥
आकारवत्त्वभेदो हि ( २ ) ज्ञात्वा शक्येत भाषितुम् ।
प्राग्बुद्धिग्रहणादर्थे संवित्तिर्नेति साधितम् ॥३४॥
न चाsर्थाकार एवाsयं ज्ञानारूढः प्रतीयते ।
न हि सो sन्तःप्रवेशाय पर्याप्तो नाsर्थहानये ॥३५॥
इत्थंभावे प्रमाणं च तस्य वक्तुं न शक्यते ।
तदीयप्रतिबिम्बत्वमेतस्मादेव नेष्यते ॥३६॥
निश्चन्द्राबिम्बरूपं हि दृष्टं येन दिवा जलम् ।
स रात्रौ खे च तं दृष्ट्वा जानाति प्रतिबिम्बताम् ॥३७॥
विज्ञाने न कदा चित्तु प्राङ्निराकारदर्शनम् ।
बाह्ये वा ssकारवत्ताधीर्येनैवं कल्पना भवेत् ॥३८॥
शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता ।
ज्ञाने च गृह्यमाणस्य कथं स्यादर्थधर्मता ॥३९॥
बाह्याभ्यन्तरदेशत्वान्न चाsर्थज्ञानयोर्मिथः ।
सम्पर्को sस्ति यतो मोहादविवेकमतिर्भवेत् ॥४०॥
असंमूढस्य चाsदृष्टेर्न संमोहप्रकल्पना ।
कल्प्यमाने sथ वा sप्येवं न द्वयोरवतिष्ठते ॥४१॥
संसर्गधर्म आकारस्तस्मादेव न युज्यते ।
देशभेदादसंसर्गो मूर्ताsमूर्ततया तथा ॥४२॥
त्रैलोक्येन प्रसङ्गाच्च संसर्गो नैककालता ।
न चाsप्यार्जवतः स्थानं ज्ञानेनाsर्थस्य विद्यते ॥४३॥
सर्वथा कल्पनायां च चक्षुषा sपि रसादयः ।
गृह्येरन् सर्वभावानामण्वाकाराश्च तद्गताः ॥४४॥
न चाsपि विषयत्वेन स्थाने संसर्गकल्पना ।
विषयत्वं हि( १ )कीदृक् स्यात् प्रागाकारीपलम्भनात् ॥४५॥
न ह्यसञ्चेतितो भावो विषयत्वेन कल्प्यते ।
विषयत्वात् तदाकार आकाराद्विषयश्च सः ॥४६॥
द्वयोराकारनिर्मुक्तं सत्त्वं संसृष्टतां तथा ।
स्वरूपतः परिच्छिद्य वक्तुमित्यादि युज्यते ॥४७॥
न चाsप्यस्येह सद्भावः प्राग् गृहीतो न चोपरि ।
न ह्याकारविनिर्मुक्तं ग्राह्यमस्तीति भाषितम् ॥४८॥
तस्मादर्थेन संसर्गो निष्प्रमाणक एव ते ।
ज्ञानवैचित्र्यसिद्ध्यर्थं न चाsस्त्यर्थस्य कल्पना ॥४९॥
तदधीनं हि वैचित्र्यं क्क दृष्टं येन ( १) कल्प्यते ।
नीराकारणे चोत्पत्तिर्वैचित्र्याssकारयोः कथम् ॥५०॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP