TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयाष्टक - पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथ शिल्पकामशस्त्रयोर्गतिर्नाम तृतीयाष्टके पञ्चमोsध्याय:
हरि: ॐ ॥ वैश्वानरसमो राजा प्रतापेनापि दुर्धर: ॥
यं यं प्राप्तमुपादत्ते श्रीदत्तात्रेयसंनिधौ ॥१॥
नमस्कृत्य पुनर्याति कदाचिन्निवसत्यपि ॥
कदाचिद्धर्मशास्त्राणि श्रृणोत्येवं प्रियोsभवत् ॥२॥
एवं सन्नेकदा राजा निर्विण्णो मनसा भृशम् ॥
तत्त्वजिज्ञासया देवमुपतस्थे कृताञ्जलि: ॥३॥
देवोsपि तत्परीक्षार्थं समाधिस्थ इवाबभौ ॥
युक्तं चैतद्रुरूणां हि शिष्यधीदार्ढ्यहेतवे ॥४॥
कर्मणा मनसा वाचा सर्वभावार्पणेन च ॥
सेवमानो हृषीकेशं स्थितो राजातिभक्तित: ॥५॥
त्यक्तोदमपि तं खिन्नं स्तुवन्तमपि सूक्तिभि: ॥
प्रणमन्तमभीक्ष्णं नो धियाप्याश्वासयत्प्रभु: ॥६॥
यत्रास्तेsचिजागद्भ्रान्ति: स्वप्नाभाव्यसती सति ॥
अलातचक्रवल्लोला मायिका यत उत्थिता ॥७॥
तां विद्वान् ज्ञानखङ्गेन यतात्मा सन्महाव्रत: ॥
छित्त्वा सदुक्तितीक्ष्णेन क्षिप्रं संयाति यत्पदम् ॥८॥
तं त्वां त्र्यधीशं गोविन्दं मुमुक्षु: प्रणतोsस्म्यहम् ॥
नित्यमुक्तेश सर्वज्ञ बद्धं मां शिव पाह्यज ॥९॥
ओतं प्रोतमिदं यस्मिन्वसने तन्तवो यथा ॥
प्रपद्ये सच्चिदानन्दं तं त्वां नारायणं परम् ॥१०॥
बिलाविष्टं कुसौख्योरुतर्षं मां कृपयोद्धर ॥
कालाहिदष्टभवशं स्मृत्यैवाश्वेहि भो हरे ॥११॥
कस्तेsर्हतीह तं ज्ञातुं वाङ्मनोsगोचरं परम् ॥
ब्रह्माद्या मोहिता यत्र तत्राहं दुर्मति: कियान् ॥१२॥
तापतप्तं भवाटाव्यामनन्यं मरणोन्मुखम् ॥
दृष्ट्वा मां दीनमेहि त्वमन्वर्थत्वं दयाघन ॥१३॥
मुमुक्षोस्तेsवतारोsयं ज्ञानविज्ञानयोगद: ॥
उद्धरकोस्त्यतोsधीश सर्वात्मन्पाहि माsधुना ॥१४॥
स्त्रीपुत्रार्थसुहृद्राज्यभोगा मायामया हि तै: ॥
स्वरूपाच्छादकै: किं मे सर्वत्रोद्वेगदै: सदा ॥१५॥
भवचक्रं विनात्युग्रं न बिभेमि रिपोर्यमात् ॥
तीक्ष्णदण्डादपि पवेर्भूतभौतिकतोsप्यज ॥१६॥
देहि तच्चक्रभङ्गाय निवासं त्वत्पदाम्बुजे ॥
येनानन्दाश्रुसान्द्रोsहं यास्यामि विभव: शमम् ॥१७॥
उचितोsर्थप्रसङ्गोsयं त्वत्पादविमुखेsनल: ॥
त्वत्पादभक्ते सारज्ञे स कथं सुखयत्यसन् ॥१८॥
नात्रामुत्रापि भोगेच्छा प्रसादात्ते ममाधुना ॥
वासनारूढदुर्योगवियोगं योगमादिश ॥१९॥
धन्योsत्रिरनसूयपि यत्प्रसादाद्भवत्पदम् ॥
अभवं वेदमृग्यं तज्जातं सुलभमत्र तु ॥२०॥
नमस्ते वासुदेवाद्य पुराणपुरुषोत्तम ॥
विश्वाध्यक्ष हृषीकेश भक्ताधिव्याधिमर्दन ॥२१॥
एवं स्तुत्वाsभवत्तूष्णीं सिद्धा अत्रान्तरेsमिता: ॥
ब्राह्मे मुहूर्त एत्येशं नत्वा जग्मुर्विमानगा: ॥२२॥
सगन्धर्वाप्सरोदेवास्तदैवैत्य प्रणभ्य तम् ॥
परिक्रम्य ययुर्विप्रा मुनयोsपि तथामिता: ॥२३॥
समृज्जल: शान्ततपा उषस्यापित्थित: प्रभु: ॥
राक्षस्याशां ययौ मौनी विमल: पुनरागत: ॥२४॥
समृज्जलसमित्तावत्प्राप्तोsन्यो मुनिरीश्वर: ॥
कृतशौचोsम्भसि स्नात्वा देवर्ष्यादीनतर्पयत् ॥२५॥
सवल्कभस्मदर्भोsन्यस्तावत्प्राप्तो यथाविधि ॥
कृत्वाह्निकं विभुस्तस्थौ ध्याननिश्चलदृष्टिवत् ॥२६॥
स्थित: खिन्नोsभवद्राजा तत: शान्ततपा जगौ ॥
भक्तोsयं धार्मिक: खिन्नो राजोपेक्षास्य नोचिता ॥२७॥
प्रहस्याह प्रभु: समाट् समृद्ध: खिद्यसे कृत: ॥
कां भूतिमिच्छस्याप्राप्तां किं मद्भक्तस्य दुर्लभम् ॥२८॥
साश्रुनेत्रोsवदत्सम्राडनयालं परीक्षया ॥
प्रशंसन्तीह योग्याय योग्यं दानं मनीषिण: ॥२९॥
तृषितेsम्भोsन्नं क्षुधिते दानं दीनेsवनं तथा ॥
आर्ते योग्यं तथा ज्ञानं मुमुक्षौ वेत्सि सर्ववित् ॥३०॥
वाड्मनोsगोचरं शुद्धं ब्रह्मैकं सदसत्परम् ॥
वेदान्ती प्राह दृश्यं च मायिकं रज्जुसर्पवत् ॥३१॥
प्राहान्योsनादि तत्सत्यं मिथ्या चेद्दृश्यते कथम् ॥
उत्तमत्वादिकं त्वस्य कर्मणैवापरेsब्रुवन् ॥३२॥
नानात्मत्वं जगुश्चान्ये प्रधानं कारणं परम् ॥
निमित्तं द्वन्द्वजं चान्ये क्षणिकत्वं परेsस्य च ॥३३॥
युक्त्या स्वपक्षदार्ढ्यार्थं वेदादीन्योजयन्त्यपि ॥
युक्तं किमत्र भववन्भ्रमशान्त्या उपादिश ॥३४॥
मच्छासनं त्वत्प्रसादात्सर्वत्राव्याहतं द्विष: ॥
भृत्या मे वासना कापि न मे मोक्षादृतेsधुना ॥३५॥
यया कयापि युक्त्या मामुत्तारय भवाम्बुधे: ॥
ब्रह्मादीनामपि ब्रह्मन् त्वमेवास्यपरो गुरु: ॥३६॥
भगवान्प्राह शास्त्राणामेकं तात्पर्यमीरितम् ॥
बृहस्पतीन्द्रसंवादं श्रृणु संशयभेदकम् ॥३७॥
लौकायतस्मारशिल्पसौगतादिश्रुतान्यपि ॥
पाठयन्तं स्वशिष्येभ्यो गुरुं नत्वा वृषाsवदत् ॥३८॥
जात्यैव प्राणिनां प्राप्ता रागतो विषयात्मता ॥
एतैरर्थात्मकै: शास्त्रै: किं विधेयं विपश्चिता ॥३९॥
विषयाक्रान्तचित्तानां किं तत्तत्त्वबहिर्मुखै: ॥
किं विद्वान् लभतेsत्राज्ञं कूपेsन्धमिव पातयन् ॥४०॥
गुरु: प्राह क्रमदेतैश्चित्तशुद्धिर्भविष्यति ॥
सप्तोदाहरणान्यत्र संशयान्तानि मे श्रृणु ॥४१॥
कापिल्ये शिल्पवित्कश्चिद्विधिज्ञाख्य: पुरेsभवत् ॥
गृहान्त्स निर्ममे कान्तांश्छिल्पशास्त्रोक्तवद्बहून् ॥४२॥
गृहकर्मणि तं सर्वे मान्यं वाञ्छति वेतनम् ॥
भूरि प्रायोपजीवन्ति तमेवान्ये स सत्यवाक् ॥४३॥
मृतस्ततोsगात्स्वर्गं स भोगान्भुक्त्वाभवन्नृप: ॥
यज्वा स भूतले देवगृहवापीतडागकृत् ॥४४॥
धार्मिक: स मृत: स्वर्गे भोगान्भुक्त्वा द्विजोsभवत् ॥
वेदशास्त्रार्थतत्त्वज्ञो ध्याननिष्ठो महाव्रत: ॥४५॥
चतुर्थाश्रममासाद्य जीवन्मुक्तश्चचार गाम् ॥
शास्त्रं धीशुद्धिकृद्यस्माच्छिल्पज्ञोsगात्क्रमाद्गतिम् ॥४६॥
माहिष्मत्यां द्विज: कश्चिद्गीतवादित्रवित्कवि: ॥
सुन्दर: कामशास्त्रज्ञो भार्यार्थं क्ष्मां चचार स: ॥४७॥
तद्धार्दज्ञो नृप: कश्चित्तस्मै कन्यां व्यदर्शयत् ॥
शास्त्त्रोक्तसर्वलक्ष्माढ्यां दृष्ट्वोच्चैर्मूर्च्छितोsभवत् ॥४८॥
सापि तं चकमे कान्तं हृष्टो राजा स तां ददौ ॥
राज्यार्धमपि तस्मै स द्विजो रेमे तया सह ॥४९॥
सुखं यदात्मनो रूपं सर्वेहोपरतौ स्फुटम् ॥
वाङ्मनोsगोचरं नित्यं श्रेष्ठमात्यन्तिकं परम् ॥५०॥
मनुष्यानन्दमारभ्य ब्रह्मानन्दान्तमेव यत् ॥
दशोत्तरगुणं तत्तु ब्रह्मानन्दांशतो गतम् ॥५१॥
वृत्त्यारूढं च तत्पूर्णं भाव्यते रतिकर्मणा ॥
विधिज्ञेन न मूर्खेण तत्सौख्यं सोsलभत्सदा ॥५२॥
पत्नी नान्यं हृदाप्यैच्छत्तस्याभूद्धृद्धरा सती ॥
रेमे तयैव गीतज्ञो विप्रश्चित्तानुरूपया ॥५३॥
चक्रे वित्तानुसारेण नित्यनैमित्तिका: क्रिया: ॥
यथारुचि यथाकालं दिव्यार्थान्बुभुजे स च ॥५४॥
न श्रुतं नानुभूतं च ताभ्यामंहोsल्पमप्यकम् ॥
दैवात्प्रेत्य स सस्त्रीको गन्धर्वेशोsभवत्सुधी: ॥५५॥
तत्रैव नादवित्सोsपि चार्व्या पत्न्या सदाsरमत् ॥
तन्व्या सर्वकालभिज्ञो विधिना रमयन्सुरान् ॥५६॥
हिमाचलवने रम्ये कदाचिच्छिवया शिव: ॥
उच्चैर्गायन्तमाकर्ण्य सुस्वरं तमवाप स: ॥५७॥
नत्वेशं सह पत्न्या स नादज्ञो मञ्जुलश्वर: ॥
गीतैरतोषयत्प्राह मौलिमान्दोलयञ्छिव: ॥५८॥
सुशिक्ष्योsस्यद्ययावन्मे श्रुतं नेदृङ्मनोरमम् ॥
धन्योसि त्वं दिवं याहि भुंक्ष्व भोगान्सुदुर्लभान् ॥५९॥
ततो लब्धवरो गत्वा विमानेन दिवं स तु ॥
त्वदादीन्रमयामास सुगीतैर्भार्यया सह ॥६०॥
कदाचिद्ब्रह्मलोकेsभून्महोत्साहोsखिला: सुरा: ॥
संप्राप्तास्तत्र सदसि गन्धर्वाप्सरसो जगु: ॥६१॥
ततानद्धघनच्छिद्रवाद्यै: सह सुमञ्जुलम् ॥
तत्र सर्वेषु गायत्सु ब्रह्मैकाग्रमना अभूत् ॥६२॥
ब्रह्माssहैषां तु सर्वेषां कोsयं गायति सुस्वरम् ॥
तदा त्वयेन्द्र स स्रष्ट्रे दर्शितो नेत्रसंज्ञया ॥६३॥
तदा निवारयामास क: सर्वान्हस्तसंज्ञया ॥
सस्त्रीक: स ततो गायन्नानारागं च सुस्वरम् ॥६४॥
श्रुत्वा गीतं तदानन्दं ज्ञात्वोवाच विधिस्तदा ॥
नादब्रह्मात्मतत्त्वं तत्सम्यक् प्राप्तमनेन हि ॥६५॥
विलक्षणोsस्य चानन्दो रमयत्यपरानपि ॥
ब्रह्मलोकनिवासोsस्य युक्तो भार्यान्वितस्य हि ॥६६॥
इत्युक्त्वा कृपया तस्मै यद्ब्रह्म श्रुत्यगोचरम् ॥
मुदा प्रदर्श्य सस्त्रीकं तं स्वाग्रेsस्थापयद्विधि: ॥६७॥
एवं स कामशास्त्रज्ञो भोगान्भुक्त्वाsखिलान्क्रमात् ॥
सस्त्रीकोsगात्परानन्दं शास्त्रं शुद्धिकरं न किम् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके पञ्चमोsध्याय: ॥५॥
॥ इति श्रीदत्तपुराणे तृतीयाष्टके पञ्चमोsध्याय: ॥३।५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T07:55:55.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कांटा काढणें-फेडणें

  • १. आपल्‍या मार्गात आलेली अडचण, व्यक्ति, शत्रु वगैरे दूर करणें. ‘कांटाचि काढिला तो जाणों तव शत्रुच्या मनामधला।’ -मोकर्ण ४.१५. -मोगदा १.११६. ‘फेडीन असुरांचा कांटा।’ -उषा ९५.७४. 
  • दुःखाचे मूळ नाहीसे करणें. ‘धर्माच्या हृदयांतिल काढितसें मी समूळ कांटा हो।’ -मोरोपंत. 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.