चतुर्थः पादः - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संपाद्याविर्भाव: स्वेनशब्दात् ॥१॥

संपाद्याविर्भाव: स्वेनशब्दात् ॥
एवमेषैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रूयते ।
तत्र संशय: किं देवलोकाद्युपभोगस्थानेष्विवागन्तुकेन केनचिद्विशेषेणाभिनिष्पद्यत आहोस्विदात्ममात्रेणेति ।
किं तावत्प्राप्तम् ।
स्थानान्तरेष्विवागन्तुकेन केनचिद्रूपेणाभिनिष्पत्ति: स्यात् ।
मोक्षस्यापि फलत्वप्रसिद्धे: ।
अभिनिष्पद्यत इति चोत्पत्तिपर्यायत्वात् ।
स्वरूपमात्रेण चेदभिनिष्पत्ति: पूर्वास्वप्यवस्थासु स्वरूपानपायाद्विभाव्येत ।
तस्माद्विशेषेण केनचिदभिनिष्पद्यत इति ।
एवं प्राप्ते ब्रूम: ।
केवलेनैवात्मनाविर्भवति न धर्मान्तरेणेति ।
कुत: ।
स्नेन रूपेणाभिनिष्पद्यत इति स्वशब्दात् ।
अन्यथा हि स्वशब्देन विशेषणमनवक्लृप्तं स्यात् ।
नन्वात्मीयाभिप्राय: स्वशब्दो भविष्यति । न ।
तस्यावचनीयत्वात् ।
येनैव हि केनचिद्रूपेणाभिनिष्पद्यते तस्यैवात्मीयत्वोपपत्ते: स्वेनेति विशेषणमनर्थकं स्यात् ।
आत्मवचनतायां त्वर्थवत्केवलेनैवात्मरूपेणाभिनिष्पद्यते नागन्तुकेनापररूपेणातीति ॥१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP