तृतीयं बाम्हणं - भाष्यं ३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- नामादौ ब्रम्हाद्दष्टिदर्शनादुअयुक्तमिति चेत्स्फुटं नामादेरब्रम्हात्वं तत्र ब्रम्हाद्दष्टिं स्थाण्वादाविव पुरुषद्दष्टिं विपरीतां ग्राहयच्छास्त्रं द्दश्यते । तस्माद्यथार्थमेव शास्त्रत: प्रतिपत्ते: श्रेय इत्ययुक्तमिति चेत । न । प्रतिमावद्भेदप्रतिपत्ते: । नामादावब्रम्हाणि ब्रम्हाद्दष्टिं विपरीतां ग्राहयति शास्त्रं स्थाण्वादाविव पुरुषद्दष्टिमितिनैतत्साध्ववोच: । कस्मात । भेदेन हि ब्रम्हाणो नामादिवस्तुप्रतिपन्नस्य नामादौ विधीयते ब्रम्हाद्दष्टि: प्रतिमादाविव विष्णुद्दष्टि: ॥

भाष्यं :--- आलम्बनत्वेन हि नामादिप्रतिपत्ति: प्रतिमादिवदेव न तु नामद्येव ब्रम्होति । यथा स्थाणावनिर्ज्ञाते न स्थाणुरिति पुरुष एवायमिति प्रतिपद्यते विपरीतम । न तु तथा नामादौ ब्रम्हाद्दष्टिर्विपरीता ॥

भाष्यं :--- ब्रम्हाद्दष्टिरेव केवला नास्ति ब्रम्होति चेत । एतेन प्रतिमाब्राम्हाणादिषु विष्ण्वादिदेवपित्रादिद्दष्टीनां तुल्यता । न । ऋगादिषु पृथिव्यादिद्दष्टिदर्शनात । विद्यमानपृथिव्यादिवस्तुद्दष्टीनामेवर्गादिविषये क्षेपदर्शनात । तस्मात्तत्साअमान्यान्नामादिषु ब्रम्हादिद्दष्टीनां विद्यमानव्रम्हादिविषयत्वसिद्धि: । एतेन प्रतिमाब्राम्हाणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धि: ॥
भाष्यं :--- मुख्यापेक्षत्वाच्च गौणत्वस्य । पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वान्मुख्याग्न्यादिसद्भाववन्नामादिषु ब्रम्हात्वस्य गौणत्वान्मुख्यब्रम्हासद्भावोपपत्ति: । क्रियार्थैश्चाविशेषाद्विद्यार्थानाम । यथा च दर्शपौर्णमासादिक्रियेदंफला विशिष्टेतिकर्तव्यताकैवंक्रमप्रयुक्ताङगा चेत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च द्यतीतं चेत्येवमादिविशिष्तमिति वेदवाक्यैरेव ज्ञाप्यत इत्यलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति ॥

भाष्यं :---  न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानां बुद्धयुत्पादकत्वे विशेषोऽस्ति । न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते । अनुष्ठेयाभावादयुक्तमिति चेत । क्रियार्थैर्वाक्यैस्त्र्यंशा भावनाऽनुष्ठेया ज्ञाप्यतेऽलौकिक्यपि । न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किंचिदस्ति । अत: क्रियार्थैं: साधर्म्यमित्ययुक्तमिति चेत ॥ न ॥

भाष्यं :---  ज्ञानस्य तथाभूतार्थविषयत्वात । न हयनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथात्वंकिं तहि प्रमाणसमधिगतत्वात । न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वं किं तर्हि वेदवाक्यजनितत्वादेव । वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सत्यनुष्ठेयत्वविशिष्टं चेदनुतिष्ठति नो चेदनुष्ठेयत्वविशिष्टं नानुतिष्ठति ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP