तृतीयं बाम्हणं - भाष्यं ६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- न परमात्मयाथात्म्यविज्ञानवत: शमोपायव्यतिरेकेण किंचित्कर्म विहितमुपलभ्यते । कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन हयात्मज्ञानं विधीयते । न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते । विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्ते: । न हि देशकालाद्यनवच्छिन्नास्थूलादिब्रम्हाप्रत्यवधारिण: कर्मावसरोऽस्ति ॥

भाष्यं :---   भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत । न । अविद्यादिकेवलदोषन्मित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्ते: । न तु तथाऽनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति नित्य कर्मोपपद्यते । केवलदोषनिमित्तत्वात्तु भोजजादिकर्मणोऽनियतत्वं स्यात । दोषोद्भवाभिभवयोरनियतत्वात्कामानामिव काम्येषु । शास्त्रनिमित्तकालाद्यपेक्शत्वाच्च नित्यानामनियतत्वानुपपत्ति: । दोषनिमित्तत्वे सत्यपि यथा काम्याग्निहोत्नस्य शास्त्रविहितत्वात्सायंप्रात: कालाद्य पेक्षत्वमेवम ॥

भाष्यं :---  तद्भोजनादिप्रवृत्तौ नियमवस्त्यादिति चेत । न । नियमस्याक्रियात्वात्क्रियायाश्चाप्रयोजकत्वान्नासौ ज्ञानस्यापवादकर: । तस्मात्परमात्मयाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वत्सामर्थ्यात्सर्वकर्मप्रतिषेधबिध्यर्थत्वं संपद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वाद्यथा प्रतिषेधविषये । तस्मात्प्रतिषेधविधिवच्च वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥१॥

श्रुति :--- ते ह वाचमूचुस्त्वं न उद्नायेति तथेति तेभ्यो वागुदगायत । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने । ते विदुरनेन वैन उद्नात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स य: स पाप्मा यदेवेदमप्रतिरूपं बदति स एव स पाप्मा ॥२॥

भाष्यं :---  ते देवा हैवं विनिश्चित्य वाचं वागभिमानिनीं देवतामूचुरुक्तवन्त: । त्वं नो‍ऽस्मभ्यमुद्रायौद्नात्नं कर्म कुरुष्व वाग्देवतानिर्वर्त्यमौन्दात्रं कर्म द्दष्टवन्त: । तामेव च देवतां जपमन्त्राभिधेयामसतो मा सद्नमयेति । अत्र चोपासनाया:कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते । कस्मात । यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहार: । वक्ष्यति हि “ध्यायतीव लेलायतीव” इत्यात्मकर्तृकत्वाभावं विस्तरत: षष्ठे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP