चतुर्थ पटल - शक्तिचालनमुद्राकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् ।
अपानवायुनारुह्य बलादाकृष्य बुद्धिमान् ।
शक्तिचालनमुद्रयं सर्वशक्तिप्रदायिनी ॥१०५॥

शक्तिचालनमेवं हि प्रत्यहं य: समाचरेत् ।
आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ॥१०६॥

विहाय निद्रां भुजगी स्वयमूर्ध्व भवेत्खलु ।
तस्मादभ्यासनं कार्य योगिना सिद्धिमिच्छता ॥१०७॥

य: करोति सदाभ्यास: शक्तिचालनमुत्तमम् ।
येन विग्रहसिद्धि: स्यादणिमादिगुणप्रदा ॥१०८॥

गुरूपदेशविधिना तस्य मृत्युभयं कुत: ।
मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम् ॥१०९॥

य: करोति प्रयत्नेन तस्य सिद्धिरदूरत: ।
युक्तासनेन कर्तव्यं योगिभि: शक्तिचालनम् ॥११०॥

एतत्सुमुद्रादशकं न भूतं न भविष्यति ।
एकैकाभ्यासने सिद्धि: सिद्धो भवति नान्यथा ॥१११॥

इति श्रीशिवसंहितायां हरगौरीसंवादे मुद्राकथनं नाम चतुर्थपटल: समाप्त: ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP