द्वितीयं ब्राम्हणं - भाष्यं ३

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- कार्यस्य चाभिव्यक्तिलिङगत्वात । कार्यस्य च सद्भाव: प्रागुप्तत्ते: सिद्धा: । कथम । अभिव्यक्तिलिङ्गत्वादभिव्यक्तिर्लिङगमस्येति । अभिव्यक्ति: साक्षाद्विज्ञानालम्ब्रनत्वप्रापिप्ति: । यद्धि लोके प्रावृत्त्तं तमाअदिन घटादि वस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविशयत्वं प्राप्नुवत्प्राक्सद्भावं न व्यभिचरति । तथेदमपि जगत्प्रागुत्पत्तेरित्यवगच्छाम: । हयविद्यमानो घट उदितेऽष्यादित्य उपलभ्यते ॥

भाष्यं :--- न । तेऽविद्यमानत्वाभावादुपलभ्येतैवेति चेत । न हि तव घटादिकार्यं कादाचिदप्यविद्यमानम । इत्युदित आदित्य उपलभ्येतैव मृत्पिण्डेऽसंनिहिते तमाअद्यावरणे चास्ति । विद्यमानत्वादिति चेत । न । दिविधत्वादावरणस्य ॥

भाष्यं :--- घटादिकार्यस्य द्विधं हयावरणं मृदादेगभिव्यक्तस्य तम: कुडयादिप्राङमृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम । तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्याऽऽवृतत्वादनुपलब्धि: । नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्त्वभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्ष: ॥

भाष्यं :--- पिण्ड्ङकपालादेरावर्णवैलक्षण्यादयुक्तमिति चेत  तम:कुडयादि हि घटाद्यावरणं घटादिभिन्नदेशं द्दष्टं न तथा घटादिभिन्नदेशे द्दष्टे पिण्डकपाले । तस्मात्पिण्डकपालसंस्थानरोरिव्द्यमानस्यैव घटस्याऽऽवृतत्वादनुपलब्धिरित्ययुक्त मावरणधर्मवैलक्षण्यादिति चेतू ॥

भाष्यं :--- न । क्षीरोदकादे: क्षीराद्यावरणेनिअकदेसत्वदर्शनात । घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत । न । विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्ते: ॥

भाष्यं :--- आवरणाभाव अएव यत्न: कर्तव्य इति चेत्पिण्डकपालावस्थयोरिव्द्यमानमेव घटादिकार्यमावृतत्वान्नोपलभ्यत इति चेत । घटादिकार्यार्थिना तदावरणविनाशा एव यत्न: कर्तव्यो न घटाद्युत्पत्तौ । न चैतदस्ति । तस्मादयुक्तं विद्यमानस्यैवाऽऽवृतवादनुपलब्धिरिति चेत । न । अनियमात । नहि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता }॥

भाष्यं :--- तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात । सोऽपि तमोनाशायैवेति चेत । दिफाद्युत्पत्तावपि य: प्रयत्न: सोऽपि तमस्तिरस्करणाय तस्मिन्नष्टे घट:  स्वयमेवोपलभ्यते ।नहि घटे किंचिदाधीयत इति चेत । न । प्रकाशावतो घटस्योपलभ्यमानत्वात ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP