TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मुमुक्षुवैराग्यप्रकरणम् - सर्ग विसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


सर्ग विसावा
श्रीराम उवाच ॥
बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः । आरोहति निपाताय यौवनं संभ्रमेण तु ॥१॥
तत्रानन्तविलासस्य लोलस्य स्वस्य चेतमः । वृत्तीरनुभवन्याति दुःखाद्दुखान्तरं जडः ॥२॥
स्वचित्तबिलसंस्थेन नानासंभ्रमकारिणा । बलतकामपिशाचेन विवशः परिभूयते ॥३॥
चित्तानां लोलवृत्तीनां ललनानामिवावृतीः । अर्पयत्यवशं चेतो बालानामञ्जनं यथा ॥४॥
ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् । तद्रूपं प्रतिलुम्पन्ति दुष्टास्तेनैव ये मुने ॥५॥
महानरकबीजेन संततभ्रमदायिना । यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥६॥
नानारसमयी चित्रवृत्तान्तनिचयोम्भिता । भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥७॥
निमेषभासुराकारमालोलघनगर्नितम् । विद्युत्प्रकाशमशिवं यौवनं मे न रोचते ॥८॥
मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् । सुराकल्लोलसदृशं यौवनं मे न रोचते ॥९॥
असत्यं सत्यसंकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गन्नासङ्गसमं यौवनं मे न रोचते ॥१०॥
सर्वस्याग्रे सर्वपुंसः क्षणमात्रमनोहरम् । गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥११॥
इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् । दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥१२॥
आपातमात्ररमणं सद्भावरहितान्तरम् । वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥१३॥
ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः । तारुण्ये संनिधिं यान्ति महोत्पाता इव क्षये ॥१४॥
हार्दान्धकारकारिण्या भैरवाकारवानपि । यौवनाज्ञानयामिन्या बिभेति भगवानपि ॥१५॥
सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् । ददात्यतितरामेष भ्रमं यौवनसंभ्रमः ॥१६॥
कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना । यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥१७॥
सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने । मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥१८॥
शक्यते घनकल्लोला भीमा लङ्घयितुं नदी । न तु तारुण्यतरला तृष्णा तरलितान्तरा ॥१९॥
सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् । तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥२०॥
नरं तरलतृष्णार्तिं युवानमिह साधवः । पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा ॥२१॥
नाशायैव मदार्तस्यदोषमौक्तिकधारिणः । अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥२२॥
मनोविपुलमूलानां दोषाशीविषधारिणाम् । शोषरोदनवृक्षाणां यौवनं बत काननम् ॥२३॥
रसकेसरसंबाधं कुविकल्पदलाकुलम् । दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥२४॥
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् । आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥२५॥
जडानां गतसंख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिर्नवयौवनम् ॥२६॥
सर्वेषां गुणसर्गाणां परिरूढरजस्तगाः । अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः ॥२७॥
नयन्ति पाण्डुतां वक्त्रमाकुलावकरोत्कटाः । आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥२८॥
उद्बोधयति दोषालिं विकृन्तति गुणावलिम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाम् ॥२९॥
शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् । निबध्नन्मोहयत्येष नवयौवनचन्द्रमाः ॥३०॥
शरीरखण्डकोद्भूता रम्या यौवनवल्लरी । लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥३१॥
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् । मनोमृगाः प्रधावन्तः पतन्ति विषयावटे ॥३२॥
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा । लहरी जीविताम्भोधेर्युवता मे न तुष्टये ॥३३॥
दिनानि कतिचिद्येयं फलिता देहजङ्गले । युवता शरदस्यां हि न समाश्वासमर्हथ ॥३४॥
झटित्येव प्रयात्यैव शरीराद्युवताखगः । क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥३५॥
यदा यदा परां कोटिमध्यारोहति यौवनम् । वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् ॥३६॥
तावदेव विवल्गन्ति रागद्वेषपिशाचकाः । नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥३७॥
नानाविकारबहुले वराके क्षणनाशिनि । कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥३८॥
हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥३९॥
मानमोहान्मदोन्मत्तं यौवनं योभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥४०॥
ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात् ॥४१॥
सुखेन तीर्यतेम्भोधिरुत्कृष्टमकराकरः । न कल्लोलबलोल्लासि सदोषं हतयौवनम् ॥४२॥
विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः । इह हि दुर्लभमङ्ग सुयौवनं जगति काननमबरगं यथा ॥४३॥
[ ७२८ ] इत्यार्षे वासिष्ठरामायणे वाल्मीकीये०यौवनगर्हा नाम विंशतितमः सर्गः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:17.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चालत्‍या गाडीस खीळ घालणें

  • एखादा गाडा सुरळीतपणें चालला असतां, त्‍याच्या आंसांत वगैरे खीळ घालून चाक पुढे न फिरेल असे करणें, म्‍हणजे त्‍याची गति कुंठित करणें होय. यावरून नीट सुरळीत चाललेल्‍या गोष्‍टीस अडथळा करणें 
  • चालू प्रगतीस प्रतिबंध करणें 
  • कोणत्‍याहि गोष्‍टीत अडवणूक करणें. ‘चालत्‍या गाड्याची खीळ काढणें’ असा कोठे कोठे पाठभेद आढळतो. आंसाच्या टोकास चाकाच्या बाहेर एक खीळ असते. ही काढली असतां गाडा चालूं लागला तर चाक बाहेर येण्याचा संभव असतो 
  • यामुळे गाडा थांबतो. गाडा पहा. 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site