चतुर्थः पाद: - सूत्र ७-८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण: ॥७॥

एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण: ॥
पवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्बस्याप्युपन्यासादिभ्योऽवगतस्य ब्राम्हास्यैश्वर्यरूपस्याप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥७॥

संकल्पादेव तु तच्छुते: ॥८॥

संकल्पादेव तु तच्छुते: ॥
हार्दविद्यायां श्रूयत्ते स यदि पितृलोककामो भवति संकल्यादेवास्य पितर: समुत्तिष्ठन्तीत्यादि ।
तत्र संशय: किं संकल्प एव केवल: पित्रादिसमुत्याने हेतुरुत निमित्तान्तरसहित इति ।
तत्र सत्यपि संकल्पादवेति श्रवणे लोकवन्निमितान्तरापेक्षा गुक्ता ।
यथा लाकेऽस्मदादीनां संकल्पाद्नमनादिब्यश्व हेतुभ्य: पित्रादिसंपत्तिर्भवत्येवं मुक्तत्यापि स्यात् ।
एवं द्दष्टविपरीतं न कल्पितं भविष्यति ।
संकल्पादेवेति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्योच्यते ।
न च संकल्पमात्रसमुत्थाना: पित्रादयो मनोरथविजृम्भितवच्चलत्वात्पुष्कलं भोगं समर्पयितुं पर्याप्ता: स्युरिति ।
एवं प्राप्ते ब्रूम: ।
संकल्पादेव तु केवलात्पित्रादिसमुत्थानमिति ।
कुत: ।
तच्छ्रते: ।
संकल्पादेवास्य पितर: समुत्तिष्ठन्तीत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीङयेत ।
निमित्तान्तरमपि तु यदि संकल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसंपायं निमित्तान्तरमितीष्यते ।
प्राक्सपतेर्वन्धसंकल्पत्वप्रसङ्गात् ।
न च श्रुत्यव गम्येऽर्थे लोकवदिति सामान्यतो द्दष्टं कमते ।
संकल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्योपपत्ति: ।
प्राकृतसंकल्पविलक्षणत्वान्मुक्तसंकल्पस्य ॥८॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP