TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथ रोग्युद्धारादिकथनं नाम तृतीयाष्टके सप्तमोsध्याय:
हरि: ॐ ॥ प्रभुप्तसादाद्विप्रोsयं कमप्यन्वग्रहीत्स च ॥
कृतार्थो भवतीत्येवं प्रसिद्धोsभूत्स भूतले ॥१॥
गोदावासी द्विज: कश्चिद्धरिशर्मा तदात्मज: ॥
द्विदशाब्दो यस्य जन्या गुल्मोsष्टाब्द: क्षयोsभवत् ॥२॥
त्र्यब्दो जलोदरो जीर्णज्वर एकाब्द आयन: ॥
अतिसार: सकासश्च चातुर्मास्यो भगन्दर: ॥३॥
त्रिदोषेणापि संक्रान्तं प्रेक्ष्य मृत्यून्मुखं पतिम् ॥
तद्भार्या षोडशाब्दागाच्छरणं विष्णुदत्तमित् ॥४॥
सौभाग्यं देहि मे ब्रह्मन्भर्ता मे रोगपीडित: ॥
अत्युत्कटा: प्रतीकारा दैवाज्जाता निरर्थका: ॥५॥
इत्यर्थितो दयालु: स साध्व्या तद्गृहमेत्य तम् ॥
दृष्ट्वा कर्मविपाकोक्तं पत्न्या व्रतमकारयत् ॥६॥
क्रमेणाशु लयं प्रप तत्तद्रोग: प्रतिव्रतम् ॥
क्षये ब्रह्मवधोत्थेsदाद्द्वादशाब्दं स निर्गत: ॥७॥
गुल्म: षडब्देन देवद्रोहोत्थोsपि जलोदर: ॥
द्वादशाब्देन चाब्देन पापोत्थोsपि भगन्दर: ॥८॥
ज्वरोsब्देनातिसारश्च त्रिदोषश्चौषधाद्गत: ॥
द्विजोsथ तं हृदि स्पृष्ट्वा जजापोपनिषन्मनुम् ॥९॥
नीरुग्लेभे द्विजस्तेन भूतिमायु: प्रजां यश: ॥
दिव्यां गतिं दत्तभक्तिमिहामुत्र च सद्गतिम् ॥१०॥
पितृत्वेन वृत: सत्या द्विज: प्रस्थापितोsस्पृह: ॥
ययौ धामेति रुग्णोsपि द्विजोsगात्सद्गतिं तत: ॥११॥
क्रमाद्रोगेषु नष्टेषु यथान्ते पुष्टिदो रस: ॥
नष्टेष्वविद्यादोषेषु शास्त्रैर्बोधस्ततो रस: ॥१२॥
मिष्टाशनोत्थरोगार्तं ब्राह्मणी काचिदात्मजम् ॥
अम्बा निम्बं पिबेत्याह तिक्तं नादूरदृक् पपौ ॥१३॥
दास्ये लड्डुकमित्युक्त: पपौ दत्वापि तत्करे ॥
अपथ्यशङ्किनी युक्त्या ततो जग्राह लड्डुकम् ॥१४॥
फलं लड्डुकवद्गौणं मुख्यमारोग्यवत्परम् ॥
रोग्यर्भवद्भवाध्यार्तो हिमकृन्मातृवच्छ्रुतम् ॥१५॥
स्वर्गार्थं कामभोगार्थं शत्रुघातार्थमप्ययम् ॥
न वशीकरणार्थं च शास्त्रौघो बुद्धिशुद्धिद: ॥१६॥
विप्रस्य कस्यचिद्भार्यां दृष्ट्वा तन्वीं गते प्रिये ॥
ग्रामान्तरे तत्स्वरूपधृग् झुटिंगो ह्यवाप ताम् ॥१७॥
कामार्तो वर्ण्यवस्थायां दुराचारो हि यो मृत: ॥
स झुटिंगत्वमेत्येव दुर्धर: कामलम्पट: ॥१८॥
कथं ह्याश्वागम इति सत्योकित: सत्कृतोsवदत् ॥
गतो यदर्थं मार्गे स मिलित: प्राह नाधुना ॥१९॥
साध्यं कार्यं मासमात्रादेहीत्युक्तोsञ्जसागमम् ॥
इति तां वञ्चायित्वा स साध्वीं स्ववशमानयत् ॥२०॥
वशं गतां तस्य मायामजानन्ती मनस्विनी ॥
धाष्टर्यं बलं भोगशक्तिं विकारांश्च विलक्षणान् ॥२१॥
ज्ञात्वापि दु:खिता वक्तुं न शशाकाप्रियं क्वचित् ॥
तस्मिन्संदिग्धचित्तापि प्रत्याख्यातुमनीश्वरा ॥२२॥
मासेनैत्य गृहेशस्तं दृष्ट्वोचे मत्स्वरूपधृक् ॥
कोsसि भार्यां गृहं चार्थं कथं गृह्णास्यरेsधम् ॥२३॥
स प्राहाहं गृहस्वामी कस्त्वं मद्रूपधृक्खल ॥
त्वं खलस्त्वं खल इति विवदन्तौ विलोक्य तौ ॥२४॥
दृष्ट्वैकरूपौ चकिता मित्रश्वशुरबान्धवा: ॥
सर्वं रहसि पत्न्योक्तं ज्ञात्वा खिन्नोsभवद्द्विज: ॥२५॥
झुटिंगेन स्त्रिया स्वैश्च विष्णुदत्तालयं द्विज: ॥
गत्वा शशंस तत्सर्वं ज्ञात्वाप्येवावदत्स तौ ॥२६॥
रूपं शीलं वयोsवस्था स्वरवर्णाकृतिर्गति: ॥
नामगोत्रकुलाद्येकं वदथ: सत्यमत्र किम् ॥२७॥
क्षन्तव्यं निश्चिनोमीदमित्युक्त्वा सप्त मुद्रिका: ॥
दत्वा समन्त्रा भालेsसौ पृथक् पप्रच्छ संसदि ॥२८॥
कुप्यभाण्डांशुकान्नादि गेहे लक्ष्म च ते स्त्रियि ॥
प्रकाशं चाप्रकाशं च सर्वमाख्यातुमर्हसि ॥२९॥
लेखयित्वा पृथक् ताभ्यामुक्तं संसदि दूरत: ॥
तौ कृत्वा ब्राह्मणीं प्राह सत्यं कस्योभयोर्वद ॥३०॥
सा प्राह योsद्य मां भुङ्क्ते तद्वाक्ये व्यत्ययो महान् ॥
अपरोक्तौ सत्यतेति तथेत्युक्त्वा द्विजोsब्रवीत् ॥३१॥
पञ्चक्रोशात्मकमिदं क्षेत्रं कृत्वा प्रदक्षिणम् ॥
विप्रावेष्यति य: शीघ्रं पूर्वं स विजयी भवेत् ॥३२॥
तथेत्युक्त्वा गतौ तत्र क्षणार्धेन पिशाचक: ॥
परिक्रम्यैत्य तत्राह कृता मेsद्य प्रदक्षिणा ॥३३॥
लिङ्गानि पथि सर्वाणि देवतायतनानि च ॥
तानि सर्वाण्यसंदिग्धं कथायामास संसदि ॥३४॥
तच्छ्रुत्वा चकिता; सर्वे सभ्या ऊचु: परस्परम् ॥
नेयं मनुष्यचेष्टातो भूतोsयं नात्र संशय: ॥३५॥
प्राप विप्रस्त्वकृत्स्नज्ञो दिनार्धेनाब्रवीत्समम् ॥
विष्णुशर्मा पुन: प्राह सिद्धा: कति गिराविह ॥३६॥
पृष्ट्वा तन्नाम गोत्रादि गिरिं कृत्वा प्रदक्षिणम् ॥
ब्रूयाद्य: शीघ्रमागत्य प्रथमं स जयी भवेत् ॥३७॥
इत्युक्तौ जग्मतुरुभौ मुहूर्तार्धात्पिशाचक: ॥
आगत्य स यथापृष्टं कथयामास सर्वश: ॥३८॥
विप्रस्तु पञ्चयामोर्ध्वमेत्य क्लेशदुवाच सत् ॥
सिद्धा न दृष्टास्तन्नाम गोत्रवार्ता कुत: पुन: ॥३९॥
तच्छ्रुत्वातीव विश्वासो विप्रस्याभूत्सभासदाम् ॥
विष्णुशर्मा पुन: ग्राह परीक्षैकावशिप्यते ॥४०॥
इत्युक्त्वा लोहकरकं संस्थाप्योवाच तौ द्विज: ॥
वक्त्रेणाविश्य नालेन निर्गम्य स्त्री प्रगृह्यताम् ॥४१॥
इत्युक्त: सत्वरं भूत: सूक्ष्मरूपी समाविशत् ॥
कृतरक्षो द्विजो ध्यात्वा श्रीशं मन्त्रं जजाप ह ॥४२॥
दुर्धरं दुर्मुखं दुष्टं पिशाचमिन्द्रसंमृण ॥
बध्वा मन्त्रानुभावेन सर्वं रक्षो निबर्हय ॥४३॥
इत्यनेन मुखं नालं कीलयामास मध्यग: ॥
भूतोsभूद्दु:खितो बद्धं तं तत्याज महागिरौ ॥४४॥
साध्वी विप्र: सदस्याश्च जहर्षु: प्राह तां द्विज: ॥
दृष्टमात्रो मया ज्ञातो झुटिंगोsयं महाखल: ॥४५॥
सहसा निगृहीतेsस्मिन्नपवादो मयीत्यत: ॥
कृतो यत्न: क्रमादेष लोकसंशयभेदक: ॥४६॥
शास्त्रक्रमाद्यथाज्ञस्याज्ञानान्त: क्रियते तथा ॥
कृता प्रतिक्रियैषात्र नैव कस्यापि संशय: ॥४७॥
विश्वास: प्रथमे किंचिद्द्वितीये सविशेषक: ॥
तृतीये संशयश्छिन्नस्तुर्ये नाशमितोsधम: ॥४८॥
सर्वे ततस्तदादिष्टा नत्वा जग्मुर्यथागतम् ॥
साध्वी साsनिन्दिता हृष्टा स्वेशं लब्ध्वा तथैव स: ॥४९॥
एवं शास्त्रक्रमात्त्यक्त: संशयो यै: प्रयत्नत: ॥
प्राक्सिद्धं प्राप्नुवन्त्येते शर्मासंशयमात्मन: ॥५०॥
गत्वोर्ध्वमपि भोगान्ते प्राप्येहौषधितो नरम् ॥
स्त्रीपुंयोगाच्छुक्ररत्कमयो गर्भत्वमेत्यृतौ ॥५१॥
कललं प्राक्पञ्चरात्राद्बुद्बुद: सप्तरात्रत: ॥
पेशी पक्षादर्बुदोsथ भवति स्वस्तितो घन: ॥५२॥
मासत्कूर: कं द्वितीये तृतीयेsस्याङ्कुरोद्भव: ॥
त्वक् चतुर्थे रोमनखा: पञ्चमे मासि षष्टके ॥५३॥
छिद्राणि सप्तमे चित्त्वमष्टमे धीस्तत: स्मति: ॥
नालरन्ध्राप्तरसभुङ्नार्तोsपि म्रियते विधे: ॥५४॥
स्तौत्यथेश भवाभीतो मोचयार्य सुदुर्गते: ॥
त्वां भजेsत: परं नेदृग्गतिर्येन भवेन्मम ॥५५॥
स स्तुत्वैवं सूतिवायुत्यक्तो विस्मृतलब्धधी: ॥
रोरूयति जनुर्लब्ध्वा मोहितो माययेशितु: ॥५६॥
अनभिप्रेतमापन्न आसनोत्थानचेष्टने ॥
पराधीनतया भुङ्क्ते स व्यथां वक्तुमक्षम: ॥५७॥
क्रीडासंभोगचिन्ताक्तो बाल्ययौवनर्धके ॥
पुनरावर्ततेsज्ञानी ज्ञानी चेन्मुच्यतेsचिरात् ॥५८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके सप्तमोsध्याय: ॥७॥
॥ इति श्रीदत्तपुराणे रोग्युद्धारादिकथनं नाम तृतीयाष्टके सप्तमोsध्याय: ॥३।७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T07:58:19.6100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

arsenic

  • आर्सेनिक 
  • न. आर्सेनिक 
  • सोमल 
  • आर्सेनिक 
More meanings
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.