TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

मुमुक्षुवैराग्यप्रकरणम् - सर्ग दहावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


सर्ग दहावा
वाल्मीकिरुवाच ॥
तथा वसिष्ठे ब्रुवति राजा दशरथः सुनम् । संग्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥१॥
दशरथ उवाच ॥
प्रतिहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥२॥
इति राज्ञा विसृष्टोसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य तमुवाच महीपतिम् ॥३॥
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥४॥
आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः । न कस्य चिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥५॥
इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् । सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥६॥
कथं कीदृग्विधो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥७॥
देहयष्टिमिमां देव धारयन्त इमे वयम् । खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥८॥
रामो राजीवपत्राक्षो यतः प्रभृति चागतः । सविप्रस्तीर्थयात्रायास्ततः प्रभृति दुर्मनाः ॥९॥
यत्नप्रार्थनयास्माकं निजव्यापारमह्निकम् । सोयमाम्लानवदनः करोति न करोति वा ॥१०॥
स्नानदेवार्चनादानभोजनादिषु दुर्मनाः । प्रार्थितोपि हि नातृप्तेरश्नात्यशनमीश्वरः ॥११॥
लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे । न च क्रीडति लीलाभि र्धाराभिरिव चातकः ॥१२॥
माणिक्यमुकुलप्रोता केयूरकटकावलिः । नानन्दयति तं राजन्द्यौः पातविषयं यथा ॥१३॥
क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्यतिविषादवान् ॥१४॥
यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च । पाष्पपूर्णेक्षण इव तेनैव परिखिद्यते ॥१५॥
किमिमा दुःखदायिन्यः प्रस्फुरन्तीः पुराङ्गनाः । इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥१६॥
भोजनं शयनं यानं विलासं स्नानमासनम् । उन्मत्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥१७॥
किं संपदा विपदा किं गेहेन किमिङ्गितैः । सर्वमेवासदित्युक्त्वा तूष्णीमेकोवतिष्ठते ॥१८॥
नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥१९॥
विलोलालकवल्लर्योहेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥२०॥
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥२१॥
वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्राड्धर्मिणं भूप सोनुयाति तपस्विनम् ॥२२॥
एक एव वसन्देशे जनशून्ये जनेश्वर । न हसत्येकया बुद्ध्या न गायति न रोदति ॥२३॥
बद्धपद्मासनः शून्यमना वामकरस्थले । कपोलतलमाधाय केवलं परितिष्ठति ॥२४॥
नाभिमानमुपादत्ते न च वाञ्च्छति राजताम् । नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥२५॥
न विद्मः किमसौ याति किं करोति किमीहते । किं ध्यायति किमायाति कथं किमनुधावति ॥२६॥
प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त एव द्रुमः ॥२७॥
अनुयन्तौ तथैवैतौ राजञ्च्छत्रुघ्नलक्ष्मणौ । तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥२८॥
भृत्यै राजभिरम्बाभिः संपृष्टोपि पुनः पुनः । उक्त्वा न किंचिदेवेति तूष्णीमास्ते निरीहितः ॥२९॥
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ॥३०॥
नानाविभवरम्यासु स्त्रीषु गोष्टीगतासु च । पुरः स्तिथमिवास्नेहो नाशमेवानुपश्यति ॥३१॥
नीतमायुरनाया सपदप्राप्तिविवर्जितैः । चेष्टितैरिति काकल्या भूयो भूयः प्रगायति ॥३२॥
मम्राड्भवति पार्श्वस्थं वदन्तमनुजीवनम् । प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥३३॥
न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् । करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥३४॥
अप्याकाशसरोजिन्या अप्याकाश महावने । इत्थमेतन्मन इति विस्मयोस्य न जायते ॥३५॥
कान्तामघ्यगतस्यापि मनोस्य मदनेषवः । न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥३६॥
आपदामेकमावासमभिवाञ्च्छसि किं धनम् । अनुशिष्येति सर्वस्वमर्थिने संप्रयच्छति ॥३७॥
इयमापदियं संपदित्येवं कल्पनामयः । मनसोभ्युदितो मोह इति श्लोकान्प्रगायति ॥३८॥
हा हतोहमनाथोहमित्याक्रन्दपरोपि सन् । न जनो याति वैराग्यं चित्रमित्येव वक्त्य सौ ॥३९॥
रघुकाननशालेन रामेण रिपुघातिना । भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥४०॥
न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥४१॥
राजानमथवा विप्रमुपदेष्टारमग्रतः । हसत्यज्ञमिवाव्यग्रः सोवधीरयति प्रभो ॥४२॥
यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् । नैतद्वस्तु न चैवाहमिति निर्णीय संस्थितः ॥४३॥
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न संपदा न विपदा तस्यास्था न विभो बहिः ॥४४॥
निरस्तास्थो निराशोसौ निरीहोसौ निरास्पदः । न मूढो न च मुक्तोसौ तेन तप्यामहे भृशम् ॥४५॥
किं धनेन किमम्बाभिः किं राज्येन किमीहया । इति निश्चयवानन्तः प्राणत्यागपरः स्थितः ॥४६॥
भोगेप्यायुषि राज्येषु मित्रे पितरि मातरि । परमुद्वेगमायातश्चातकोवग्रहे यथा ॥४७॥
इति तोके समायातां शाखाप्रमरशालिनीम् । आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥४८॥
तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।संसारजालमाभोगि प्रभो प्रतिविषायते ॥४९॥
ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥५०॥
मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् । सफलतां नयतीह तमो हरन्दिनकरो भुवि भास्करतामिव ॥५१॥
[ ३६१ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:16.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दत्त म्हणून उभा

  • [ दत्तात्रेय भिक्षेस अकल्पित येत अशी कथा आहे ] फकीर, भिक्षेकरी दारांत ‘ गुरुदेव दत्त !’ म्हणून एकदम येऊन उभे राहतात. 
  • अकल्पितपणें उपस्थिति 
  • अचानक येणें. 
  • इतक्यांत निजामच्या हत्तीवरून त्यांचा बोंडीगार्ड उठला, आणि. मधोमध भीमसेनाप्रमाणें नग्न तलवार घेऊन एकाएकी पेशव्यापुढे दत्त म्हणून उभा राहिला.’ 
More meanings
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site