द्वितीयं ब्राम्हणं - भाष्यं ६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अर्चते पूजां कुर्वते वै मे महयं कमुदकमभुदित्येवममन्यत यस्माम्मृस्तदेव तस्मादेव हेतोरर्कस्याग्नेरस्वमेधक्रतूपयोगिकस्यार्कत्वमर्कत्वे हेतुरित्यर्थ: । अग्नेरर्कनामनिर्वचनमेतत । अर्चनात्सुखहेतुपूजाकरणादप्संबन्धाच्चाग्नेरेतन्दौणं नामार्क इति । य एवं यथोक्तमर्कस्यार्कत्वं वेद जानाति । कमुदकं सुखं वा नामसामान्यात । ह वा इत्यवधारणार्थौ भवत्येवेति । अस्मा एवंविद एवंविदर्थं भवति ॥१॥

श्रुति :--- आपो वा अर्कस्तद्यदपा शर आसीत्तत्समहन्यत । सपृथिव्यभवत्तस्यामश्राम्यत्त्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्नि: ॥२॥

भाष्यं :--- आपो वा अर्क: । क: पुनरसावर्क इति । उच्यते ।आपो वैया अर्चनाङगभुतास्ता एवार्कोऽग्नेरर्कस्य हेतुत्वात । अप्सु चाग्नि: प्रतिष्ठित इति । न पुन: साक्षादेवार्कस्ता: । तासामपर्करणात । अग्नेश्च प्रकरणम । वक्ष्यति चायमग्निरर्क इति । तत्तत्र यदपां शर इव शरो दध्न इब मण्डभुतमासीत्तत्समहन्यत संघातमापद्यत तेजसा बाहयान्त: पच्यमानं लिङगव्यत्ययेन वा योऽपां शर: स समहन्यतेति । सा पृथिव्यभवत्स संघातो येय्म पृथिवी साऽभवत । ताभ्योऽसभ्योऽण्डमभिनिर्वृतभित्यर्थ: ॥

भाष्यं :---  तस्यां पृथिव्यामुत्पादितायां स मृत्यु: प्रजापतिरश्राम्यच्छ्रमयुक्तो वभूव । सर्वो हि लोक: कार्यं कृत्वा श्राम्यति । प्रजापतेश्च तन्महत्कार्यं यत्पृथिवीसर्ग:  । किं तस्य श्रान्तस्येत्युच्यते । तस्य श्राअन्तस्य तप्तस्य खिन्नस्य तेजोरसस्तेज एव रसतेजोरसो रस: सारो निरवर्तत प्रजपतिशरीरान्निष्क्रान्त इत्यर्थ: । कोऽसौ निष्कान्तोग्नि: सोऽण्डस्यान्तर्विराटप्रजापति: प्रथमज: कार्यकरणसंघतवाञ्चात: । “ सवै शरीरी प्रथम: इति स्मरणात ॥२॥

श्रुति :--- स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीय स एष प्राणस्त्रेधा विधित: । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ अथास्य प्रतीची दिक्पच्छ्मसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्चे द्यौ: पृष्ठमन्तरिक्षमुदरमियुमुर: स एषोऽष्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान ॥३॥

भाष्यं :--- स च जात: प्रजापतिस्त्रेधा त्रिप्रकारमात्मानं स्वयमेव कार्यकरणसंघातं व्यकुरुत व्यभजदित्येतत । कथं त्रेधेत्याह । आदित्यं तृतीयमग्निवाय्वपेक्शया त्रयाणां पूरणमकुरुतेत्यनुवर्तते । तथाऽग्न्यादित्यापेक्षया वायुं तृतीयम । तथा वाय्वादित्यापेक्षयाऽग्निं तृतीयमिति द्रश्ज्टव्यम । सामर्थ्यस्य तुल्यत्वात्त्रयाणां संख्यापूरनत्वे । स एष प्राण; सर्वभुतानामात्माऽप्यग्निवायवादित्यरूपेण विशेषत: स्वेनैव मृत्व्य्वात्मना त्रेधा विहितो विभक्तो न विराटस्वरूपोपमर्दनेन ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP