संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
ध्यानं द्वितीयस्

ध्यानं द्वितीयस्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे परब्रम्हलिङ्गमन्नपूर्णामरेश्वरम् ।
षड्वक्त्रगजवक्त्रांकयोगिनीनन्दिसेवितम् ॥१॥
पञ्चवक्त्रं दशभुजं भुजगाभरणं हरम् ।
प्रसन्नं भक्तवरदं सर्वदेवर्षिपूजितम् ॥२॥
पूर्णानन्दवराभीतिकरं भूतिविभूषणम् ।
कर्पूराभं दयापूर्णं भालाक्षं सर्वहृत्स्थितम् ॥३॥
गङ्गाधरं शशिधरं हिमाद्रिवसतिस्थलम् ।
ध्यायेन्नित्यं महेशानमुमादेहार्धधारिणम् ॥४॥
वन्दे विष्णुं तथा शम्भुं वन्दे लोकपितामहम् ।
शुक्लेश्वरं चामरेशं वन्दे श्रीसङ्गमेश्वरम् ॥५॥
सर्वेशं विश्वनाथं च वन्दे विघ्नेश्वरं तथा ।
वन्देहं जगदम्बान्नपूर्णां श्रीयोगिनीस्तथा ॥६॥
वन्दे श्रीरेणुकालक्ष्मीकृष्णावेणीसरिद्वराम्  ।
गङ्गं च पञ्चगङ्गां च श्रीगुरुं यतिरूपिणम् ॥७॥
श्रीपादश्रीवल्लभं श्रींनरसिंहसरस्वतीम् ।
दत्तात्रेयं सदा वन्दे पादुकात्रयरूपिणम् ॥८॥
इन्द्रादिसर्वदेवानां वरदं खपदार्थिनाम् ।
योगीन्द्रनारदादीनां भक्तिज्ञानप्रदं गुरुम् ।
शरण्यं करुणापूर्णं प्रसन्नममरेश्वरम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP