प्रथमः पादः - सूत्र १६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥१६॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥
पुण्यस्याप्यश्लेषविनाशयोर्घन्यायोऽतिदिष्ट: सोऽतिदेस: सर्वपुन्यविषय त्याशङक्य प्रतिवक्ति - अग्निहोत्रादि त्विति ।
तुशब्द आशंकामपनुदति ।
यन्नित्यं कर्म वैदिकमाग्नहोत्रादि तत्तत्कार्यायैव भवति ज्ञानस्य यत्कार्यं तदेवास्थापि कार्यमित्यर्थ: ।
कुत: तमेतं वेदानुवचनेन ब्राम्हाणा विविदिषन्ति यज्ञेन दानेनेत्यादिदर्शनात् ।
ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्ति: ।
नैष दोष: ।
ज्वरमरणकार्ययोराप दधिविषयोर्गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टकार्यदर्शनात् ।
तद्वत्कर्मणाऽप ज्ञानसंयुक्तस्य मोक्षकार्योपपत्ते: ।
नन्वनारभ्यो मोक्ष: कथमस्य कर्मकार्यत्वमुच्यते ।
नैष दोष: ।
आरादुपकारकत्वात्कर्मण:  ।
ज्ञानस्यवै व्हि प्रापकं सत्कर्म प्रणाडया मोक्षकारणमित्युपचर्यते ।
अत एव चातिक्रान्तविषयमेतत्कायर्कैत्वाभिधानम् ।
न हि ब्रम्हाविद आगाम्यग्निहोत्रादि संभवति ।
अनियोज्यब्रम्हात्मत्वप्रतिपत्ते: शास्त्रस्याविषयत्वात् ।
सगुणासु तु विद्यासु कर्तृत्वानतिवृत्ते: संभवत्यागाम्यप्यग्निहोत्रादि ।
तस्यापि निरभिसन्धिन: कायान्तराभावाद्विद्यासंगत्युपपत्ति: ॥१६॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP