संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीवासुदेवानंदसरस्वतीचरित्रम्

श्रीवासुदेवानंदसरस्वतीचरित्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


आदौ रूपमरूप ते गुणगणेशान्मानवं स्वीकृतं ।
वर्णाद्याश्रमधर्मधारणमथो श्रीदत्तदेवेट्गुरो ॥
तत्संस्थापनतीर्थपादवपुयुक् तुर्ये कवीट् स्वार्तिहन् ।
वन्दे ते गुरुवासुदेव यतिराट्सेव्यांध्रिकंजं परम् ॥१॥
( टीका ) हे अरूप हे गुणगण, ईशात्, तदारम्य । ते त्वया । आदौ सृष्ट्यादौ ।
रूपं, धृतमित्यघ्याहार: । तत: मानवं मनोरिदं मानवं स्वीकृतम् ।
तेन रूपेण वर्णाद्या वेदास्तेभ्य आश्रमादिधर्माणां स्मृत्यादिरूपेण धारण्म स्वीकृतं ।
भो श्रीदतदेवेट्गुरो देवानां ईशास्तेषां गुरो ।
तत्संस्थापनतीर्थपादवपुयुक् तेषां वर्णाश्रमधर्माणां संस्थापनार्थ्म तीर्थानि पादे येषां वपुशां तद्युक् ।
त्वमेव असि नान्य: । अतस्ते तव ।
 हे कवीट्स्वार्तिहन् कवि: शुक्र ईट् गुरुर्येषां ते कवीश: तत्सदृशभूपेभ्य: सकाशात् या स्वानां स्वकीयभक्तानां आर्ति: तां हन्ति तत्संबुद्धौ ।
भो: गुरुवासुदेव । यतिराट्सेव्यांघ्रिकंजं परमहंसै: सेव्यं पादकमल्म ।  
परं मायया रहितं शुद्धस्वरूपं वन्दे । अन्योर्थ :- हे अरूप ब्रह्मस्वरूप । आदौ ते त्वया ।
गुणगणेशात् गुणै: शमदमाद्यैर्युक्तात् गणेशनामब्राह्मणसकाशान्मनवं स्वीकृतं ।
ततो वर्नाच्चाश्रमाणां च धर्मधारणं स्वीकृतं । भो श्रीदत्तदेवेट् गुरुर्यस्य तत्संबुद्धौ ।
तत्संस्थापनतीर्थपाद स्वार्तिहन् कवीट् । तुर्ये चतुर्थाश्रमे वपुर्युजि योगे यस्य स: तथा ।
त्वं दीनान् त्रातुं प्रागदृष्टयोगेन स्थितोसि ।
त्वत्पदकमलसेवात्रैविघ्याकांक्षी दासोsहं ते यतिराट्सेव्यांघ्रिकंजं परं वन्दे ॥ ॐ तत्सत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP