तृतीयं बाम्हणं - भाष्यं ६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- इहापि चाध्यायान्त उपसंहरिष्यत्यवाकृतादिक्रियाकारकफलजातम “त्रयं वा इदं नाम रूपं कर्म” इत्यविद्याविषयम । अव्याकृतान्तु यत्परं परमात्माख्यंविद्याविषयमनामरूपकर्मात्मकं नेति नेतीतीतर प रत्याख्यानेनोपसंह रिष्यति पृथक । यस्तु वागदिसमाहारोपाधिपरिकल्पित: संसार्यात्मा तं च बागादिसमाहारपक्षपातिनमेव दर्शैष्यत्येभ्यो भूतेभ्य: समुत्थाय तान्येवानुविनश्यतीति । तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा ॥

भाष्यं :--- तथेति तथास्विति देवैरुक्ता वाक्तेभ्योऽर्थिभ्योऽर्थायोदगायदुद्रानं कृतवती । का: पुनरसौ देवेभ्योऽर्थायोद्नानकर्मणा वाचा निर्वर्तित: कार्यविशेष इति । उच्यते । यो वाचि निमित्तभूतायां वागादिसमुदायस्य य उपाकारो निष्पद्यते वदनादिव्यापारेण स एव । सर्वेषां हयसौ वाग्वदनाभिनिर्वृतो भोग: फलम् ॥

भाष्यं :--- तं भॊगं सा त्रिषु पवमानेषु कृत्वाऽवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलं यत्कल्यानं शोभनं वदति वर्णानभिनिर्वर्तयति तदात्मने महयमेव । तद्धयसाधारणं वाग्देवताया: कर्म यत्सम्यग्वर्णानामुच्चारणमतस्त देव विशेष्यते यत्कल्याणं वदतीति । यत्तु वदनकार्यं सर्वसंघातोपकारात्मकं तद्याजमानमेव ॥

भाष्यं :--- तत्र कल्याणवदनात्मसंबन्धासंगावसरं देवताया रन्ध्रं प्रतिलभ्य ते विदुरसुरा: कथमनेनोद्नात्रा नोऽस्मान्स्वाभविकं ज्ञानं कर्म चाभिभूयातीत्य शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्नात्रात्मनाऽत्येष्यन्त्यतिगमिष्यन्तीत्येवं विज्ञाय तमुदगातारमभिद्नुत्याभिगम्य स्वेनांऽऽसगलक्षणेन पाप्मनाऽविध्यंस्ताडितवन्त: संयोजितवन्त इत्यर्थ: ॥

भाष्यं :--- स य: स पाप्मा प्रजापते: पूर्वजन्मावस्थस्य वाचि क्षिप्त: स एष प्रत्यक्षीक्रियते । कोऽसौ यदेवेदमप्रतिरूपमननुरूपं शास्त्रप्रतिषिद्धं वदति येन प्रयुक्तोऽसभ्यबीबत्सानृताद्यानिच्छन्नपि वदति । अनेन कार्येणाप्रतिरूपवदनेनानुगम्यमान: प्रजापते: कार्यभूतासु प्रजासु वाचि वर्तते । स एवाप्रतिरूपवदनेनानुमित; स प्रजापतेर्वाचि गत: पाष्मा । कारनानुविधायि हि कार्यमिति ॥२॥

श्रुति :--- अथ ह प्राणमूचुस्त्वं न उद्नायेति तथेति तेभ्य़: प्राण उदगायद्य: प्राणे भोगस्त्तं देवेभ्य आगायद्यत्कल्यानं जिघ्रति तदात्मने । ते विदुरनेन वै न उन्दात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स य: स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥३॥

श्रुति :--- अथ ह चक्षुरूचुस्त्वं न उद्नायेति तथेति तेभ्यश्चक्षुरुदगायत । यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्नात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स य: स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥४॥

श्रुति :--- अथ ह श्रोत्रमूचुस्त्वं न उदगायेति तथेति तेभ्य: श्रोत्रमुदगायद्य: श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याण श्रृणोतितदात्मने । ते विदुरनेन वैन उद्नात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स य: स पाप्मा यदेवेदमप्रतिरूप श्रृणोति स एव स पाप्मा ॥५॥

श्रुति :---  अथ ह मन ऊचुस्त्वं न उद्नायेति तथेति तेभ्यो मन उदगायद्यो मनसि  भोगस्तं देवेभ्य आगायद्यत्कल्याण संकल्पयति तदात्मने ते विदुरनेन वै न उद्भात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स य: स पाप्मा यदेवेदमप्रतिपरू संकल्पयति स एव स पाप्मैवमु खल्वेता देवता: पाप्मभिरुपासृजन्नेवमेना: पाप्मनाऽविध्यन ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP