चतुर्थः पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


जगद्वयापारवर्जं प्रकरणादसंनिहितत्वाच्च ॥१७॥

जगद्वयापारवर्जं प्रकरणादसंनिहितत्वाच्च ॥
ते सगुणब्रम्होपासनात्सहैव मनसेश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहमैश्वर्यं भवत्याहोस्वित्सावग्रहमिति संशय: ।
किं तावत्प्राप्तम् ।
निरङकुशमेवैषामैश्वर्य भवितुमर्हति आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिमावहन्ति तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादिश्रुतिभ्य इति ।
एवं प्राप्ते पठति ।
जगद्वयापारवर्जमिति ।
जगदुत्पत्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्यं मुक्तनां भवितुमर्हति जगद्वयापारस्तु नित्यसिद्धस्यैवेश्वरस्य ।
कुत: ।
तस्य तत्र प्रकृतत्वादसंनिहितत्वाच्चेतरेषाम् ।
पर एव हीश्वरो जगव्द्यापारेऽधिकृत: ।
तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च ।
तदन्वेषणविजिज्ञासनपूर्वकं त्वितरेषामणिमाद्यैश्वर्यं श्रूयते ।
तेनांनिहितास्ते जगद्वयापारे ।
समनस्कत्वादेव चैतेषामनैकमत्ये कस्यचित्स्थित्यभिप्राय: कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात् ।
अथ कस्यचित्संकल्पमन्वस्य संकल्प इत्यविरोध: समर्थेत तत: परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥१७॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP