चतुर्थः पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आत्मा प्रकरणात् ॥३॥

आत्मा प्रकरणात् ॥
कथं पुनर्मुक्त इत्युच्यते यावता परं ज्योतिरुपसंपद्येति कार्यगोचरमेवेनं श्रावयति ।
ज्योति: शब्दस्य भौतिकज्योतिषि रूढत्वात् ।
न चानतिवृत्तो विकारविषयात्कश्चिद्विमुक्तो भवितुमर्हति ।
विकारस्यतित्वप्रसिद्धेरिति ।
नैष दोष: ।
यत आत्मैवातर ज्योति:शब्देनावेद्यते प्रकरणात् ।
य आत्माऽपहतपाप्मा विरजो विमृत्युरिति प्रकृते परस्मिन्नात्मनि नाकस्माद्भौतिकं ज्योति: शक्यं ग्रहीतुं प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गात् ।
ज्योति: शब्दस्त्वात्मन्यपि द्दश्यते तद्देवा ज्योतिषां ज्योतिरिति ।
प्रपञ्चितं चैतज्ज्योतिर्दर्शनादित्यत्र ॥३॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP