संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
नामदेवस्तोत्रम्

नामदेवस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


योनिसम्भवो नामदेवो देवप्रियोत्तम: ।
यद्भक्तिप्रीतिवशगो वैकुण्ठाधीशविठ्ठल: ॥१॥
यच्छुक्तिजन्म मुक्तांना स्वातिरिक्तं न चान्यथा ।
तथैव मुक्तभक्तांना स्वातिरिक्तं न चान्यथा ॥२॥
नामदेवस्य सम्प्रीत्यै वापी पूर्णोदका कृता ।
पीतं येन पय: साक्षाद्भक्तभक्तिप्रियं नुम: ॥३॥
यत्प्रीतिकीर्तनवशाज्जात: प्रत्यड्मुखो हर: ।
अभंगानाम कोटिशतं रचितं येन तं नुम: ॥४॥
छिन्नहस्तो भक्तवर: कुलालो यस्य कीर्तने ।
भगवन्नामघोषेण हस्तौ पल्लवतां गतौ ॥५॥
राजदण्डभयत्रस्ता बालवृद्धनरस्त्रिय: ।
मृतगोसंजीवनेन ह्यानदाब्धौ निपातिता: ॥६॥
नामदेवस्य माहात्म्यं वर्णितुं नैव शक्यते ।
श्रीज्ञानदेवप्रमुखभक्तवृन्दनुतस्तुत: ॥७॥
यस्य दासी जनिर्भक्तोत्तमा तद्गृहसंस्थित: ।
दलनादिककृत्यानि चाकरोद्भगवान् हरि: ॥८॥
स्वात्मस्वरूपं हि गुरो: प्रसादात् ।
सन्दृश्यते सर्वगुहास्थितं स्वयम् ॥
इत्थं जनान् बोधयितुं स्वयं हरि: ।
श्रीनामदेवो वृतवान् स्वयं गुरुम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP