तृतीयं बाम्हणं - भाष्यं ५

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- जनु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववदप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेतू । न । विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात । कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा तथा सास्त्रविहितप्रवृत्तीनामपि । तस्मात्पर्मात्मयाथात्म्यविज्ञानवत: शास्त्रविहितप्रवृत्तीनामपि मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात्पर्मात्मज्ञानेन विपरीतज्ञाने निवर्तिते युक्त एवाभाव: ॥

भाष्यं :--- ननु तत्र युक्तो नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्चाभावो न युक्त इति चेत । न । अविद्यारागद्वेषादिदोषवतो विहितत्वात ॥  

भाष्यं :--- यथा स्वर्गकामादिदोषवतो दर्शपौर्णमासादीनि काम्यानि कर्माणि विहितानि तथा सर्वानर्थवीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिंनो नित्यानि कर्माणि विदीयन्ते न केवलं शास्त्रनिमित्तान्येव । न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वत: काम्यनित्यत्वविवेद्कोऽस्ति । कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता । तथाऽविद्यादिदोषवत: स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव नित्यानीति युक्तं तं प्रति विहितत्वात ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP