मुमुक्षुवैराग्यप्रकरणम् - सर्ग तेविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
विकल्पकल्पनानल्जजल्पितैरल्पबुद्धिभिः । भेदैरुद्भुरतां नीतः संसारकुहरे भ्रमः ॥१॥
सतां कथमिवास्थेह जायते जालपञ्जरे । बाला एवात्तुमिच्छन्ति फलं मुकुरबिम्बितम् ॥२॥
इहापि विद्यते येषां पेलवा सुखभावना । आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ॥३॥
न तदस्तीह यदयं कालः सकलघस्मरः । ग्रसते तज्जगज्जातं प्रोत्थाब्धिमिव वाडवः ॥४॥
समस्तसामान्यतया भीमः कालो महेश्वरः । दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ॥५॥
महतामपि नो देवः प्रतिपालयति क्षणम् । कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥६॥
युगवत्सरकल्पाख्यैः किंचित्प्रकटतां गतः । रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ॥७॥
ये रम्या ये शुभारम्भाः सुमेरुगुरवोपि ये । कालेन विनिगीर्णास्ते गरुडेनव पन्नगाः ॥८॥
निर्दयः कठिनः क्रूरः कर्कशः कृपणोधमः । न तदस्ति यदद्यापि न कालो निमिरत्ययम् ॥९॥
कालः कवलनैकान्तमतिरत्ति गिरन्नपि । अनन्तैरपि लोकौघैर्नायं तृप्तो महाशनः ॥१०॥
हरत्ययं नाशयति करोत्यत्ति निहन्ति च । कालः संसारनृत्तं हि नानारूपं यथा नटः ॥११॥
भिनत्ति प्रविभागस्थभूतबीजान्यनारतम् । जगत्यसत्तयाबन्धाद्दाडिमानि यथा शुकः ॥१२॥
शुभाशुभविषाणाग्रविलूनजलपल्लवः । स्फूर्जति स्फीतजनताजीवराजीवनीगजः ॥१३॥
विरिञ्चिमूलब्रह्माण्डबृहद्देवफलद्द्रुमम् । ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ॥१४॥
यामिनीभ्रमरापूर्णा रचयन्दिनमञ्जरीः । वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ॥१५॥
भिद्यते नावभिग्नोपि दग्धोपि हि न दह्यते । दृश्यते नापि दृश्योपि धृर्तचूडामणिर्मूने ॥१६॥
एकेनैव निमेषेण किंचिदुत्थापयत्यलम् । किंचिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ॥१७॥
दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया । द्रव्यैकरूपकृद्द्रूपं जनमावर्तयन्स्थितः ॥१८॥
तृणं पांसुं महेन्द्रं च सुमेरु पर्णमर्णवम् । आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ॥१९॥
क्रौर्यंमत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता । सर्वदौर्भाग्यमत्रैव चापलं वापि दुःसहम् ॥२०॥
प्रैरयॅंल्लीलयार्केन्दु क्रीडतीव नभस्तले । निक्षिप्तलीलायुगलो निजे बाल इवाङ्गणे ॥२१॥
सर्वभूतास्थिमालाभिरापादवलिताकृतिः । विलसत्येव कल्पान्ते कालः कलितकल्पनः ॥२२॥
अस्योड्डामरवृत्तस्य कल्पातेङ्गविनिर्गतैः । प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥२३॥
रुद्रो भूत्वा भवत्येष महेन्द्रोथ पितामहः । शक्रो वैश्रवणश्चापि पुनरेव न किंचन ॥२४॥
धत्तेजस्रोत्थितोद्धस्तान्सर्गानमितभास्वरान् । अन्यान्दधद्दिवानक्तं वीचीरब्धिरिवात्मनि ॥२५॥
महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् । देवान्सुरगणान्पक्कन्फलभारानिव स्थितः ॥२६॥
कालोयं भूतमशकघुङ्घुमानां प्रपातिताम् । ब्रह्माण्डोदुम्बरौघानां बृहत्पादपतां गतः ॥२७॥
सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया । वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः ॥२८॥
अनन्तपारपर्यंतबद्धपीठं निजं वपुः । महाशैलवदुतुङ्गमवलम्ब्य व्यवस्थितः ॥२९॥
क्कचिच्छ्यामतमःश्यामं क्कचित्कान्तियुतं ततम् । द्वयेनापि क्कचिद्रिक्तं स्वभायं भावयन्स्थितः ॥३०॥
संलीनामङ्ख्यसंसारसारया स्वात्मसत्तया । उर्व्येव भारघनया निबद्धपदतांगतः ॥३१॥
न खिद्यते नाद्रियते नायाति न च गच्छति । नास्तमेति न चोदेति महाकल्पशतैरपि ॥३२॥
केवलं जगदारम्भलीलया घनहेलया । पालयत्यात्मनात्मानमनहंकारमाततम् ॥३३॥
यामिनीपङ्ककलितां दिनकोकनदावलीम् । मेघभ्रमरिकामात्मसरस्यारोपयन्स्थितः ॥३४॥
गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् । आलोककनकक्षोदानारहत्यभितो गिरिम् ॥३५॥
संचारयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् । जगत्सद्मनि कार्पण्यात्क्क किमस्तीति वीक्षते ॥३६॥
प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् । लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥३७॥
जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे । क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥३८॥
गुणैरापूर्यते यैव लोकरत्नावली भृशम् । भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ॥३९॥
दिनहंसानुसृतया निशेन्दीवरमालया । तारकेसरयाजस्रं जपलो वलयत्यलम् ॥४०॥
शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः । प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि ॥४१॥
तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी । न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥४२॥
कल्पकेलिविलासेन पिष्टपातितजन्तुना । अभावो भावभासेन रमते स्वात्मनात्मनि ॥४३॥
कर्ता भोक्ता संहर्ता स्मर्ता सर्वपदंगतः ॥४४॥
सकलमप्यकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः । प्रकटयन्सहसैव च गोपयन्विलसतीह हि कालबलं नृषु ॥४५॥
[ ८४७ ] इत्यार्षे०वैराग्यप्रकरणे कालपवादो नाम त्रयोविंशतितमः सर्गः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP