मुमुक्षुवैराग्यप्रकरणम् - सर्ग चौथा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ॥
रामः पुष्पाञ्जलिव्रातैर्विकीर्णं पुरवामिभिः । प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥१॥
प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् । ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥२॥
सुहृद्भिर्मातृभिश्चैव पित्रा द्विजगणेन च । मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥३॥
तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः । जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥४॥
वभूवाथ दिनान्यष्टौ रामानगमन उत्सवः । सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥५॥
उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥६॥
प्रातरुत्थाय रामोसौ कृत्वा संध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥७॥
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह । स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥८॥
जगाम पित्रानुज्ञातो महत्या सेनया वृतः । वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥९॥
तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् । समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥१०॥
एवंप्रायदिनाचारो भ्रातृभ्यां सह राघवः । आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥११॥
नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया । परिणिनाय दिनानि सचेष्टया स्तुतसुधारसपेशलयानघ ॥१२॥
[ १५१ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणै दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP