TransLiteral Foundation

श्रीगुरूदत्त योगः - सूक्ष्मध्यानम्

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


सूक्ष्मध्यानम्
अथ सूक्ष्मध्यानम् ।

घेरण्ड उवाच -

तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं शृणुष्व मे ।
बहुभाग्यवशाद यस्य कुण्डली जाग्रती भवेत् ॥१९॥
आत्मना सहयोगेन नेत्ररन्ध्राद्विनिर्गता ।
विहरेद राजमार्गे च चंचलत्वान्न द्दश्यते ॥२०॥
शाम्भवीमुद्रया योगी  ध्यानयोगेन सिध्यति ।
सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ॥२१॥
स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते ।
तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥२२॥
इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ।
आत्मा साक्षाद भवेद यस्मात्तस्माद्धयानं विशिष्यते ॥२३॥

अन्यदेव ततो रक्तपिंडाध्ह्रदयमुच्यते ।
अयं ह्रदिति वृत्या तदात्मानो रूपमीरितम् ॥
तस्य दक्षिणतो धाम ह्रत्पीठे नैव वामत: ।
तस्मात्प्रवहति ज्योति: सहस्रारं सुषुम्नया ॥
ह्रत्स्थले मन: स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥

ह्रदयींच स्नान ह्रदयीच ध्यान । ह्रदयींच भजन सर्व काळ ॥१॥
ह्र्दयींच दान ह्रदयींच धर्म । ह्रदयींच नेम सर्व जोडें ॥२॥
ह्रदयींच कथा पुराण श्रवण । ह्रदयींच चिंतन सर्व सदा ॥३॥
ह्रदयींच दिसे एका जनार्दनीं । ह्रदयींच एकपणीं बिंबलासें ॥४॥

ह्रदयींच देव ह्रदयींच भक्त । ह्रदयींच होत पूजा सर्व ॥१॥
ह्र्दयींच ध्यान ह्र्दयीं जें मन । ह्रदयीं तें आसन देव वसे ॥२॥
ह्रदयीं तें भुक्ति ह्रदयीं ते मुक्तिं । ह्रदयीं सर्व स्थिति देव जाणे ॥३॥
एका जनार्दनीं ह्रदयींच पहाल । तें सुख घ्याल ह्रदयामाजीं ॥४॥

ह्रदयस्थ जया नाहीं ठावा देव । पूजा करती वाव सर्व भावें ॥१॥
जाणावा अंतरीं मानावा ह्रदयी । पहावा सर्वांतरीं परमात्मा ॥२॥
एका जनार्दनीं व्यापक सर्वां ठायीं । भरूनी उरला ठाई जेथें तेथें ॥३॥

कुंभकेन ह्रदि स्थाने ध्यायेच्च कमलासनम् ।
बम्हाणं रक्तगौरांगं चतुर्वक्त्रं पितामहम् ॥

ह्रत्पद्मेऽष्टदलोपेते कंदमध्यात्समुत्थिते ।
द्वादशांगुलनालेऽ स्मिंश्चतुरंगलवन्मुखे ॥
प्राणायामैर्विकसिते केसरान्वितकर्णिके ।
वासुदेवं जगद्योनिं नारायणमजं विभुम् ॥
चतुर्भुजमुदारांगं शंखचक्रगदाधरम् ।
किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ॥
श्रीवत्सवक्षसं श्रीशं पूर्णचंद्रनिभाननम् ।
नीलोत्पलदलाभासं सुप्रसन्नं शुचिस्मितम् ॥
शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् ।
पद्मस्थस्वपदद्वंद्वं परमात्मानमव्ययम् ॥
प्रभाभिर्मासयद्रूपं परित: पुरुषोत्तमम् ।
मनसालोक्य देवेशं सर्वभूतह्रदि स्थितम् ॥
सोहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते ।
ह्रत्सरोरूहमध्येऽस्मिन् प्रकृत्या आत्मकर्णिके ॥
अष्टैश्वर्यदलोपेते विकारमयकेसर ॥
ज्ञानानले बृहत्कंदे प्राणायामप्रबोधिते ।
विश्वार्चिषं महावहिनं ज्वलन्तं विश्वतोमुखम् ॥
वैश्वानरं जगद्योनिं शिखानां बीजमीश्वरम् ।
तापयंतें स्वकं देहमापादतलमस्तकम् ॥
निर्वातदीपवत्तस्मिन्  दीपितं हव्यवाहनम् ।
द्दष्टवा तस्य शिखामध्ये परमात्मानमक्षरम् ॥
नीलतोयदमध्यस्थविद्युल्लेखेवराजितं ।
नीवारशूकवद्रूपं पीताभं सर्वकारणम् ॥
ज्ञात्वा वैश्वानरं देवं सोहमात्मेति या मति: ।
सगुणेषूत्तमं हयेतत् ध्यानं योगविदेरितं ॥
अथवा मंडलं पश्येदादित्यस्य महात्मन: ।
आत्मानं सर्वजगत: पुरुषं हेमरुपिणम् ॥
हिरण्यश्मश्रुकेशं च हिरण्मयनखं हरिम् ।
पद्मासनं चतुर्वक्त्रं सृष्टिस्थित्यंतकारणम् ॥
ब्रम्हासनस्थितं सौम्यं प्रबुद्धं कमलासमन् ।
भासयन्तं जगत्सर्वं द्दष्टवा लोकैकसाक्षिणम् ॥
सोहमात्मेति बुद्धिर्या सा च ध्यानेषु शस्यते ।

उन्न्द्रिह्रदयांभोजे सोममंडलमध्यमे ॥
स्वात्मानं मंडलाकारं भोक्तृरूपिनमक्षरम् ।
सुधारसं विमुंचद्धिश्शशिरश्मिभिरावृतम् ॥
सहस्रच्छद्संयुक्ताच्छिर: पद्मादघोमुखात् ।
निर्गतामृतधाराभि: सहस्राभि: समंतत: ॥
प्लावितं पुरुषं तत्र चिंतयेत्तु समाहित: ।
तेनामृतरसेनैव सांगोपांगकलेवरम् ॥
अहमेव परब्रम्हा सच्चिदानंदलक्षणम् ।
एवं ध्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत ॥
वत्सरान्मुक्त एवस्याज्जीवन्नपि न संशय: ॥

अर्थात् -

अन्यान्यपि बहुन्याहुर्ध्यानानिमुनिपुंगवा: ।
मुख्यान्येतानि चैतभ्यो जघन्यानीतराणितु ॥
असेंहि तेथेंच सांगून टाकिलें आहे.
‘मुदगलपुराणां’ त म्हट्लें आहे -
चतुर्धा मानसी पूजा ज्ञातव्या च सुरोत्तम ।
साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥
ह्रदि मूर्तिर्गणेशस्य ध्यात्वा तत्रोपचारकै: ।
मानसै: पूजयेद्देवं साधारा सा मता बुधै: ॥
अन्या हयेकाग्रचित्तेन सर्वत्रैकात्मभावना ॥
तयाऽऽयत्तेन भोगादि कृतं तत्पूजनं मह‍त ॥
तत्रैकात्मस्वरूपाश्चाऽऽधार: प्राप्तो जनेन वै ॥
तेन साऽऽधार रूपा सा प्रोक्ता पूजा मनीषिभि: ॥
निरोधश्चित्तवृत्यायं सर्वात्मवर्जितोजनै: ॥
मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥
तदेव पूजनं तेन कृतं प्रहलाद निश्चितम् ॥
निराधारा मता पूजा गणेशस्त तदात्मन: ॥
चित्तस्य पञ्चभूमीनां लयं कृत्वा समास्थित: ॥
तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥
योगे विधिनिषेधादि सर्व तेनोपचारकम् ।
समर्पितं गणेशाय तदेव पूजनं भवेत् ॥
शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभि: ।
एवं मानसजं दैत्य चतुर्द्वा पूजनं भवेत् ॥

चतुष्कला समायुक्तो भ्राम्यते च ह्रदि स्थित: ।
गोलकस्तु यदा देहे क्षीरदण्डेन वाहत: ॥
एतस्मिन्वसते शीघ्रमविश्रान्त महाखग: ।
यावन्निश्वसितो जीवस्तावन्निष्कलतां गत: ।
नमस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् ।
अनाहतध्वनियुतं हंसं यो वेद ह्रद्नतम् ।
स्वप्रकाशचिदानन्दं स हंस इति गीयते ।
रेचकं पूरकं मुक्त्वा कुम्भकेन स्थित: सुधी: ।
नाभिकन्दे समौ कृत्वा प्राणापानौ समाहित: ।
मस्तकस्था मृतास्वादं पीत्वा ध्यानेन सादरम् ॥
 
(ब्रम्हाविद्योपनिषत्‌ ।)

ह्रत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रम्हायोनिम् ।
तमादिमध्यान्तविहीनमेकं विमुं चिदानन्दमरूपमदभुतम् ।
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकाण्ठं प्रशान्तम् ।
ध्यात्वामुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमस: परस्तात् ॥

(कैवल्योपनिषत् ।)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-23T03:11:44.6200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rate of increment

  • वाढीचा दर 
RANDOM WORD

Did you know?

गणेश गीता कोणी वाचावी ?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site