प्रथमः पादः - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आसीन: संभवात् ॥७॥

आसीन: संभवात् ॥
कर्मांङ्गसंबद्धेषु तावदुपासनेषु कर्मतन्त्रत्वानासनादिचिन्ता नापि सम्यग्दर्शने वस्तुतन्त्रत्वाद्विज्ञानस्य ।
इतरेषु तृपासनेषु किमनियमेन तिष्ठन्नासीन: शयानो वा प्रवर्तेतोत नियमेनासीन एवेति चिन्तयति ।
तत्र मानसत्वादुपासनस्यानियम: शरीरस्थितेरिति ।
एवं प्राप्ते ब्रवीति ।
आसीन एवोपासीतेति । कुत: ।
संभवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तद्नच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकत्वात् ।
तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षनक्षमं भवति ।
शयानस्याप्यकस्मादेव निद्रयाऽभिभूयेत ।
आसीनस्य त्वेवंजातीयको भूयान्दोष: सुपरिहर इति संभवति तस्योपासनम् ॥७॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP