TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीगुरूदत्त योगः - यम नियम

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


यम नियम
यम -

तत्राहिंसासत्यास्तेयब्रम्हाचर्यापरिग्रहा यमा: ॥

“आणि जगाचेया सुखाचि दोसें । शरीर वाचा मानसें ।
राहाटणें तें अहिंसे । रूप जाण ॥”

सत्येन लभ्यस्तपसा हयेष आत्मा ।
सम्यकज्ञानेन ब्रम्हाचर्येण नित्यम ॥
अन्त:शरीरे ज्योतिर्मयो हि शुभ्रो ।
यं पश्यन्ति यतय: क्षीणदोषा: ॥
सत्यमेव जयति नानृतम् ।
सत्येन पन्था विततो देवयान: ॥
येनाक्रमन्त्यृषयो हयाप्तकामा: ।
यत्र तत्सत्यस्य परभं निधानम् ॥

(तृतीय मुण्डकोपनिषद, प्रथम खंड ५, ६)

नियम -

शौचसंतोषतप:स्वाध्यायेश्वरप्रणिधानानि नियमा: ।

(यो. सू. २.३२)

अहिंसा सत्यमस्तेयं ब्रम्हाचर्यं क्षमा धृति: ।
दयाऽऽर्जवं मिताहार: शौचं चैव यमा दश ॥
तप: संतोष आस्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तवाक्यश्रवणं हरीमतिश्च तपो हुतम् ।
नियमा दश संप्रोक्ता योगशास्त्रविशारदै: ॥ (ह. प्र.)

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रम्हाचर्यमहिंसा च शारीरं तप उच्चते ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङमयं तप उच्यते ॥
मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: ।
अफलाकांक्षिभिर्युक्तै: सात्विकं परिचक्षते ॥
सत्कारमानपूजार्थं तपो दंभेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।
मूढग्राहेणात्मनो यत्पीडया क्रियते तप: ।
परस्योत्सादनार्थं वा तत्तामसमुदाह्रतम् ॥

(भ. गी. १७-१४. १९)

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग: ॥३५॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
ब्रम्हाचयप्रतिष्ठायां वीर्यलाभ: ॥३८॥
अपरिग्रहस्थैर्ये जन्मकथन्ता संबोध: ॥३९॥
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्ग: ॥४०॥
सत्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥
संतोषादनुत्तमसुखलाभ: ॥४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपस: ॥४३॥
स्वाध्यायादिष्टदेवतासंप्रयोग: ॥४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥

पातञ्जलयोगसूत्रें - साधनपाद २

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: ।
नात्युच्छितं नातिनीचं चैलाजिनकुशोत्तरम् ॥
तत्रैकाग्रं मन: कृत्वा यतचित्तोन्द्रिंयक्रिय: ।
उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
प्रशान्तात्मा विगतभी ब्रम्हाचारिव्रते स्थित: ।
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: ॥

(भ. गी. ६)

ततो द्वन्द्वानभिघात: ॥

(यो. सू. साधनपाद ४८)

तत: क्षीयते प्रकाशावरणम् ॥
धारणासु च योग्यता मनस: ॥

(यो. सू. साधनपाद ५२-५३)

स्वविषयाऽसंप्रयोगे चित्तस्वरूपानुकार इंद्रियाणां प्रत्याहार: ॥
तत: परमा वश्यता इंद्रियाणाम् ॥

(यो. सू. साधनपाद ५४-५५)

यदा संहरते चायं कूर्मोंऽगानीव सर्वश: ।
इंद्रियाणींद्रियार्थेंभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

(भ. गी. २-५८)

ध्यायतो विषयान्पुंस: संगस्तेषूपजायते ।
संगात्संजायते काम: कामात्क्रोधोऽभिजायते ॥
क्रोधादभवति संमोह: संमोहात्स्मृतिविभ्रम: ।
स्मृतिभ्रंशादबुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥
रागद्वेषवियक्तैस्तु विषयानिंद्रियैश्वरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
प्रसादे सर्वदु:खानां हानिरस्योपजायते ।
प्रसन्नचेतसोहयाशु बुद्धि: पर्यवतिष्ठते ॥

(भ. गी. २, ६२, ६३, ६४, ६५,)

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च ॥
इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्यत्याहुर्मनीषिण: ॥

(कठोपनिषद, अ. १, वल्ली ३, ३, ४,)

येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यत एतद्वै तत् ॥

(कठोपनिषद, अ २ वल्ली १, ३)

अन्तर्लक्ष्यं बहिहष्टिर्निमेषोन्मेषवर्जिता ।
एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता ॥ (ह. प्र.)
तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद भ्रवौ ।
पूर्वयोगं मनो युञ्जन्नुन्मनीकारक: क्षणात् ॥ (ह. प्र.)

देशबन्धचित्तस्य धारणा ॥

(यो. सू. विभूतिपाद सू. १)

तत्र प्रत्ययैकतानता ध्यानम् ॥

(यो. सू. ३. २)

अपक्रामन्तु भूतानि पिशाचा: सर्वतोदिशम् ।
सर्वेषामविरोधेन ब्रम्हाकर्म समारभे ॥

क्लेशोधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यवता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥

(भ. गी.१२, ५)

घेरण्डसंहितें’ मध्यें ध्यानाचे प्रकार पुढील प्रमाणें वर्णिलेले आहेत.

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-23T03:08:41.1030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

exploratory committee

  • समन्वेषक समिति 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site