संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अथामरेश्वरदत्तगुरुस्तोत्रम्

अथामरेश्वरदत्तगुरुस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


देवेन्द्र:  सामरगुरु: कृष्णावेणीसरित्तटे ।
स्वपदप्राप्तये लिङ्गममरेश्वरसंज्ञकम् ॥१॥
पूजयामास तत्तीर्थें स्नात्वाब्दं भक्तिसंयुत: ।
अमरेश्वरप्रसादेन प्राप्तमैन्द्रपदं पुन: ॥२॥
चतु:षषटियोगिनीभि: सेवितं सततं पदम् ।
नमामि तं चामरेशं श्रीदत्तेनं सुपूजितम् ॥३॥
यं दत्तं योगिनीवृन्द: श्रीगुरुं ह्यमरापुरम् ।
नीत्वा राजोपचारै: संपूज्य भिक्षा ददौ मुदा ॥४॥
गोतीर्थं शम्भुतीर्थं च पितृतीर्थं च गोपुरे ।
शुक्लं चामरतीर्थं च पापनाशं च काम्यके ॥५॥
सिद्धं वरदं तीर्थं कोटीतीर्थं च शक्तिकम् ।
सङ्गमाग्र्यप्रयागं च षट्कूले सर्वतीर्थकम् ॥६॥
द्वादशैतानि तीर्थानि स्नात्वा भक्त्या सुभाविक: ।
अमरेश्वरं च संपूज्य देवत्वं प्राप्यतेsब्दत: ॥७॥
अत: सर्वर्षिदेवर्षिदेववृन्दसुसेवितम् ।
अमरेश्वरं नमाम्याशु भक्तिदं मुक्तिदं मुदम् ॥८॥
दत्त वाड्मनसातीत परब्रम्हस्वलिङ्गधृक् ।
सर्वदेवाधिदेवेश भोsमरेश्वर ते नम: ॥९॥
अर्कतीर्थवरस्तोत्रममरेश्वरतोषकृत् ।
य: पठेद्धीमान् श्रीमान् नित्यं दत्तप्रियो भवेत् ॥१०॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP