TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सप्तमाष्टक - अष्टमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


पारदार्यादुन्द्रस्य प्रयोगे मुक्तिमुक्त्वा रक्षोमुक्तिर्नाम सप्तमेsष्टमोsध्याय:
हरि: ॐ ॥ प्रमाभूतेन वेदेन गीतोsपीन्द्र: शचीपति: ॥
स्वर्गे सम्राट् सुराधीश: प्रथमं यज्ञभागभुक् ॥१॥
रूपान्तरेण स्वपन्तीधर्षणाद्गौतमेन स: ॥
शप्त: सहस्त्रभगवान्भूत्वागाल्लज्जितो वनम् ॥२॥
धिङ् मोहिनीं स्त्रियं कामं दुर्दमं धिक् च दुर्धियम् ॥
मां दुर्दशासमापन्नमित्यात्मानं व्यगर्हयत् ॥३॥
ततोsनाथा: सुरा इन्द्रमज्ञात्वापि शचि गुरुम् ॥
पप्रच्छ क्क गत: स्वाराट् क्वान्वेष्टव्यो वदाधुना ॥४॥
प्राहेज्य: कृतपापार्तो यत्रास्ते दर्शयामि तम् ॥
इत्युक्त्वा तै: सहैत्येन्द्रं मेरुदर्यां व्यदर्शयत् ॥५॥
भूतिमत्तोsजितात्माभीर्दैवोपहतधी: सुरेट् ॥
हीतोsवद्द्गुरो त्राहि मां दैवाद्भगचिह्नितम् ॥६॥
स प्राह शिष्य देवेन्द्र यद्यप्यनुचितं कृतम् ॥
सावधानो भवातस्त्वं मुक्त्युपायं वदामि ते ॥७॥
प्रयागे स्नानमात्रेण त्रिवेण्यां कृतिकिल्बिषात् ॥
मुक्तिमेष्यसि नैवात्र संशय: पाकशासन ॥८॥
इत्युक्त: सोsनुतप्तोsगात् त्रिवेण्यां स्नानमात्रत: ॥
पूतात्माभूत्सहस्राक्षस्त्रिवेणीमहिमा त्वयम् ॥९॥
तस्मात्त्वमपि तत्रैव गच्छ मुक्ता भविष्यसि ॥
इति विप्रवच: श्रुत्वा भक्तियुक्ता तदाभवम् ॥१०॥
त्यक्त्वार्थान्विषवत्स्वांश्च शत्रुवद्दुर्गवद्गृहम् ॥
जितात्माsसक्तधी: क्कापि भूत्वा वीतैषणागमम् ॥११॥
दु:संगतिं यातनादां पापं चादोगतिप्रदम् ॥
चित्ते संस्मृत्य संतापान्माघस्नानं मया कृतम् ॥१२॥
पापं नष्टं त्र्यहस्नानादीश्वरानुग्रहान्मम ॥
जातेदृक् शिष्टपुण्येन वरा जातिस्मराप्सरा ॥१३॥
इति स्मृत्वाsसुरोsप्याह श्रृणूदन्तं स्मृतं हि मे ॥
या काशी सर्वविख्याता स्मृतिमात्रेण मुक्तिदा ॥१४॥
तत्रासं श्रेष्ठकुलजो द्विजोsज्ञोपि कुधीर्मया ॥
प्राज्ञैर्निर्भर्त्सितेनापि दुराचार: सदा कृत: ॥१५॥
चण्डालस्यापि न त्यक्तो मया दुष्टप्रतिग्रह: ॥
हृतं हेमान्यनार्यश्च भुक्तं प्रेतान्नमप्यहो ॥१६॥
वज्रलेपोपमं पापमविमुक्तपुरे कृतम् ॥
नाणुमारं कृतं पुण्यं दैवान्मृत्युवशोsभवम् ॥१७॥
क्षेत्रवासप्रभावेण नाभून्मे निरयोsसत: ॥
ईशाज्ञया भैरवेण क्षिप्त: कल्पितयोनिषु ॥१८॥
कल्पिता योनिदेहा मे महाकष्टान्नवोषिता: ॥
हिमाद्रौ सांप्रंतं जन्म दशमं राक्षसं मम ॥१९॥
अतीतानि सहस्राणि वर्षाणां पञ्चसप्तति: ॥
नास्ति मे निष्कृतिर्मोक्षवार्ता स्वप्नेपि नो मम ॥२०॥
कराल: श्मश्रुल: क्रूर: क्षुत्पिपासार्दितो भृशम् ॥
दुष्कर्मणैव दग्धोsस्मि सौख्यवार्तापि मेsत्र नो ॥२१॥
क्षेत्रवासोद्भवं पुण्यं सफलं जातमद्य मे ॥
भवत्या दर्शनं सत्या अन्यथा मे कथं वद ॥२२॥
सत्संगत्यैव धन्योsद्य जातोsहं शान्तमानस: ॥
अत: सत्संगतिं साध्वीं प्रशंसन्तीह कोविदा: ॥२३॥
स्वादुक्षीरार्णवाम्भोsपि हंसानामुपजीवनम् ॥
सन्त: सर्वसमा एव सर्वेषामुपजीवनम् ॥२४॥
किं वक्ष्येsत: परं भद्रे ज्ञात्वा कष्टां दशामिमाम् ॥
यद्रोचते तत्कुरुष्व पतितोsहं तवाग्रत: ॥२५॥
श्रुत्वा तद्भापितं दीनं दयालुत्वेन साsवदत् ॥
दास्ये ते माघजं पुण्यंख निष्कृतिस्तेन ते भवेत् ॥२६॥
स्नाता मे बहवो माघा ब्रह्मक्षेत्रे यथाविधि ॥
तत्रैकमाघजं पुण्यं दत्तं ते सद्गतिप्रदम् ॥२७॥
इत्युक्त्वा साssर्द्रवसनं निष्पीड्यदाय तज्जलम् ॥
संकल्प्यादान्माघपुण्यं दयया रक्षसे सती ॥२८॥
रक्षोभावं विहायाशु तदैवास सुरोपम: ॥
नत्वाsप्सरसमाहेदं प्रहृष्टो गद्गदाक्षर: ॥२९॥
य: कर्मफलदो देव: शंभु: सोमस्त्रिलोचन: ॥
परोपकृत्यै सद्बुद्धिं भद्रे भद्रं ददातु ते ॥३०॥
त्वयाsद्योपकृतं साधु पतितोsप्युद्धृतोsस्म्यहम् ॥
यस्य मे निष्कृति: क्कापि नैव सोsद्यैव पावित: ॥३१॥
प्रसीद कृपयेदानीं कुर्वज्ञे मय्यनुग्रहम् ॥
शिक्षां विधेहि मे कुर्यां यया क्कापि न पातकम् ॥३२॥
प्रियं धर्म्यं निशम्यैवं रक्षोवाक्यं प्रसन्नधी: ॥
प्रवक्तुं तारकं धर्ममप्सरा उपचक्रमे ॥३३॥
स्ववर्णाश्रमवर्णाधिकृता भुव्यपि मानवा: ॥
संसिद्धिं यान्ति ते दैव्या संपदैवान्यया न तु ॥३४॥
स्वसंपदाsपि देवा: स्वर्जिग्युर्नान्येsन्यया हता: ॥
गुरुसेवादिनेन्द्राद्या मुक्ता अत्रेति यच्छ्रुतम् ॥३५॥
भजस्व धर्मं तं नित्यं हिंसां सन्त्यज दूरत: ॥
परदोषोच्चारणं च कामं जह्यान्तरं रिपुम् ॥३६॥
धृत्या शुध्द्या मनो बुध्द्या विनियम्येन्द्रियाणि च ॥
प्रत्याहृत्यार्चय शिवं पश्य स्वप्नोपमं जगत् ॥३७॥
वैराग्यरसिको भूत्वा व्युत्थानेsपीह मा कुरु ॥
अहन्तां ममतां चास्रमांसास्थिघटितेsध्रुवे ॥३८॥
भोगकाले कदाचित्तु प्राप्तायामप्यहंकृतौ ॥
बोधात्मव्यतिरेकेण न पश्येदं चिदन्वयात् ॥३९॥
ज्ञात्वैवं तत्त्वत: स्वात्मरूपं पश्चात्समाविश ॥
अयं हि परमो धर्मो यत: पातो न विद्यते ॥४०॥
इति तद्वाक्सुधां पीत्वा श्रुत्या शुद्धाsवदत्स ताम् ॥
सदा सुखमयी भूया: साध्वि काञ्चनमालिनि ॥४१॥
प्रसादसुमुखस्यास्तु शंभो: सान्निध्यमन्वहम् ॥
आचन्द्रार्कं वसात्रैव सदा स्निग्धोमया सह ॥४२॥
धर्मनिष्ठा तपोनिष्ठा योगस्त्वय्यस्तु सर्वदा ॥
मास्तु लोभोsध्रुवे देह आपन्नार्तिं सदा जहि ॥४३॥
स्तुत्वैवं तां प्रणम्योक्तिं तस्या भक्त्या विमृश्य स: ॥
प्राप्तेन व्योमयानेनारब्धं भोक्तुं दिवं ययौ ॥४४॥
अत्रान्तरे देवकन्या: पुष्पाणि ववृषुर्मुदा ॥
नस्या उपरि तां प्राप्य प्रोचुर्नत्वा प्रियंवदा: ॥४५॥
कथं भद्रे त्वया रक्षोमोक्षणं विहितं वद ॥
त्यक्तं यतो भियाsस्माभि: क्रीडावनमिदं शुभम् ॥४६॥
इदं त्वदङ्गमाहात्म्यं किं वाच्यमधमोsप्यसौ ॥
मुक्त: सद्य इतोsत्रैव विहरामो यथासुखम् ॥४७॥
श्रुत्वा तद्भाषितं साssह स्वधर्ममहिमा त्वयम् ॥
त्यक्त्वा लोभं ततो देव्य: संसेव्योsयं सनातन: ॥४८॥
इत्युक्त्वा त्वरया प्राप कैलासं हेममालिनी ॥
स्वप्नेपि नैव यद्वार्ता दुर्धीनां तं नगोत्तमम् ॥४९॥
त्रिलोचनं हताशिवं सदोमयान्वितं भवम् ॥
निरीक्ष्य साsनवं भवं ननाम भाविताभवम् ॥५०॥
इत्युक्तं धर्महार्दं ते राजञ्छ्रेयस्करं परम् ॥
यदीदृशं फलं भावि किं स्यान्मिथ्यात्मगोपनात् ॥५१॥
अत एव हि ये लोका: स्वधर्मे विधिचोदिता: ॥
मृता अप्यूर्ध्वगा एव नाध:पातोsपि कामिनाम् ॥५२॥
निष्कामानां तु राजेन्द्र स्वधर्माचरणात्सताम् ॥
इह वान्यत्र वा मोक्षो नात्र कार्या विचारणा ॥५३॥
इत्याकर्ण्य स राजेन्द्रो धर्मतत्त्वं गुरूदितम् ॥
अभ्यर्च्य तमनुज्ञात: पुरं गत्वा तथाचरत् ॥५४॥
शुद्धस्तेनैव पश्चात्स प्राप्तयोगोsमृतं ययौ ॥
अतो धर्मपरैर्नित्यं तोषणीयस्त्र्यधीश्वर: ॥५५॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाह्स्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके अष्टमोsध्याय: ॥८॥
॥ पारदार्यादिन्द्रस्य प्रयागे मुक्तिमुक्त्वा रक्षोमुक्तिर्नाम सप्त० अष्ट० ॥७।८॥
॥ श्रीमद्दत्तपुराणे सप्तमाष्टक: संपूर्ण: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:50:59.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खणील

  • स्त्री. आवण काढणी ; उपटणें ( भाताचें रोप दुसरीकडे लावण्यासाठीं ); खणती . 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site