TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

षष्ठाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हुण्डेन हन्तुं नीतस्य बालकस्य वसिष्ठाश्रमे गुप्तिर्नाम षष्ठाष्टके द्वितीयोsध्याय
हरि ॐ ॥ वयमु त्वा महामाये देवीं श्रेष्ठां मनामहे ॥
मोहिन्यै ते नमो नोsद्य दयस्वेष्टं प्रसाधय ॥१॥
एवं तेन स्तुता देवी हृष्टाभूत्कार्यसिद्धिदा ॥
काचिदत्रान्तरेsरिष्टाद्धात्र्येका बहिरागता ॥२॥
हुण्डासुरोsपि मायावी तस्या अङ्गं प्रविश्य स: ॥
सिध्द्या समाययौ तत्र निर्भयं सूतिकागृहम् ॥३॥
दत्तात्रेयाsप्यधीशस्तज्ज्ञात्वापि निजलीलया ॥
तूष्णीमास प्रभुरपि मोहिनीं बहु मानयन् ॥४॥
यन्नामस्मरणान्माया सकार्यापि विलीयते ॥
तस्यातिमायिकस्याग्रे मायिदैत्यस्य का कथा ॥५॥
गत्वा हुण्डोsथ दास्यङ्गसंस्थोsरिष्टं सुबालकम् ॥
नेतुकामो जजापेमां लघुप्रस्वापिनी विधे: ॥६॥
देवि स्वप्नाधिकरण एतान्निष्वापय द्रुतम् ॥
आसूर्यं मृतवत्प्रात: पूर्ववच्च प्रबोधय ॥७॥
प्रस्वापिन्यां प्रयुक्तायामेवं सर्वेsपि मोहिता: ॥
निद्रागृहीतसंज्ञा नो विदुर्दैत्यस्य चेष्टितम् ॥८॥
तत्र सुप्तेषु सर्वेषु देव्या संमोहितेष्वथ ॥
प्रादुर्भूय स्वरूपेण दैत्यो बालं जहार स: ॥९॥
विहायसाssशु पक्षीव काञ्चनाख्यं पुरं स्वकम् ॥
गत्वा प्रियां समाहूय बालं दत्वाsसुरोवदत् ॥१०॥
प्रिये समक्षमेव त्वं घातयित्वार्भमप्यमुम् ॥
तन्मांसं प्रातराशाय सास्रं मे देहि पाचितम् ॥११॥
सा प्राह नाथ पोतोsयं साहसं नात्र युज्यते ॥
भवान्कार्यं कुतो धत्ते शास्त्रगर्ह्यं तदीदृशम् ॥१२॥
दैत्योsवदत्प्रिये देवैर्निर्मितोsयं ममान्तक: ॥
महाकष्टेन मे लब्ध: कर्तव्यात्र कथं दया ॥१३॥
संरक्ष्योsयं त्रिवर्गार्थं प्रेयानात्मा सुदुर्लभ: ॥
नष्टेsस्मिन्न कुत: स्वार्थ: श्रुतं गुरुमतं न किम् ॥१४॥
तथेत्युक्त्वाsसुरस्त्री सा बालमादाय निर्दयम् ॥
प्राहैकलाख्यां सैरन्ध्रीं हत्वैनमविचारत: ॥१५॥
पक्त्वोत्तमं प्रदेहि त्वं प्रियभोजनहेतवे ॥
इत्युक्त्वाsदाच्छिशुं सापि सूदहस्ते तथा ददौ ॥१६॥
यस्य यो विहितो मृत्यु: स केनापि न वार्यते ॥
इत्यज्ञात्वाsध्रुवात्मेच्छोर्गुरुशास्त्रेण किं भवेत् ॥१७॥
विश्वासेनैव हुण्डस्य प्रिया दत्त्वार्भकं स्वयम् ॥
जाता कार्यान्तरासक्ता सैरन्ध्र्येकात्र संस्थिता ॥१८॥
दिव्यं सद्योजातमपि दृष्ट्वा बालं स निर्दय: ॥
चिच्छेद सुशितास्त्रेण तथापि स न विव्यथे ॥१९॥
हठाद्द्विवारं भूयोsपि बालेsस्त्रं बल्लवोsत्यजत् ॥
श्रीदत्तचक्रगुप्तत्वाच्छस्त्रं भग्नं स नो हत: ॥२०॥
न पफालेषदप्यस्त्रं तं हसन्तं च बालकम् ॥
सैरन्ध्री प्रेक्ष्य सूदश्च नृशंसावपि विस्मितौ ॥२१॥
भाविबालसुदैवेन शान्ता क्रूराsपि सैकला ॥
सूदं प्राह त्वया बालो न वध्योsयं महामते ॥२२॥
रत्नोपमोsयं तेजस्वी महापुरुषलक्षण: ॥
देवगुप्तोsस्त्युमुं बालं को हन्यात्पामरोsधम: ॥२३॥
सूदोsप्याह न सैरन्ध्रि हन्म्येनं दैवरक्षितम् ॥
तेजस्वी देववद्बालो राजचिह्नान्वित: शुभ: ॥२४॥
पशुघ्नस्यापि चित्ते तु यं दृष्ट्वा जायते दया ॥
दुरात्मा घातयत्येनं कुतोsयं दानवाधम: ॥२५॥
येषां प्रदक्षिणं दैवं तेषां कर्मैव रक्षकम् ॥
को हन्याद्देवगुप्तांस्तान्येषामिन्द्रो युवा सखा ॥२६॥
आपत्स्था अपि मुच्यन्ते दुर्गेभ्योsपि नदीजवात् ॥
को हन्यात्तान्विषाग्न्यस्त्रैर्येषामिन्द्रो युवा सखा ॥२७॥
इत्युक्त्वाsस्त्रं स तस्याज भाविबालविधीरित: ॥
एकलाsप्यूच आवाभ्यां नेतव्य: क्काप्ययं शिशु: ॥२८॥
अथ तौ तु क्रुपाविष्टौ तदैवादाय तं द्रुतम् ॥
द्वाराद्बहिर्निधायर्षेर्वसिष्ठस्यागतौ पुन: ॥२९॥
मृगशावं निहत्यैकं पक्त्वा सूद: सुसंस्कृतम् ॥
तन्मांसं दैत्याराजाय धूर्तो विश्वासयन्ददौ ॥३०॥
तदाsसुरो हृष्टतरो भूत्वा मूढस्तदामिषम् ॥
भुक्त्वाssत्मानं कुधीर्मेने कृतकृत्यं हतान्तकम् ॥३१॥
तत: प्रभाते विमले वसिष्ठो ज्ञानिनां वर: ॥
बहिरेत्यार्भकं द्वारि ददर्श मुनिवृन्दयुक् ॥३२॥
दिव्यलक्षणसंपन्नं पूर्णचन्द्रनिभाननम् ॥
विशाललोचनं सौम्यं राजलक्षणलक्षितम् ॥३३॥
सद्योजातमिवाभातं देवगर्भनिभं शुभम् ॥
दृष्ट्वा विस्मयमापन्न उवाचारुन्धतीपति: ॥३४॥
मुनय: पश्यतात्रैष बाल: कस्यास्ति सुन्दर: ॥
रात्रौ केन समानीय स्थापितस्तं न विद्महे ॥३५॥
प्रसू: का वाsस्य सुभगा जनक: कोsस्य भाग्यवान् ॥
बालरत्नं ययोरीदृङ्महतस्तपस: फलम् ॥३६॥
मुनयस्तं शिशुं दृष्ट्वा विस्मिता अपि तेsभवन् ॥
वसिष्ठस्तु तदा ध्यात्वा योगी प्राह त्रिकालवित् ॥३७॥
आयुष: सोमवंश्यस्य दत्तसेवाफलोद्भव: ॥
श्रीदत्तगुप्त: पुत्रोsयमायुष्मान्राजलक्षण: ॥३८॥
स्वर्भानुपुत्रीन्दुमतीगर्भरत्नं न संशय: ॥
हुण्डेन स्वान्तकं मत्वा हृतो दैवादिहागत: ॥३९॥
मैत्रावरुणिरित्युक्त्वा ज्ञानीशोsपि विमोहित: ॥
कराभ्यां दययाssदाय स्वाश्रमं तमनीनयत् ॥४०॥
वसिष्ठ आह श्रीदत्तप्रसादादमरान्नरान् ॥
शीघ्रं विपद उद्धृत्य सम्राड्जिष्णुर्भविष्यति ॥४१॥
इति ब्रुवति मौनीशे पुष्पाणि ववृषु: सुरा: ॥
ननृतुश्चाप्सरोवर्गा गन्धर्वा: सुस्वरं जगु: ॥४२॥
ऋषयोsपि तदा हृष्टा: कुमारायाशिषो ददु: ॥
स्वांशेनेदं ततं येन स त्वमीशात्रिनन्दन ॥४३॥
मुञ्च मुञ्च विपद्भ्योsमुं रक्ष रक्ष हरे शिशुम् ॥
प्रातर्मध्यंदिने सायं निशि चाप्यव सर्वत: ॥४४॥
दुर्दृग्गोधूलिभूतार्तिगृहमातृग्रहादिकान् ॥
छिन्धि छिन्ध्यखिलारिष्टं कमण्डल्वरिशूलधृक् ॥४५॥
त्राहि त्राहि विभो नित्यं त्वद्रक्षालंकृतं शिशुम् ॥
सुप्तं स्थितं चोपविष्टं गच्छन्तं क्कापि सर्वत: ॥४६॥
भो देवावश्विनावेष कुमारो वामनामय: ॥
दीर्घायुरस्तु सततं सहओजोबलान्वित: ॥४७॥
नामकर्माथ विधिवद्वसिष्ठस्तस्य चाकरोत् ॥
नहनं बन्धनं योsरे: कर्ताsसौ निजशक्तित: ॥४८॥
लोके नहुष इत्येवं लोकख्यातो भविष्यति ॥
न क्कापि बालभावैस्ते दूषितं यन्नराधिप ॥४९॥
तस्मान्नहुषनाम्ने ते स्वस्त्यस्त्वमरपूजित ॥
कृत्वेत्थं जातकर्मार्भं वात्सल्येन जुगोप स: ॥५०॥
अरुन्धती सती साsपि बालमौरसवत्सदा ॥
ररक्ष दैवनाथं तं वात्सल्याल्लालनादिना ॥५१॥
अरुन्धतीं वसिष्ठं च पितरौ मन्यते स्म स: ॥
दिने दिने स ववृधे पोषितो बालचन्द्रवत् ॥५२॥
प्राप्तेsथैकादशे वर्षे यथाविध्युपनीय तम् ॥
संस्कृतं वर्णिनं दान्तं सम्यक् शिक्षितवान्मुनि: ॥५३॥
वेदमग्राहयत्सार्थं साङ्गं च सपदक्रमम् ॥
विद्या: सर्वा: कलाश्चापि शास्त्राणि च यथार्थत: ॥५४॥
सरहस्यं धनुर्वेदं सविधानं विशेषत: ॥
ज्ञानशास्त्रं राजनीतिं सेतिहासपुराणकम् ॥५५॥
नहुषोsपि विनीतात्मा शिष्यत्वेन यथाविधि ॥
सिषेवे श्रीगुरुं भक्त्या मनोवाक्कायकर्मभि: ॥५६॥
इत्थं सर्वगुणापूर्णो नहुषो गतमत्सर: ॥
श्रीवसिष्ठप्रसादेन सर्वा विद्यास्ततार स: ॥५७॥
सोमवंश्योsपि नहुष एवं श्रीदत्तरक्षित: ॥
संस्कारांश्चाददे विद्या: सूर्यवंश्यगुरोर्विधे: ॥५८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे षष्ठाष्टके द्वितीयोsध्याय: ॥२॥
॥ इति हुण्डेन हन्तुं नीतस्य बालकस्य वसिष्ठाश्रमे गुप्तिर्नाम षष्ठा० द्विती० ॥६।२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:30:21.7500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

loan at call

  • मागणीदेय कर्ज 
  • मांग पर देय ऋण 
  • मागणीदेय कर्ज 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.