तृतीयं बाम्हणं - भाष्यं ४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत । न हयनुष्ठेयेऽसति पदानां संहतिरुपपद्यते । अनुष्ठेयत्वे तु सति तादर्थोन पदानि संहन्यन्ते । तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवतीदमनेनैवं कर्तव्यमिति । न त्विदमनेनैवमित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति ‘कुर्याक्त्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम । इत्येवमादीनामन्यतमेऽसति । अत: परमात्मेश्वरादीनामवाक्यप्रमाणत्वम । पदार्थत्वे च प्रमाणान्तरविषयत्वम ।
अतोऽसदेतदिति चेत । न । अस्ति मेरुर्वर्णचतुष्टयोपेत इत्येवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात ॥

भाष्यं :---  न च मेरुर्वर्णचतुष्टयोपेत इत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते । तथाऽस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषणविशेष्यभावेन संहति: केन वार्यते । मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत । न । “ब्रम्हाविदाप्नोति परम” “भिद्यते हृदयग्रन्थि: ” इति फलश्रवणात । संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च । अनन्यशेषत्वाच्च तज्ज्ञनस्य जुव्हामिव फल्श्रुतेरर्थवादत्वानुपपत्ति: ॥

भाष्यं :--- प्रतिषिद्धानिष्टफलसंबन्धश्च वेदादेव विज्ञायते । न चानुष्ठेय: स; । न च प्रतिषिद्धविषये प्रवृत्ताक्रियस्याकरणादन्यदनुष्ठेयमस्ति । अकर्तव्यताज्ञानविष्ठतैव हि परमार्थत: प्रतिषेधविधीनां स्यात । क्षुधार्तस्य प्रतिषेधज्ञानस्म्स्कृतस्याभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्चाभिशस्तान्नादाविदं भक्ष्यमदो भोज्यमिति वा ज्ञानमुत्पन्नं तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते ।

भाष्यं :--- मृगतृष्णिकायामिव पेयज्ञनं तद्विषययाथात्म्यविज्ञानेन तस्मिन्बाधिते स्वाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणबोजनप्रवृत्तिर्न भवति । विपरीतज्ञाननिमित्ताया: प्रवृत्तेर्निवृत्तिरेव न पुनर्यत्न: कार्यस्तदभावे । तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव न पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति ॥

भाष्यं :--- तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात । तथा तद्विज्ञानसंस्कृतस्य तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनामनर्थार्थत्वेन ज्ञायमानत्वात । परमात्माअदियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधितेऽभाव: स्यात ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP