TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथ श्रीदत्तात्रेयावतारकर्मादिकथनं नाम तृतीयाष्टके द्वितीयोsध्याय:
हरि: ॐ ॥ इच्छन्ति यत्कृपां सर्वे तल्लीलात्रोपवर्ण्यते ॥
भार्गवोsभूद्द्विज: कश्चित्तत्पुत्रो जशवत्सुधी: ॥१॥
तत्पिताह सुताधीष्व वेदान्मुक्त्यै चराश्रमान् ॥
स प्राह प्राक् तताधीता: सर्वा विद्या: क्रिया: कृता: ॥२॥
भोगा भुक्ता लक्षयोनिराड्भृत्यत्ग्वादि चोषितम् ॥
तत्सर्वं संस्मरे योगभ्रष्टत्वात्पौर्वदेहिकम् ॥३॥
न स्पृशामि त्रयीधर्मं भान्ति मे विगुणा: क्रिया: ॥
जातबोधस्य मे वेदै: किं कार्यं विशिनो यते: ॥४॥
पुराssसं ब्राह्मणो ब्रह्मविचारपरिनिष्ठित: ॥
सत्सङ्गाभ्यासवैराग्यैरेकान्तित्वमुपागत: ॥५॥
दैवान्मृतस्य बोधात्प्राग्लुप्ताभ्यासान्न मे स्मृति: ॥
बुद्ध्वेह सुप्तोत्थितवत्स्वात्मानं हि दृढव्रत: ॥६॥
प्राप्तोsस्मीह परां शान्तिमचलो ह्यब्धिवत्स्वदृक् ॥
नाशो नाद्य त्रिभूमिस्थयमिन: किमुतान्यत: ॥७॥
तच्छ्रुत्वा तं पिता प्राह क्षणसत्सड्गनिर्वृत: ॥
पुत्रेदृशोsसि चेत्त्वादृग् यथा भूयां तथादिश ॥८॥
विभेमि कर्मनिगडान्नेक्षेsत्रान्यत्र वा सुखम् ॥
पुत्र: प्राहार्जुनादिभ्य: श्रीदत्तेन पुरोदित: ॥९॥
योगस्तं दु:खसंयोगवियोगं श्रृणु तात मत् ॥
प्रतिष्ठाने कौशिकाख्यो द्विज: पूर्वार्जितादभूत् ॥१०॥
कुष्ठी रुग्णोsपि तद्भार्याsभजत्तं देववत्सदा ॥
स्नानवस्त्राङ्गंसंवाहप्रियवाग्भोजनौषधै: ॥११॥
श्लेष्ममूत्रपुरीषासृक्क्षालनै: साधुलेपनै: ॥
स तथा सेव्यमनोsपि सत्यातीव विनीतया ॥१२॥
निर्भर्त्सयति तां चण्ड: क्रूरो वेश्यागतान्तर: ॥
बीभत्समपि तं देवं मेने सा पतिदेवता ॥१३॥
पराधीनोsप्येकदा स वेश्यां दृष्ट्वाsवदत्प्रियाम् ॥
धर्मज्ञे मे हरत्येषा चित्तं तन्वि घटस्तनी ॥१४॥
तद्धाम नय माsशक्तं मरिष्ये सुभगे न चेत् ॥
कामो वामो न मोक्तुं तं कोsपि शक्रोति भामिनि ॥१५॥
तच्छुत्वा साभवद्धृष्टा कुलीना सुभगा सती ॥
बद्धवा परिकरं शुल्कं भूर्यादाय निधाय तम् ॥१६॥
स्कन्धे मन्दं ययौ रात्रौ ध्वान्ते विद्युत्त्विषा सुधी: ॥
शूले चोरभ्रमात्प्रोतो माण्डव्यो भूभृता विधे: ॥१७॥
ध्वान्तेsज्ञानात्कौशिकाड्घ्रिचालित: प्राह दु:खित: ॥
येनाहं दु:खितो यातु मृत्युं सोsर्कोदयादिति ॥१८॥
तच्छ्रुत्वोचे सती खिन्ना नोदेष्यत्यर्क इत्यहो ॥
शप्त्वैवं पूरयित्वा स्वभर्तृकामं गृहं ययौ ॥१९॥
तच्छापान्नोदित: सूर्यस्ततस्त्रस्तं जगत्त्रयम् ॥
कालव्यवस्था नष्टे:र्के नातो लुप्ता: क्रिया: समा: ॥२०॥
इह भीतं जगद्ध्वान्तात्स्वर्गे देवा उपोषिता: ॥
वृष्ट्यादिनानुगह्णीमो मर्त्यांस्तेsप्यध्वरैश्च न: ॥२१॥
भुक्त्वापि लोलुपा येsस्मद्दत्तं यागैर्यजन्ति नो ॥
इज्यन्त उपसर्गैस्तेsतिवृष्याद्यै: सुदारुणै: ॥२२॥
नापराधोsधुनात्रैषां कालाभावान्नृणामिति ॥
विचार्य शरणं देवा: कं गत्वा तन्न्यवेदयन् ॥२३॥
ध्यात्वा मुहूर्तं ब्रह्मापि देवांस्तान्प्राह सर्ववित् ॥
सूर्यो भीत: सतीशापादुपाय: कल्प्यतेsत्र तु ॥२४॥
तेजसैति शमं तेजो यथा सत्या सती तथा ॥
पतिव्रताग्रगण्यात्रेरनसूया तपस्विनी ॥२५॥
वधू: प्रसादिता सैव कार्यं व: साधयिष्यति ॥
इत्युक्तास्ते ययु: साकं धात्राsत्रेरुटजं शुभम् ॥२६॥
आसाद्यात्रिं च तत्पत्नीं साध्वीं सर्वे च सत्कृता: ॥
प्रापु: कौशिकधामाहानसूया सत्कृता सतीम् ॥२७॥
देवेभ्योsप्यधिकस्ते किं स्वभर्ता तन्मुखेक्षणात् ॥
नन्दस्यापि तदर्थं ते कच्चिद्धृद्वाक्तनुक्रिया ॥२८॥
पतिशुश्रूषयानृण्यं त्रिवर्गाप्तिश्च योषित: ॥
क्लेशेन महता साध्वी स्वाचारत्पतिलोकगा ॥२९॥
स्त्रीणां पृथक्क्रिया कापि नैवात: सेवयेशितु: ॥
पुण्यार्धहारिणी सार्धं भर्त्रा पत्यादिलोकगा ॥३०॥
अतस्त्वया सदा कार्या पातिव्रत्ये मति: सति ॥
ऐहिकामुष्मिकार्थोsत: स्त्रीणां भर्ता हि सद्गति: ॥३१॥
पातिव्रत्यान्मयाप्यार्ये प्राप्तं धर्म्यं महाफलम् ॥
रूपाद्यै: क्कापि नेक्षेsन्यं भर्तृतुल्यं कदाप्ययि ॥३२॥
इति श्रुत्वाब्रवीत्सापि हृष्टा साध्वि तथैव मे ॥
श्रद्धां वर्धयसेsत्यन्तं साध्व्या भर्तैव दैवतम् ॥३३॥
दिविषद्भि: समं जातं भवत्या दर्शनं परम् ॥
तत्पुण्यात्तेsनुग्रहोयं धन्याहं व: करोमि किमु ॥३४॥
सा प्राह साध्वमी देवा याचन्ते लोकशर्मणे ॥
पूर्ववद्दयुनिशासंस्थां तदर्थं चागतास्म्यहम् ॥३५॥
लोकोच्छेद: क्रियोच्छेदे ततो नश्येज्जगत्क्रमात् ॥
तत्त्वं प्रसीद धैर्येण सूर्यमावह मानदे ॥३६॥
सोवाचार्कोदयादेव चण्डमाण्डव्यशापत: ॥
नाशं प्राप्स्यति मे भर्ता सुभगे किं ब्रवीम्यत: ॥३७॥
अनसूयाssह मा भीस्त्वं सूर्यमावह ते पतिम् ॥
सजीवं पूर्ववत्कुर्वे सत्यं ते यदि रोचते ॥३८॥
तथेत्युक्त्वाsथ सा साध्वी तद्विश्वासाद्दिवाकरम् ॥
आजुहाव द्रुतं चासौ शोचिष्केशस्तदोदित: ॥३९॥
स्थितोपि षटशतघटीकालं भीत्योद्गतो रवि: ॥
सत्याहूत्या कौशिकासून् सहैव च हरंस्तम: ॥४०॥
स्वेशं दृष्ट्वाब्जिनी हृष्टा क्लिष्टा नष्टाधिपा च सा ॥
अनसूयोवाच भद्रे मा शोची: पश्य मे तप: ॥४१॥
यदि मेsनन्यया भक्त्या पत्युपास्तिर्दृढा कृता ॥
स्वप्नेsपि न मतं पत्या समं कमपि सर्वत: ॥४२॥
हृद्वाक्कायै: स्वधर्मच्चेत्सेविता पतिदेवता ॥
तल्लवात्स्त्रीसहायोsसौ जीवत्वब्दशतं पुन: ॥४३॥
मन आवर्तयाम्यस्य क्कापि यातं पुनस्त्विह ॥
जीवातवेsमुनीतेsस्य तन्मनो धेहि पूर्ववत् ॥४४॥
सत्येत्युक्ते मृतोsप्येष सुप्तोत्थितवदुत्थित: ॥
स्वदीप्त्या भासयन्वेश्म नीरोगो देववस्तुधी: ॥४५॥
तुष्टा: पुष्पमुचो देवा ब्रह्मविष्णुशिवादय: ॥
रंभाद्या ननृत: साधु गन्धर्वा ललितं जगु: ॥४६॥
देवा ऊचुर्महाकार्यं कृतं कल्याणि नस्त्वया ॥
वरदा: स्मो वरं हृद्यमनसूये वृणीष्व भो: ॥४७॥
सोवाच भर्तुर्योगोsस्तु क्लेशमुक्त्यै सदा मम ॥
पुत्रभावं त्र्यधीशो नौ प्राप्नोत्वन्यैर्वरैस्तु किम् ॥४८॥
एवमस्त्विति तां प्रोक्त्वा जग्मुर्देवा यथागतम् ॥
स्वाश्रमं चानसूयापि कौशिकस्र्यनुमोदिता ॥४९॥
तत: काले सुचार्वङ्गीमृतुस्नातामनिन्दिताम् ॥
स्वजायां सुदतीं स्वर्ङ्गी लोभनीयतमाकृतिम् ॥५०॥
ब्रह्मपुत्रो द्वितीयोsत्रिर्महर्षिर्भगवान्प्रभु: ॥
सकामो मनसा भेजे ध्याताsजातत्र्यधीश्वर: ॥५१॥
वायृत्थं रज उद्रिक्तं तेजो वैकारिकं द्युमत् ॥
ब्रह्माधिष्ठितमाधत्त चन्द्र: कांशो यतोsभवत् ॥५२॥
सत्वोद्रिक्तं च साभिन्नं त्र्यधीशाधिष्ठितं मह: ॥
यतोsभूद्ब्राह्मणश्रेष्ठ: श्रीदत्तो भगवान्स्वयम् ॥५३॥
तथैव तम उद्रिक्तं रुद्राधिष्ठितमंशत: ॥
वरप्रभावाद्धृत्वैवं शुशुभे नितरां सती ॥५४॥
यथाकालं कृता: सर्वे संस्कारा अत्रिणा क्रमात् ॥
ततस्र्यधीशोsवतरत्तद्गर्भत्रयरूपत: ॥५५॥
दत्तावतारकाले तु सुयोगे मुदितं जगत् ॥
त्रीशत्वं दर्शयित्वाप्राक् स्मृत्यै बालोsभवत्स्तुत: ॥५६॥
चक्रेsथ जातकर्मात्रिर्विधिना नामकर्म च ॥
चन्द्रो दत्तश्च दुर्वासा: सतीस्तन्यं पपुर्मुदा ॥५७॥
चन्द्रोsगात्संस्कृत: स्वर्गमोषधीशोsन्वयर्द्धिकृत् ॥
दुर्वासाश्चोद्धतोsटद्भ्यां स्वैरं रौद्रोsसदर्दन: ॥५८॥
आप्तकामोsपि भगवान्श्रीदत्तो योगमायया ॥
बालानुसार्यक्रियोsपि बालोक्तैर्मुग्धचेष्टितै: ॥५९॥
क्काप्यतर्क्यसुलीलाभि: क्कापि धाष्टर्यैश्च चंक्रमै: ॥
दर्शयन्भक्तवशतां संतोष्य पितरौ स्थित: ॥६०॥
शिष्टपो दुष्टहा मान्यो योगमार्गप्रवर्तक: ॥
इति श्रुत्वा मुनिगणा योगाभ्यासार्थमाययु: ॥६१॥
जलेsगाधेsविशत्तांस्तु सर्वज्ञोपि परीक्षितुम् ॥
शताब्दं तत्र केsप्यस्थुस्तन्मोहायापि योगिराट् ॥६२॥
स्वाश्रयां परशक्तिं स धृत्वा मूर्तिमदुद्गत: ? ॥
गायन्तीं साधु वाद्यानि वाद्ययन्तीं निजाड्कगाम् ॥६३॥
पीनश्रोणिकुचां तन्वीमनघां मद्यमांसयुक् ।
तेजीयसा न दोषोsयमित्युक्त्वा केचनास्थिता: ॥६४॥
ततो ज्ञात्वाsमलाञ्छिष्टांश्चक्रेsनुग्रहमुत्तमम् ॥
प्रभुर्येनार्जुनामुखा योगर्द्धिमुभयीं ययु: ॥६५॥
साहसं यद्यपीशस्य स्वैरं धर्मव्यतिक्रम: ॥
तेजीयस्त्वान्न दोषीsग्नेरिव सर्वभुजो विभो: ॥६६॥
मूढोsनीशश्चरन्नश्येत्तद्विनेशं यथा विषम् ॥
धर्माद्यस्पृग्वायुवन्निस्त्रैगुण्य: श्रुतिमूर्धग: ॥६७॥
तादृगीशवचस्तथ्यं तथैवाचरितं क्वचित् ॥
तयोर्धर्म्यं प्रवृत्तार्हं युक्तं तन्मतिमांश्चरेत् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके द्वितियोsध्याय: ॥
॥ इति श्रीदत्तात्रेयावतारकर्मादिकथनं नाम तृतीयाष्टके द्वितीयोsध्याय: ॥३।२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T07:52:01.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Dinophysinae

  • स्त्री. Zool. डायनोफिझिनी 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site